हे चतुर, वद उत्तरम् !
|
अस्ति ग्रीवा शिरो नास्ति द्वौ भुजौ करवर्जितौ ।
सीतापहरणसामर्थ्ये न रामो न च रावणः ॥
कण्ठः विद्यते, मस्तकं न विद्यते । उभौ भुजौ स्तः, किन्तु करौ न स्तः ।
सीतापहरणे समर्थः, किन्तु रामः अपि न, रावणः अपि न । अत्र
’सीता’ इत्यस्य शैत्यम् इति अर्थः ग्रहीतव्यः । कञ्चुकं नाम चोलं शैत्यम् अपहरति ।
|
|
|
|
|
वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति ।
इति पाठयतां ग्रन्थे काठिन्यं कुत्र विद्यते ॥
यदि शिष्यः पाठ्यभागविषये कठिनं प्रश्नं पृच्छति तर्हि उत्तरकथनं निवारयितुं त्रयः मार्गाः । ‘रे पठ पठ’ इति तर्जनं प्रथमः प्रकारः । ‘इदानीं समयः नास्ति । श्वः वदिष्यामि’ इति कथनं द्वितीयः मार्गः । ‘एषः विषयः भवता इदानीं न बुध्यते । कालान्तरे भवान् ज्ञास्यति’ इति कथनं तृतीयः प्रकारः । एतान् प्रकारान् अवलम्ब्य ये पाठयन्ति ते कस्यापि ग्रन्थस्य पाठने काठिन्यं न अनुभवन्ति ।
|
|
|
|