सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.१६०

विकिस्रोतः तः
← सूक्तं १०.१५९ ऋग्वेदः - मण्डल १०
सूक्तं १०.१६०
पूरणो वैश्वामित्रः।
सूक्तं १०.१६१ →
दे. इन्द्रः । त्रिष्टुप्।


तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।
इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः ॥१॥
तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति ।
इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥२॥
य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति ।
न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥३॥
अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम् ।
निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥४॥
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।
आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥५॥


सायणभाष्यम्

‘ तीव्रस्य ' इति पञ्चर्चं नवमं सूक्तं वैश्वामित्रस्य पूरणस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं ‘ तीव्रस्य पञ्च पूरणो वैश्वामित्रः' इति । तीव्रसोमाख्य एकाह इदं निष्केवल्यनिविद्धानम् । सूत्रितं च -- क्व स्य वीरस्तीव्रस्याभिवयस इति मध्यंदिनः ' ( आश्व. श्रौ. ९, ७ ) इति । महाव्रतेऽपि माध्यंदिने सवने ब्रह्मशस्त्रेऽप्येतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं -- तीव्रस्याभिवयसो अस्य पाहीति माध्यंदिने' (ऐ. आ. ५, १. १ ) इति ।।


ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च ।

इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तास॑ः ॥१

ती॒व्रस्य॑ । अ॒भिऽव॑यसः । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ ।

इन्द्र॑ । मा । त्वा॒ । यज॑मानासः । अ॒न्ये । नि । री॒र॒म॒न् । तुभ्य॑म् । इ॒मे । सु॒तासः॑ ॥१

तीव्रस्य । अभिऽवयसः । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च ।

इन्द्र । मा । त्वा । यजमानासः । अन्ये । नि । रीरमन् । तुभ्यम् । इमे । सुतासः ॥१

“तीव्रस्य तीक्ष्णस्य क्षिप्रंमदकरस्य “अभिवयसः। वय इत्यन्ननाम। अभिगतं चरुपुरोडाशाद्यन्नं यस्य तादृशस्य “अस्य सोमस्य। क्रियाग्रहणं कर्तव्यम् इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी। ईदृशं सोमं हे इन्द्र “पाहि पिब। पिबतेश्छान्दसः शपो लुक्। तदर्थं “सर्वरथा सरणशीलस्थौ “हरी अश्वौ “इह अस्मिन् यज्ञगृहे “वि “मुञ्च रथाद्विसृज। हे “इन्द्र अस्मत्तः “अन्ये “यजमानासः यजमानाः “त्वा त्वां “मा “नि “रीरमन् नितरां मा रमयन्तु। वयमेव रमयाम इत्यर्थः। ततः “तुभ्यं त्वदर्थमेव “सुतासः सुता अभिषुताः “इमे प्रत्यक्षेणोपलभ्यमानाः सोमा वर्तन्ते।


तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिर॒ः श्वात्र्या॒ आ ह्व॑यन्ति ।

इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ॥२

तुभ्य॑म् । सु॒ताः । तुभ्य॑म् । ऊं॒ इति॑ । सोत्वा॑सः । त्वाम् । गिरः॑ । श्वात्र्याः॑ । आ । ह्व॒य॒न्ति॒ ।

इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒णः । विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥२

तुभ्यम् । सुताः । तुभ्यम् । ऊं इति । सोत्वासः । त्वाम् । गिरः । श्वात्र्याः । आ । ह्वयन्ति ।

इन्द्र । इदम् । अद्य । सवनम् । जुषाणः । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥२

हे इन्द्र “तुभ्यं त्वदर्थमेव “सुताः अभिषुताः सर्वे सोमाः “सोत्वासः इतःपरमभिषोतव्याश्च “तुभ्यमु त्वदर्थमेव । सुनोतेः ‘कृत्यार्थे तवैकेन्' इति त्वन्प्रत्ययः । “श्वात्र्याः शु आशु शीघ्रमतन्त्यः प्रवर्तमानाः “गिरः स्तुतिरूपा वाचश्च “त्वाम् एव “आ “ह्वयन्ति आक्रोशयन्ति । हे “इन्द्र “अद्य अस्मिन् काले “इदं “सवनं प्रातःसवनादिकं “जुषाणः सेवमानः “विश्वस्य सर्वस्य “विद्वान् ज्ञाता त्वम् “इह अस्मिन् यज्ञे “सोमं "पाहि पिब ।।


य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑ ।

न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥३

यः । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वऽका॑मः । सु॒नोति॑ ।

न । गाः । इन्द्रः॑ । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥३

यः । उशता । मनसा । सोमम् । अस्मै । सर्वऽहृदा । देवऽकामः । सुनोति ।

न । गाः । इन्द्रः । तस्य । परा । ददाति । प्रऽशस्तम् । इत् । चारुम् । अस्मै । कृणोति ॥३

“य “उशता कामयमानेन "सर्वहृदा । सर्वमविकलं हृदयं यस्य । यद्वा । सर्वेषामृत्विजां हृदयेन । सामर्थ्यान्मत्वर्थो लक्ष्यते । हृदयवता “मनसा "अस्मै इन्द्राय “देवकामः देवमिन्द्रं कामयमानो यजमानः “सोमं “सुनोति अभिषुणोति । “इन्द्रस्तस्य यजमानस्य “गाः “न “परा “ददाति । परादानं विनाशः । न विनाशयति । “अस्मै यजमानाय "चारुं शोभनमत एव “प्रशस्तम् । “इत् इत्यवधारणे । प्रशंसनीयमेव धनं “कृणोति करोति ॥


अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म् ।

निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥४

अनु॑ऽस्पष्टः । भ॒व॒ति॒ । ए॒षः । अ॒स्य॒ । यः । अ॒स्मै॒ । रे॒वान् । न । सु॒नोति॑ । सोम॑म् ।

निः । अ॒र॒त्नौ । म॒घऽवा॑ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒ऽद्विषः॑ । ह॒न्ति॒ । अन॑नुऽदिष्टः ॥४

अनुऽस्पष्टः । भवति । एषः । अस्य । यः । अस्मै । रेवान् । न । सुनोति । सोमम् ।

निः । अरत्नौ । मघऽवा । तम् । दधाति । ब्रह्मऽद्विषः । हन्ति । अननुऽदिष्टः ॥४

“अस्य यजमानस्य “एषः इन्द्रः “अनुस्पष्टः दृष्टिगोचरो भवति “वः “रेवान् धनवान् “अस्मै इन्द्राय “सोमं “सुनोति अभिषुणोति । “मघवा धनोपेत इन्द्रः “तं यजमानम् “अरत्नौ हस्ते “निः “दधाति भयान्निकृष्य धारयति रक्षिता सन् धृत्वा च “अननुदिष्टः तेनानुक्तोऽप्रार्थित एव सन् “ब्रह्मद्विषः ब्राह्मणद्वेष्टॄन् शत्रून् “हन्ति हिनस्ति ।।


शुनासीरीये पर्वणि ‘इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालम् 'इत्यस्य ‘ अश्वायन्तः । इत्येषा याज्या । इन्द्रो वा शुन इति वैकल्पिकस्यापि हविष इयमेव याज्या । सूत्रितं च -- ‘अश्वायन्तो गव्यन्तो वाजयन्तः शुनं हुवेम मघवानमिन्द्रम्' (आश्व. श्रौ. २, २० ) इति ॥

अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ ।

आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥५

अ॒श्व॒ऽयन्तः॑ । ग॒व्यन्तः॑ । वा॒जय॑न्तः । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊं॒ इति॑ ।

आ॒ऽभूष॑न्तः । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒ ॥५

अश्वऽयन्तः । गव्यन्तः । वाजयन्तः । हवामहे । त्वा । उपऽगन्तवै । ऊं इति ।

आऽभूषन्तः । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम ॥५

“अश्वायन्तः अश्वानात्मन इच्छन्तः ।। क्यचि • अश्वाधस्यात् ' (पा. सू.७.४.३७ ) इत्यात्वम् ॥ “गव्यन्तः गा आत्मन इच्छन्तः ॥ ‘वान्तो यि प्रत्यये' (पा. सू. ६. १. ७९) इत्यवादेशः ॥ “वाजयन्तः अग्नीन् वाजनेन शूर्पादिना प्रज्वलयन्तः ॥ ‘ वा गतिगन्धनयोः'। णिचि वो विधूनने ( पा. सू. ७. ३. ३८) इति जुगागमः । अस्माच्छतर्यदुपदेशाल्लसार्वधातुकस्वरेणानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे ततो णिच एव स्वरः शिष्यते । अपर आह । वाजमन्नमात्मन इच्छन्त इति । तदानीमवग्रहाभावस्वरौ छान्दसौ द्रष्टव्यौ । एवंभूता वयं हे इन्द्र त्वाम् “उपगन्तवै उपगन्तुं प्राप्तुं “हवामहे आह्वयामहे ।। गमेः ‘ तुमर्थे सेसेन्' इति तवैप्रत्ययः । गतिसमासे ' तवै चान्तश्च युगपत्' इति गतेः प्रकृतिस्वरत्वमुत्तरपदस्यान्तोदात्तत्वम् ।। “उ इति पूरकः । हे “इन्द्र “ते तव “नवायाम् अभिनवायां प्रशस्तायां “सुमतौ शोभनबुद्धौ “आभूषन्तः आ समन्ताद्भवन्तो वर्तमानाः । यद्वा । आ समन्ताद्भूषयन्तोऽलंकुर्वन्तस्तवानुग्रहबुद्धौ वर्तमानाः “वयं “शुनं सुखकरं त्वां “हुवेम आह्वयेम॥ ॥१८॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१६०&oldid=282598" इत्यस्माद् प्रतिप्राप्तम्