सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१२१

विकिस्रोतः तः
← सूक्तं १.१२० ऋग्वेदः - मण्डल १
सूक्तं १.१२१
कक्षीवान् दैर्घतमस औशिजः
सूक्तं १.१२२ →
दे. इन्द्रो विश्वे देवा वा। त्रिष्ष्टुप्।


कदित्था नॄँः पात्रं देवयतां श्रवद्गिरो अङ्गिरसां तुरण्यन् ।
प्र यदानड्विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥१॥
स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः ।
अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः ॥२॥
नक्षद्धवमरुणीः पूर्व्यं राट् तुरो विशामङ्गिरसामनु द्यून् ।
तक्षद्वज्रं नियुतं तस्तम्भद्द्यां चतुष्पदे नर्याय द्विपादे ॥३॥
अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकम् ।
यद्ध प्रसर्गे त्रिककुम्निवर्तदप द्रुहो मानुषस्य दुरो वः ॥४॥
तुभ्यं पयो यत्पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू ।
शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥५॥
अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः ।
इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम ॥६॥
स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः ।
यद्ध प्रभासि कृत्व्याँ अनु द्यूननर्विशे पश्विषे तुराय ॥७॥
अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम् ।
हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम् ॥८॥
त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा ।
कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ॥९॥
पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य ।
शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥१०॥
अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् ।
त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥११॥
त्वमिन्द्र नर्यो याँ अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान् ।
यं ते काव्य उशना मन्दिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रम् ॥१२॥
त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र ।
प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥१३॥
त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके ।
प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥१४॥
मा सा ते अस्मत्सुमतिर्वि दसद्वाजप्रमहः समिषो वरन्त ।
आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥१५॥


सायणभाष्यम्

अष्टादशेऽनुवाके षट् सूक्तानि । तत्र ‘कदित्था ' इति पञ्चदशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते -- ‘कदित्था पञ्चोना वैश्वदेवं वा' इति । अनुवर्तमानः कक्षीवानृषिः । अनादेशपरिभाषया त्रिष्टुप् । विश्वे देवा इन्द्रो वा देवता । विनियोगो लैङ्गिकः ॥


कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् ।

प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः ॥१

कत् । इ॒त्था । नॄन् । पात्र॑म् । दे॒व॒ऽय॒ताम् । श्रव॑त् । गिरः॑ । अङ्गि॑रसाम् । तु॒र॒ण्यन् ।

प्र । यत् । आन॑ट् । विशः॑ । आ । ह॒र्म्यस्य॑ । उ॒रु । क्रं॒स॒ते॒ । अ॒ध्व॒रे । यज॑त्रः ॥१

कत् । इत्था । नॄन् । पात्रम् । देवऽयताम् । श्रवत् । गिरः । अङ्गिरसाम् । तुरण्यन् ।

प्र । यत् । आनट् । विशः । आ । हर्म्यस्य । उरु । क्रंसते । अध्वरे । यजत्रः ॥१

“नॄँः “पात्रं नॄन् पाता नृणां स्तुतेः नेतॄणां पुरुषाणां रक्षणशीलः इन्द्रः “तुरण्यन् गोरूपधनं प्रेरयन् “देवयतां देवं द्योतमानं दानादिगुणयुक्तं वा इन्द्रम् आत्मन इच्छताम् “अङ्गिरसाम् ऋषीणाम् अस्माकम् “इत्था इत्थं प्रयुज्यमानाः “गिरः स्तुतीः “कत् कदा कस्मिन् काले “श्रवत् शृणुयात् । “यत् यदा स इन्द्रः “हर्म्यस्य हर्म्योपलक्षितेन गृहेण युक्तस्य यजमानस्य संबन्धिनः “विशः ऋत्विग्लक्षणान् मनुष्यान् “आ आभिमुख्येन “प्र “आनट् प्राप्नोति तदानीम् “अध्वरे अस्मदीये यज्ञे “यजत्रः यष्टव्यः सन् “उरु बहुलं "क्रंसते क्रमते स्वयमेव उत्सहते इत्यर्थः ॥ कत् । कदा । अन्त्यलोपश्छान्दसः । नॄँः पात्रम् ।' नॄन्पे ' ( पा. सू. ८. ३. १० ) इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति ऋकारः सानुनासिकः । पात्रम् । ‘पा रक्षणे'। ताच्छीलिकः तृन् । व्यत्ययेन सोः अमादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावे यण् । देवयताम् । सुप आत्मनः क्यच् । ततो लटः शतृ । ‘ शतुरनुमः० ' इति विभक्तेरुदात्तत्वम् । श्रवत् । श्रु श्रवणे '। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । तुरण्यन् । ‘तुरण त्वरायाम् । कण्ड्वादिः । आनट् । अश्नोतेर्लङि व्यत्ययेन परस्मैपदम् । श्नौ प्राप्ते व्यत्ययेन श्नम्विकरणः । व्रश्चादिषत्वे जश्त्वम् । आडागमः । हर्म्यस्य । हर्म्यशब्दात् अर्शआदित्वात् अच् । क्रंसते । ‘ क्रमु पादविक्षेपे'। ' वृत्तिसर्गतायनेषु क्रमः' (पा. सू. १. ३. ३८) इत्यात्मनेपदम् । लेटि अडागमः । ‘ सिब्बहुलं लेटि' इति सिप् । यजत्रः । ‘ अमिनक्षि° ' इत्यादिना यजेः अत्रन्प्रत्ययः ॥


स्तम्भी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः ।

अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥२

स्तम्भी॑त् । ह॒ । द्याम् । सः । ध॒रुण॑म् । प्रु॒षा॒य॒त् । ऋ॒भुः । वाजा॑य । द्रवि॑णम् । नरः॑ । गोः ।

अनु॑ । स्व॒ऽजाम् । म॒हि॒षः । च॒क्ष॒त॒ । व्राम् । मेना॑म् । अश्व॑स्य । परि॑ । मा॒तर॑म् । गोः ॥२

स्तम्भीत् । ह । द्याम् । सः । धरुणम् । प्रुषायत् । ऋभुः । वाजाय । द्रविणम् । नरः । गोः ।

अनु । स्वऽजाम् । महिषः । चक्षत । व्राम् । मेनाम् । अश्वस्य । परि । मातरम् । गोः ॥२

“सः इन्द्रः “द्यां द्युलोकं ःस्तम्भीद्ध स्तभ्नाति खलु । तथा “गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्य उदकस्य किरणसमूहस्य वा ःनरः नेता स इन्द्रः “ऋभुः सूर्यत्मना उरु विस्तीर्णं भासमानः सन् “द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं “धरुणम् । उदकनामैतत् । सर्वस्य धारकं वृष्ट्युदकं “वाजाय अन्नार्थं बलार्थं वा “प्रुषायत् प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः । अपि च “महिषः । महन्नामैतत् । महान् सूर्यरूपी इन्द्रः “स्वजां स्वसकाशादुत्पन्नां “व्राम् । वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति वा उषाः । ताम् “अनु “चक्षत । चष्टिः पश्यतिकर्मा । अनु पश्चात्पश्यति प्रकाशते । स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेति' इत्यर्थः । अपि च इदमपरमाश्चर्यं यदयम् “अश्वस्य “मेनाम् । स्त्रीनामैतत् । स्त्रियं वडवां “गोः “मातरं जननीम् ।। परिर्वैपरीत्ये। विपरीतमकरोत् । कदाचिदिन्द्रो लीलया अश्वायां गामुत्पादयामास । तदत्र प्रतिपाद्यते मन्त्रान्तरे च इन्द्रवाक्यरूपे एतद्विस्पष्टमवगम्यते ॥ धरुणम् । ‘ धारेर्णिलुक्च इति उनप्रत्ययः । प्रुषायत् । प्रुष प्लुष स्नेहनसेचनपूरणेषु । क्रैयादिकः । लेटि अडागमः । ‘ छन्दसि शायजपि ' इति अहावपि श्नाप्रत्ययस्य शायजादेशः । नरः । ‘ नॄ नये । बहुलवचनात् ‘ ऋदोरप्' इति कर्तरि अप् । चक्षत । ‘चक्षिङ् व्यक्तायां वाचि'। छान्दसो लङ् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः ॥“सः इन्द्रः “द्यां द्युलोकं ःस्तम्भीद्ध स्तभ्नाति खलु । तथा “गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्य उदकस्य किरणसमूहस्य वा ःनरः नेता स इन्द्रः “ऋभुः सूर्यत्मना उरु विस्तीर्णं भासमानः सन् “द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं “धरुणम् । उदकनामैतत् । सर्वस्य धारकं वृष्ट्युदकं “वाजाय अन्नार्थं बलार्थं वा “प्रुषायत् प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः । अपि च “महिषः । महन्नामैतत् । महान् सूर्यरूपी इन्द्रः “स्वजां स्वसकाशादुत्पन्नां “व्राम् । वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति वा उषाः । ताम् “अनु “चक्षत । चष्टिः पश्यतिकर्मा । अनु पश्चात्पश्यति प्रकाशते । स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेति' इत्यर्थः । अपि च इदमपरमाश्चर्यं यदयम् “अश्वस्य “मेनाम् । स्त्रीनामैतत् । स्त्रियं वडवां “गोः “मातरं जननीम् ।। परिर्वैपरीत्ये। विपरीतमकरोत् । कदाचिदिन्द्रो लीलया अश्वायां गामुत्पादयामास । तदत्र प्रतिपाद्यते मन्त्रान्तरे च इन्द्रवाक्यरूपे एतद्विस्पष्टमवगम्यते ॥ धरुणम् । ‘ धारेर्णिलुक्च इति उनप्रत्ययः । प्रुषायत् । प्रुष प्लुष स्नेहनसेचनपूरणेषु । क्रैयादिकः । लेटि अडागमः । ‘ छन्दसि शायजपि ' इति अहावपि श्नाप्रत्ययस्य शायजादेशः । नरः । ‘ नॄ नये । बहुलवचनात् ‘ ऋदोरप्' इति कर्तरि अप् । चक्षत । ‘चक्षिङ् व्यक्तायां वाचि'। छान्दसो लङ् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः ॥


नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि॑रसा॒मनु॒ द्यून् ।

तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तम्भ॒द्द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑ ॥३

नक्ष॑त् । हव॑म् । अ॒रु॒णीः । पू॒र्व्यम् । राट् । तु॒रः । वि॒शाम् । अङ्गि॑रसाम् । अनु॑ । द्यून् ।

तक्ष॑त् । वज्र॑म् । निऽयु॑तम् । त॒स्तम्भ॑त् । द्याम् । चतुः॑ऽपदे । नर्या॑य । द्वि॒ऽपादे॑ ॥३

नक्षत् । हवम् । अरुणीः । पूर्व्यम् । राट् । तुरः । विशाम् । अङ्गिरसाम् । अनु । द्यून् ।

तक्षत् । वज्रम् । निऽयुतम् । तस्तम्भत् । द्याम् । चतुःऽपदे । नर्याय । द्विऽपादे ॥३

“अरुणीः अरुणवर्णाः आरोचमानाः वा उषसः "राट् राजयन् प्रकाशयन् सूर्यात्मा इन्द्रः “पूर्व्यं पूर्वैर्ऋषिभिः प्रयुक्तं “हवम् इदानीमस्माभिः क्रियमाणमाह्वानं “नक्षत् नक्षतु शृणोतु । कीदृशः । “अनु “द्यून अनुदिवसं “विशां मनुष्याणाम् “अङ्गिरसाम् ऋषीणां स्तोतॄणां “तुरः धनस्य प्रेरयिता । अपि च स इन्द्रः “वज्रं स्वकीयमायुधं “नियुतं हन्तव्येन सह नितरां युक्तं “तक्षत् अकरोत् । तथा “द्यां द्युलोकं “तस्तम्भत् अस्तम्भयत् । यथा अधो न पतति तथा अकरोदित्यर्थः । किमर्थम् । “नर्याय नृभ्यो हिताय “चतुष्पदे गवाश्वादये “द्विपादे मनुष्याय च । एतदुभयार्थमित्यर्थः ॥ नक्षत् । नक्ष गतौ । लेटि अडागमः । पूर्व्यम् । पूर्वैः कृतमिनयौ च ' (पा. सू. ४. ४. १३३ ) इति यप्रत्ययः । राट् । ‘ राजृ दीप्तौ । अस्मादन्तर्भावितण्यर्थात् क्विप् । तुरः । ‘ तुर त्वरणे '। इगुपधलक्षणः कः । तक्षत् । ‘ तक्षू त्वक्षू तनूकरणे'। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । तस्तम्भत् । ष्टभि स्कभि गतिप्रतिबन्धे'। अस्मात् ण्यन्तात् लुङि चङि रूपम् । ‘चङयन्यतरस्याम्' इति उपोत्तमस्य उदात्तत्वम् । पूर्वपदस्य असमानवाक्यस्थत्वात् निघाताभावः । चतुष्पदे । चत्वारः पादाः अस्य ।' संख्यासुपूर्वस्य । इति पादशब्दस्य अन्त्यलोपः समासान्तः । चतुर्थ्येकवचने भसंज्ञायां पादः पत्' इति पद्भावः । द्विपादे । पूर्ववत्प्रक्रिया । अयं तु विशेषः । अयस्मयादित्वेन पदत्वात् भसंज्ञाया अभावे पद्भावाभावः । ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ' इत्युत्तरपदान्तोदात्तत्वम् ॥


अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कम् ।

यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः ॥४

अ॒स्य । मदे॑ । स्व॒र्य॑म् । दाः॒ । ऋ॒ताय॑ । अपि॑ऽवृतम् । उ॒स्रिया॑णाम् । अनी॑कम् ।

यत् । ह॒ । प्र॒ऽसर्गे॑ । त्रि॒ऽक॒कुप् । नि॒ऽवर्त॑त् । अप॑ । द्रुहः॑ । मानु॑षस्य । दुरः॑ । व॒रिति॑ वः ॥४

अस्य । मदे । स्वर्यम् । दाः । ऋताय । अपिऽवृतम् । उस्रियाणाम् । अनीकम् ।

यत् । ह । प्रऽसर्गे । त्रिऽककुप् । निऽवर्तत् । अप । द्रुहः । मानुषस्य । दुरः । वरिति वः ॥४

हे इन्द्र “अस्य सोमस्य पानेन “मदे हर्षे सति “ऋताय यज्ञार्थं “स्वर्यं स्तुत्यम् “अपीवृतं पणिभिर्गुहासु निगूढम् "उस्रियाणां गवाम् “अनीकं संघं “दाः अङ्गिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । “यद्ध यदा खलु “प्रसर्गे युद्धे “त्रिककुप् त्रिषु लोकेषु उच्छ्रितः इन्द्रः “निवर्तत् नितरां वर्तेत तदानीं स इन्द्रः “द्रुहः द्रोग्धुः “मानुषस्य मनोः संबन्धिनः असुरस्य पणेः संबन्धीनि “दुरः द्वाराणि गवामनिर्गमनाय पिहितानि "अप “वः अपवृणोति उद्घाटयति ॥ स्वर्यम् । ‘ स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्' । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः । अपीवृतम् । अपिपूर्वात् वृणोतेः कर्मणि निष्ठा । ‘ निपातस्य च ' इति पूर्वपदस्य दीर्घः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यन्ते विमुच्यन्ते अस्मिन् इषवः इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम्। छान्दसः थाथादिस्वराभावः । निवर्तत् । ‘वृतु वर्तने '। लेटि अडागमः । व्यत्ययेन परस्मैपदम् । वः । वृञ् वरणे । छान्दसे लुङि ‘ मन्त्रे घस ' इति च्लेर्लुक् । गुणे हल्ड्यादिलोपः ॥ ।हे इन्द्र “अस्य सोमस्य पानेन “मदे हर्षे सति “ऋताय यज्ञार्थं “स्वर्यं स्तुत्यम् “अपीवृतं पणिभिर्गुहासु निगूढम् "उस्रियाणां गवाम् “अनीकं संघं “दाः अङ्गिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । “यद्ध यदा खलु “प्रसर्गे युद्धे “त्रिककुप् त्रिषु लोकेषु उच्छ्रितः इन्द्रः “निवर्तत् नितरां वर्तेत तदानीं स इन्द्रः “द्रुहः द्रोग्धुः “मानुषस्य मनोः संबन्धिनः असुरस्य पणेः संबन्धीनि “दुरः द्वाराणि गवामनिर्गमनाय पिहितानि "अप “वः अपवृणोति उद्घाटयति ॥ स्वर्यम् । ‘ स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्' । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः । अपीवृतम् । अपिपूर्वात् वृणोतेः कर्मणि निष्ठा । ‘ निपातस्य च ' इति पूर्वपदस्य दीर्घः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यन्ते विमुच्यन्ते अस्मिन् इषवः इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम्। छान्दसः थाथादिस्वराभावः । निवर्तत् । ‘वृतु वर्तने '। लेटि अडागमः । व्यत्ययेन परस्मैपदम् । वः । वृञ् वरणे । छान्दसे लुङि ‘ मन्त्रे घस ' इति च्लेर्लुक् । गुणे हल्ड्यादिलोपः ॥


तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राध॑ः सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू ।

शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒ः पय॑ उ॒स्रिया॑याः ॥५

तुभ्य॑म् । पयः॑ । यत् । पि॒तरौ॑ । अनी॑ताम् । राधः॑ । सु॒ऽरेतः॑ । तु॒रणे॑ । भु॒र॒ण्यू इति॑ ।

शुचि॑ । यत् । ते॒ । रेक्णः॑ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥५

तुभ्यम् । पयः । यत् । पितरौ । अनीताम् । राधः । सुऽरेतः । तुरणे । भुरण्यू इति ।

शुचि । यत् । ते । रेक्णः । अयजन्त । सबःऽदुघायाः । पयः । उस्रियायाः ॥५

हे इन्द्र “तुरणे क्षिप्रकारिणे "तुभ्यं "भुरण्यू कृत्स्नं जगत्पोषयन्त्यौ “पितरौ उत्पादयन्त्यौ द्यावापृथिव्यौ “यत् यदा “पयः सांनाय्यलक्षणं हविः “अनीतां गोषु अनयतां न्यधिषातामित्यर्थः । कीदृशं पयः । “राधः राधकं समृद्धिकरं “सुरेतः शोभनरेतस्कं कृत्स्नजगदुत्पादनशक्तमित्यर्थः । हविषः सकाशात् हि जगदुत्पद्यते । ‘ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ' ( मनु. ३.७६ ) इति । “यत् यदा च द्यावापृथिवीभ्यां गोष्वानीतं “शुचि शुद्धं “सबर्दुघायाः क्षीरस्य दोग्ध्र्याः “उस्रियायाः गोः “पयः "रेक्णः । धननामैतत् । धनवदतिप्रियम् । यद्वा । अतिरिक्तं प्रवृद्धम् । एवंविधं हविः तुभ्यम् “आयजन्त आभिमुख्येन यजमानाः प्रायच्छन् । तदानीं द्रुहो मानुषस्य द्वाराण्यपवृणोतीति पूर्वया संबन्धः ॥ अनीताम् । ‘ णीञ् प्रापणे '। लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । सुरेतः । ‘ सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् । तुरणे । “ तुरण त्वरायाम् ' । कण्ड्वादिः । ‘ क्विप् च' इति क्विप् । अतोलोपयलोपौ । भुरण्यू ।' भुरण धारणपोषणयोः । अयमपि कण्ड्वादिः । औणादिक उप्रत्ययः ॥ ॥ २४ ॥


अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूर॑ः ।

इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑ ॥६

अध॑ । प्र । ज॒ज्ञे॒ । त॒रणिः॑ । म॒म॒त्तु॒ । प्र । रो॒चि॒ । अ॒स्याः । उ॒षसः॑ । न । सूरः॑ ।

इन्दुः॑ । येभिः॑ । आष्ट॑ । स्वऽइदु॑हव्यैः । स्रु॒वेण॑ । सि॒ञ्चन् । ज॒रणा॑ । अ॒भि । धाम॑ ॥६

अध । प्र । जज्ञे । तरणिः । ममत्तु । प्र । रोचि । अस्याः । उषसः । न । सूरः ।

इन्दुः । येभिः । आष्ट । स्वऽइदुहव्यैः । स्रुवेण । सिञ्चन् । जरणा । अभि । धाम ॥६

“अध इदानीमयमिन्द्रः स्तुतिभिः प्रीयमाणः सन् “प्र “जज्ञे प्रकर्षेण प्रादुर्बभूव। सः “तरणिः शत्रूणां तारकोऽस्मान् “ममत्तु मादयतु । स च “प्र “रोचि प्रकृष्टं रोचते । तत्र दृष्टान्तः । “अस्याः अस्माभिर्दृश्यमानायाः “उषसः समीपे वर्तमानः “सूरः “न सूर्य इव । “जरणा जरणीयः स्तोतव्यः “इन्दुः सोमः “धाम आहवनीयलक्षणं स्थानम् अभिलक्ष्य “स्रुवेण “सिञ्चन् सिच्यमानः सन् 'स्वेदुहव्यैः स्वभूतसमृद्धहविष्कैः "येभिः यैरस्माभिः “आष्ट आशितः आसीत् । तानस्मान्मादयत्वित्यर्थः ॥ जज्ञे। ‘ जनी प्रादुर्भावे'। लिटि ‘ गमहन' इति उपधालोपः । ममत्तु । ‘मदी हर्षे '। ‘ बहुलं छन्दसि' इति विकरणस्य श्लुः । रोचि । “ रुच दीप्तौ । छान्दसो वर्तमाने लुङ् । व्यत्ययेन च्ले: चिणादेशः । आष्ट । ‘अश भोजने '। कर्मणि लङि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । व्रश्चादिषत्वे ष्टुत्वम् । आडागमः । ‘ यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । स्वेदुहव्यैः। ‘इदि परमैश्वर्ये । औणादिक उप्रत्ययः । ‘अनित्यमागमशासनम्' इति नुमभावः । इदूनि प्रभूतानि च तानि हव्यानि स्वभूतानि च हव्यानि" येषाम् । यद्वा । ‘ ञिइन्धी दीप्तौ ' । स्वायत्तानि इन्दूनि इद्धानि हव्यानि येषाम् । अथवा । स्वभूतमिदं पुरोवर्ति हव्यं हविः येषां ते तथोक्ता: । पृषोदरादित्वात् अभिमतरूपसिद्धिः । सिञ्चन् । षिचिर् क्षरणे' । व्यत्ययेन कर्मणि कर्तृप्रत्ययः। ‘ शे मुचादीनाम् इति नुम् । जरणा । जरतिः स्तुतिकर्मा । अस्मात् कर्मणि ल्युट् । ‘सुपां सुलुक्' इति विभक्तेराकारः। व्यत्ययेन लित्स्वराभावः ।।


स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः ।

यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑ ॥७

सु॒ऽइ॒ध्मा । यत् । व॒नऽधि॑तिः । अ॒प॒स्यात् । सूरः॑ । अ॒ध्व॒रे । परि॑ । रोध॑ना । गोः ।

यत् । ह॒ । प्र॒ऽभासि॑ । कृत्व्या॑न् । अनु॑ । द्यून् । अन॑र्विशे । प॒शु॒ऽइषे॑ । तु॒राय॑ ॥७

सुऽइध्मा । यत् । वनऽधितिः । अपस्यात् । सूरः । अध्वरे । परि । रोधना । गोः ।

यत् । ह । प्रऽभासि । कृत्व्यान् । अनु । द्यून् । अनर्विशे । पशुऽइषे । तुराय ॥७

यदि “स्विध्मा सुदीप्तास्या “वनधितिः वने छेत्तव्ये वृक्षसमूहे निधातव्या शस्त्री “अपस्यात् अपः विशसनात्मकं स्वकीयं कर्म कर्तुमिच्छेत् तदानीं “सूरः प्रेरकः अध्वर्युः “अध्वरे यज्ञे “गोः पशोः “रोधना रोधनाय यूपे नियोजनाय "परि भवति समर्थो भवति । यद्वा । स्विध्मा सूर्यकिरणैः सुदीप्ता वनधितिः । वनमुदकमस्यां धीयते इति वनधितिर्मेघमाला । सा यत् यदा अपस्यात् अपः प्रवर्षणलक्षणं कर्म करोति तदानीं सूरः प्रेरकः इन्द्रः अध्वरे यज्ञस्य निमित्तभूते अध्वर्तव्ये अहिंसितव्ये अन्तरिक्षे वर्तमानः सन् गोः वृष्ट्युदकस्य रोधना रोधनानि आवरणानि परि परितो निवारयतीति शेषः । उत्तरार्धः प्रत्यक्षकृतः । हे इन्द्र सूर्यात्मना वर्तमानस्त्वं कृत्व्यान् । कृत्वीति कर्मनाम । कर्मसु साधून् “द्यून् दिवसाननुलक्ष्य “यद्ध यदा खलु “प्रभासि प्रकर्षेण दीप्यसे तदानीम् “अनर्विशे अनसा शकटेन इन्धनाद्याहरणाय अरण्यं प्रविशते । यद्वा । गन्तव्यं स्थलं प्रति गन्तुमशक्ताय पुरुषाय “पश्विषे पशून् प्रेरयते “तुराय त्वरमाणाय गोपालाय च सिध्येत् अभिमतमिति वाक्यशेषः ॥ स्विध्मा । शोभनमिध्मं दीप्तमास्यं दीप्तिर्वा यस्याः सा तथोक्ता। ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अपस्यात् । अपःशब्दात् ‘सुप आत्मनः क्यच्'। लेटि अडागमः। रोधना। रुधिर् आवरणे । ल्युट् च ' इति भावे ल्युट् । 'शेश्छन्दसि बहुलम् ' इति शेर्लोपः । अनर्विशे । अनसा विशति प्राप्नोतीति अनर्विट्। विशतेः क्विप् । अहरादीनां पत्यादिषूपसंख्यानम् ' ( पा. म. ८. २. ७०. १ ) इति सकारस्य रेफादेशः । यद्वा । अर्तेः कर्मणि विच् । अरं गन्तव्यं प्रति विशति प्राप्नोतीति अर्विट् । न अर्विट् अनर्विट् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अत एव व्युत्पत्त्यनवधारणादनवग्रहः । पश्विषे । “ इष गतौ । अस्मादन्तर्भावितण्यर्थात् ‘ क्विप् च ' इति क्विप् ॥


अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्स॑म् ।

हरिं॒ यत्ते॑ म॒न्दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य॑म् ॥८

अ॒ष्टा । म॒हः । दि॒वः । आदः॑ । हरी॒ इति॑ । इ॒ह । द्यु॒म्न॒ऽसह॑म् । अ॒भि । यो॒धा॒नः । उत्स॑म् ।

हरि॑म् । यत् । ते॒ । म॒न्दिन॑म् । धु॒क्षन् । वृ॒धे । गोऽर॑भसम् । अद्रि॑ऽभिः । वा॒ताप्य॑म् ॥८

अष्टा । महः । दिवः । आदः । हरी इति । इह । द्युम्नऽसहम् । अभि । योधानः । उत्सम् ।

हरिम् । यत् । ते । मन्दिनम् । धुक्षन् । वृधे । गोऽरभसम् । अद्रिऽभिः । वाताप्यम् ॥८

हे इन्द्र “महः महतः “दिवः मदकरस्य सोमस्य “अष्टा भोक्तारौ पातारौ “हरी स्वकीयौ अश्वौ “इह अस्मिन्कर्मणि “आदः पीतशेषं सोमं पायय । तथा “द्युम्नासाहं द्युम्नस्य अस्मदीयस्य धनस्यहे इन्द्र “महः महतः “दिवः मदकरस्य सोमस्य “अष्टा भोक्तारौ पातारौ “हरी स्वकीयौ अश्वौ “इह अस्मिन्कर्मणि “आदः पीतशेषं सोमं पायय । तथा “द्युम्नासाहं द्युम्नस्य अस्मदीयस्य धनस्य अभिभवितारम् "उत्सम् उत्स्रावयितारं शत्रुं "योधानः योधनशीलस्त्वम् “अभि भव। “यत् यदा “ते तव “वृधे वर्धनाय 'हरिं मनोहरं “मन्दिनं मदकरं “गोरभसम् । अत्र गोशब्दः पयसि वर्तते । पयो बलम् । तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः । “वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिणा त्वया पातव्यमित्यर्थः। एवंविधं सोमम् “अद्रिभिः ग्रावभिः “धुक्षन् दुहन्ति ऋत्विजः अभिषुण्वन्ति । तदानीम् अष्टा इति पूर्वत्र संबन्धः ॥ अष्टा ‘। ‘ अश भोजने' । तृच् । आगमानुशासनस्यानित्यत्वात् इडभावः । धुक्षन् । पदकालीनो भष्भावश्छान्दसः ॥अभिभवितारम् "उत्सम् उत्स्रावयितारं शत्रुं "योधानः योधनशीलस्त्वम् “अभि भव। “यत् यदा “ते तव “वृधे वर्धनाय 'हरिं मनोहरं “मन्दिनं मदकरं “गोरभसम् । अत्र गोशब्दः पयसि वर्तते । पयो बलम् । तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः । “वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिणा त्वया पातव्यमित्यर्थः। एवंविधं सोमम् “अद्रिभिः ग्रावभिः “धुक्षन् दुहन्ति ऋत्विजः अभिषुण्वन्ति । तदानीम् अष्टा इति पूर्वत्र संबन्धः ॥ अष्टा ‘। ‘ अश भोजने' । तृच् । आगमानुशासनस्यानित्यत्वात् इडभावः । धुक्षन् । पदकालीनो भष्भावश्छान्दसः ॥


त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ ।

कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः ॥९

त्वम् । आ॒य॒सम् । प्रति॑ । व॒र्त॒यः॒ । गोः । दि॒वः । अश्मा॑नम् । उप॑ऽनीतम् । ऋभ्वा॑ ।

कुत्सा॑य । यत्र॑ । पु॒रु॒ऽहू॒त॒ । व॒न्वन् । शुष्ण॑म् । अ॒न॒न्तैः । प॒रि॒ऽयासि॑ । व॒धैः ॥९

त्वम् । आयसम् । प्रति । वर्तयः । गोः । दिवः । अश्मानम् । उपऽनीतम् । ऋभ्वा ।

कुत्साय । यत्र । पुरुऽहूत । वन्वन् । शुष्णम् । अनन्तैः । परिऽयासि । वधैः ॥९

हे इन्द्र “त्वं “गोः गन्तुः शुष्णस्यासुरस्य वधार्थम् “आयसम् अयोमयं वज्रं “प्रति “वर्तयः आभिमुख्येन व्यसृजः । कीदृशं वज्रम् । “दिवः द्युलोकात् “ऋभ्वा दीप्तेन त्वष्ट्रा “उपनीतम् आनीतम् “अश्मानं शीघ्रं शत्रोर्व्यापकम् । “यत्र यदा हे “पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेन्द्र “कुत्साय एतत्संज्ञाय ऋषये “शुष्णं शोषकमसुरम् “अनन्तैः निरवधिकैः “वधैः हननसाधनैरायुधैः “वन्वन् हिंसन् “परियासि परितः गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तयः इत्यर्थः । अश्मानम् । अशू व्याप्तौ । अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ऋभ्वा ।' जसादिषु च्छन्दसि वावचनम्' इति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । 'वनु याचने' । अत्र हिंसार्थः । तथा च यास्कः -- ‘वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति' ( निरु. ५. २ ) इति । वधैः । ‘ हनश्च वधः' इति हन्तेः करणे अप् ; तत्संन्नियोगेन वधादेशश्च । स चान्तोऽन्तोदात्तः । तस्य अतो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् ।।हे इन्द्र “त्वं “गोः गन्तुः शुष्णस्यासुरस्य वधार्थम् “आयसम् अयोमयं वज्रं “प्रति “वर्तयः आभिमुख्येन व्यसृजः । कीदृशं वज्रम् । “दिवः द्युलोकात् “ऋभ्वा दीप्तेन त्वष्ट्रा “उपनीतम् आनीतम् “अश्मानं शीघ्रं शत्रोर्व्यापकम् । “यत्र यदा हे “पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेन्द्र “कुत्साय एतत्संज्ञाय ऋषये “शुष्णं शोषकमसुरम् “अनन्तैः निरवधिकैः “वधैः हननसाधनैरायुधैः “वन्वन् हिंसन् “परियासि परितः गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तयः इत्यर्थः । अश्मानम् । अशू व्याप्तौ । अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ऋभ्वा ।' जसादिषु च्छन्दसि वावचनम्' इति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । 'वनु याचने' । अत्र हिंसार्थः । तथा च यास्कः -- ‘वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति' ( निरु. ५. २ ) इति । वधैः । ‘ हनश्च वधः' इति हन्तेः करणे अप् ; तत्संन्नियोगेन वधादेशश्च । स चान्तोऽन्तोदात्तः । तस्य अतो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् ।।


पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य ।

शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदाद॑ः ॥१०

पु॒रा । यत् । सूरः॑ । तम॑सः । अपि॑ऽइतेः । तम् । अ॒द्रि॒ऽवः॒ । फ॒लि॒ऽगम् । हे॒तिम् । अ॒स्य॒ ।

शुष्ण॑स्य । चि॒त् । परि॑ऽहितम् । यत् । ओजः॑ । दि॒वः । परि॑ । सुऽग्र॑थितम् । तत् । आ । अ॒द॒रित्य॑दः ॥१०

पुरा । यत् । सूरः । तमसः । अपिऽइतेः । तम् । अद्रिऽवः । फलिऽगम् । हेतिम् । अस्य ।

शुष्णस्य । चित् । परिऽहितम् । यत् । ओजः । दिवः । परि । सुऽग्रथितम् । तत् । आ । अदरित्यदः ॥१०

“पुरा "यत् यदा “सूरः सूर्यः “तमसः तमोरूपस्य शुष्णस्य असुरस्य “अपीतेः संग्रामान्मुक्तोऽभवदिति शेषः । तदानीं हे “अद्रिवः । आदृणाति अनेनेत्यद्रिर्वज्रः । तद्वन्निन्द्र “तं “फलिगम् । मेघनामैतत् । मेघरूपेणावृण्वन्तं “हेतिं हन्तारं शुष्णमसुरम् “अस्य निरसितवानसि । यद्वा । अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीः इति शेषः । तथा “शुष्णस्य “चित् शोषयितुरसुरस्य च “यत् “ओजः आच्छादकं बलं “दिवस्परि द्योतमानस्य सूर्यस्योपरि “परिहितम् आच्छादितं "सुग्रथितं सुष्ठु सूर्ये सक्तं “तत् ओजस्तस्मात्सूर्यात् “आदः आदृणाः विश्लिष्टं कृतवानसीत्यर्थः।। अद्रिवः । छन्दसीरः' इति मतुपो वत्वम् । “मतुवसो रुः° ' इति नकारस्य रुत्वम् । हेतिम् । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् हन्तेः कतीर क्तिन् ।' ऊतियूति' इत्यादौ निपातनात् रूपसिद्धिः अन्तोदात्तत्वं च । अस्य । ‘असु क्षेपणे '। लटः सिप् । तस्य व्यत्ययेन ह्यादेशः । अतो हेः' इति हेर्लुक् । दिवस्परि । पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । अदः । ‘दॄ विदारणे' । लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । गुणे हल्ङ्याब्भ्यः' इति सिलोपः ॥ ॥ २५ ॥“पुरा "यत् यदा “सूरः सूर्यः “तमसः तमोरूपस्य शुष्णस्य असुरस्य “अपीतेः संग्रामान्मुक्तोऽभवदिति शेषः । तदानीं हे “अद्रिवः । आदृणाति अनेनेत्यद्रिर्वज्रः । तद्वन्निन्द्र “तं “फलिगम् । मेघनामैतत् । मेघरूपेणावृण्वन्तं “हेतिं हन्तारं शुष्णमसुरम् “अस्य निरसितवानसि । यद्वा । अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीः इति शेषः । तथा “शुष्णस्य “चित् शोषयितुरसुरस्य च “यत् “ओजः आच्छादकं बलं “दिवस्परि द्योतमानस्य सूर्यस्योपरि “परिहितम् आच्छादितं "सुग्रथितं सुष्ठु सूर्ये सक्तं “तत् ओजस्तस्मात्सूर्यात् “आदः आदृणाः विश्लिष्टं कृतवानसीत्यर्थः।। अद्रिवः । छन्दसीरः' इति मतुपो वत्वम् । “मतुवसो रुः° ' इति नकारस्य रुत्वम् । हेतिम् । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् हन्तेः कतीर क्तिन् ।' ऊतियूति' इत्यादौ निपातनात् रूपसिद्धिः अन्तोदात्तत्वं च । अस्य । ‘असु क्षेपणे '। लटः सिप् । तस्य व्यत्ययेन ह्यादेशः । अतो हेः' इति हेर्लुक् । दिवस्परि । पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । अदः । ‘दॄ विदारणे' । लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । गुणे हल्ङ्याब्भ्यः' इति सिलोपः ॥ ॥ २५ ॥


अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिन्द्र॒ कर्म॑न् ।

त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहु॑म् ॥११

अनु॑ । त्वा॒ । म॒ही इति॑ । पाज॑सी॒ इति॑ । अ॒च॒क्रे इति॑ । द्यावा॒क्षामा॑ । म॒द॒ता॒म् । इ॒न्द्र॒ । कर्म॑न् ।

त्वम् । वृ॒त्रम् । आ॒ऽशया॑नम् । सि॒रासु॑ । म॒हः । वज्रे॑ण । सि॒स्व॒पः॒ । व॒राहु॑म् ॥११

अनु । त्वा । मही इति । पाजसी इति । अचक्रे इति । द्यावाक्षामा । मदताम् । इन्द्र । कर्मन् ।

त्वम् । वृत्रम् । आऽशयानम् । सिरासु । महः । वज्रेण । सिस्वपः । वराहुम् ॥११

हे “इन्द्र “मही मह्यौ महत्यौ “पाजसी बलवत्यौ “अचक्रे अचङ्क्रमणे सर्वत्र व्याप्य वर्तमाने द्यावक्षामा द्यावापृथिब्यौ “कर्मन् वृत्रवधादिलक्षणे कर्मणि प्रवृत्तं त्वाम् “अनु “मदतां हृष्टमकुरुताम् अन्वमन्येतां वा । तथा च तैत्तिरीयकं -‘स आभ्यामेव प्रसूत इन्द्रो वृत्रमहन् ' (तै. सं. २. ५. २. ६) इति । तदनन्तरं “त्वम् “आशयानम् आ समन्ताद्व्याप्य वर्तमान “वराहुं वराहारं “वृत्रम् असुरं “सिरासु सरणशीलास्वप्सु “महः महता “वज्रेण “सिष्वपः अस्वापयः । वज्रेण हत्वा पातितवानित्यर्थः ॥ मही । सुपां सुलुक् ' इति विभक्तेः पूर्वसवर्णदीर्घः । पाजसी । पाजःशब्दो बलवाचको लक्षणया अत्र तद्वति वर्तते । ‘ इयाडियाजीकारणामुपसंख्यानम् ' इति विभक्तेः ईकारादेशः । द्यावाक्षामा । द्यौश्च क्षामा च । ‘ दिवो द्यावा ' इति द्यावादेशः । ‘ देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुक्' इति विभक्तेर्लुक् । मदताम् । मदी हर्षे' । व्यत्ययेन शप् । बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । महः । महतः । करणे शेषत्वेन विवक्षिते षष्ठी । अच्छब्दलोपश्छान्दसः । सिष्वपः । ‘ ञिष्वप् शये ' । अस्मात् ण्यन्तात् लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ स्वापेश्चङि' (पा. सू. ६. १. १८) इति संप्रसारणं न क्रियते ॥लक्षणया अत्र तद्वति वर्तते । ‘ इयाडियाजीकारणामुपसंख्यानम् ' इति विभक्तेः ईकारादेशः । द्यावाक्षामा । द्यौश्च क्षामा च । ‘ दिवो द्यावा ' इति द्यावादेशः । ‘ देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुक्' इति विभक्तेर्लुक् । मदताम् । मदी हर्षे' । व्यत्ययेन शप् । बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । महः । महतः । करणे शेषत्वेन विवक्षिते षष्ठी । अच्छब्दलोपश्छान्दसः । सिष्वपः । ‘ ञिष्वप् शये ' । अस्मात् ण्यन्तात् लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ स्वापेश्चङि' (पा. सू. ६. १. १८) इति संप्रसारणं न क्रियते ॥


त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् ।

यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म् ॥१२

त्वम् । इ॒न्द्र॒ । नर्यः॑ । यान् । अवः॑ । नॄन् । तिष्ठ॑ । वात॑स्य । सु॒ऽयुजः॑ । वहि॑ष्ठान् ।

यम् । ते॒ । का॒व्यः । उ॒शना॑ । म॒न्दिन॑म् । दात् । वृ॒त्र॒ऽहन॑म् । पार्य॑म् । त॒त॒क्ष॒ । वज्र॑म् ॥१२

त्वम् । इन्द्र । नर्यः । यान् । अवः । नॄन् । तिष्ठ । वातस्य । सुऽयुजः । वहिष्ठान् ।

यम् । ते । काव्यः । उशना । मन्दिनम् । दात् । वृत्रऽहनम् । पार्यम् । ततक्ष । वज्रम् ॥१२

हे “इन्द्र “नर्यः नृभ्यो हितः “त्वं “यान् “नॄन् नेतॄन् अश्वान् “अवः अवसि रक्षसि तान् “वातस्य तुल्यान् तद्वच्छीघ्रं गच्छतः "सुयुजः शोभनं रथेन युज्यमानान् “वहिष्ठान् अतिशयेन वोढ़ॄनश्वान् “तिष्ठ आतिष्ठ आरोहेत्यर्थः । “काव्यः कवेः पुत्रः “उशना “मन्दिनं मदकरं “यं वज्रं “ते तुभ्यं “दात् दत्तवान् तं “वज्रं “वृत्रहणं वृत्रस्यासुरस्य घातकं “पार्यं शत्रूणां पारणेऽतिक्रमणे समर्थं च “ततक्ष कृतवानसि ॥ अवः । अवतेर्लेटि अडागमः । इतश्च लोपः' इति इकारलोपः । वहिष्ठान् । वोढ़ृशब्दात् ‘ तुश्छन्दसि ' इति इष्ठन् । ‘तुरिष्ठेमेयःसु' इति तृलोपः । पार्यम् । ‘पार तीर कर्मसमाप्तौ' । अस्मात् ण्यन्तात् “ अचो यत्' इति यत् । ततक्ष। ‘ तक्षू त्वक्षू तनूकरणे' । पुरुषव्यत्ययः ।।


त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमि॑न्द्र ।

प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥१३

त्वम् । सूरः॑ । ह॒रितः॑ । र॒म॒यः॒ । नॄन् । भर॑त् । च॒क्रम् । एत॑शः । न । अ॒यम् । इ॒न्द्र॒ ।

प्र॒ऽअस्य॑ । पा॒रम् । न॒व॒तिम् । ना॒व्या॑नाम् । अपि॑ । क॒र्तम् । अ॒व॒र्त॒यः॒ । अय॑ज्यून् ॥१३

त्वम् । सूरः । हरितः । रमयः । नॄन् । भरत् । चक्रम् । एतशः । न । अयम् । इन्द्र ।

प्रऽअस्य । पारम् । नवतिम् । नाव्यानाम् । अपि । कर्तम् । अवर्तयः । अयज्यून् ॥१३

हे “इन्द्र “सूरः सूर्यात्मना वर्तमानः “त्वं “हरितः हरिद्वर्णान् “नॄन् नेतॄन् अश्वान् यद्वा रसहरणशीलान् रश्मीन् “रमयः उपारमयः । “एतशो "न । एतश इति सूर्याश्वस्याख्या। तथा च श्रूयते -- ‘ एतशेन त्वा सूर्यो देवतां गमयतु ' (तै. सं. १. ६. ४. ६) इति । नशब्दश्चार्थे । एतशश्च रथस्य “चक्रं “भरत् प्रावहत् । अपि च त्वं “नाव्यानां नावा तार्याणां नदीनां “नवतिं नवतिसंख्याम् अतीत्य वर्तमानं “पारं तीरदेशम् । सप्तम्यर्थे द्वितीया । तीरदेशे “अयज्यून् अयजमाना यज्ञविहीनान् असुरादीन् “प्रास्य प्रक्षिप्य तत्र “कर्तम् “अवर्तयः कर्तव्यमपि कृत्वा तानयजमानानवर्तयः प्रापयः ।। रमयः । लङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अन्येषामपि दृश्यते ' इति सांहितको दीर्घः । प्रास्य । ‘असु क्षेपणे '। अस्मात् ल्यपि रूपम् । नाव्यानाम् । नौवयोधर्म' इत्यादिना यत्। तित्स्वरितम्' इति स्वरितत्वम् ।।


त्वं नो॑ अ॒स्या इ॑न्द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ ।

प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे य॑न्धि॒ श्रव॑से सू॒नृता॑यै ॥१४

त्वम् । नः॒ । अ॒स्याः । इ॒न्द्र॒ । दुः॒ऽहना॑याः । पा॒हि । व॒ज्रि॒ऽवः॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ।

प्र । नः॒ । वाजा॑न् । र॒थ्यः॑ । अश्व॑ऽबुध्यान् । इ॒षे । य॒न्धि॒ । श्रव॑से । सू॒नृता॑यै ॥१४

त्वम् । नः । अस्याः । इन्द्र । दुःऽहनायाः । पाहि । वज्रिऽवः । दुःऽइतात् । अभीके ।

प्र । नः । वाजान् । रथ्यः । अश्वऽबुध्यान् । इषे । यन्धि । श्रवसे । सूनृतायै ॥१४

हे “वज्रिवः वज्रवन् “इन्द्र “त्वं “दुर्हणायाः दुःखेन हन्तव्यायाः “अस्याः अवृत्तेर्दारिद्र्यात् “नः अस्मान् “पाहि रक्ष। तथा “दुरितात् पापात् “अभीके अभिप्राप्ते समीपवर्तिनि संग्रामे अस्मान् रक्ष । अपि च “नः अस्मभ्यं “रथ्यः रथयुक्तान् अश्वबुध्यान् अश्वानां बोधकान् । अश्वा यावद्भिर्लभ्यन्ते तावदित्यर्थः । यद्वा । अश्वबुध्नान् । छान्दसो वर्णविकारः । अश्वमूलान् । अश्वप्रमुखानित्यर्थः । सर्वं हि धनम् अश्वमूलं दासापवर्गम् । यथोक्तं -' दासप्रवर्गं रयिमश्वबुध्यम् ' ( ऋ. सं. १. ९२. ८ ) इति । एवंविधान् “वाजान् धनानि “प्र “यन्धि प्रयच्छ । किमर्थम् । “इषे अन्नार्थं “श्रवसे कीत्यर्थं "सूनृतायै । सूनृता प्रियसत्यात्मिका वाक् तदर्थं च ।। दुर्हणायाः । ‘ ईषद्दुःसुषु इति हन्तेः कर्मणि खल्। पाहि। पादादित्वात् निघाताभावः। वज्रिवः । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् वज्रिवान् । 'छन्दसीरः' इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः० ' इति नकारस्य रुत्वम् । रथ्यः । ‘ छन्दसीवनिपौ' इति रथशब्दात् मत्वर्थीयः ईकारः । यन्धि । 'यम उपरमे '। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । वा छन्दसि इति हेः पित्त्वेन ङित्त्वाभावात् ' अङितश्च ।। (पा. सू. ६. ४. १०३ ) इति हेर्धिः ॥हे “वज्रिवः वज्रवन् “इन्द्र “त्वं “दुर्हणायाः दुःखेन हन्तव्यायाः “अस्याः अवृत्तेर्दारिद्र्यात् “नः अस्मान् “पाहि रक्ष। तथा “दुरितात् पापात् “अभीके अभिप्राप्ते समीपवर्तिनि संग्रामे अस्मान् रक्ष । अपि च “नः अस्मभ्यं “रथ्यः रथयुक्तान् अश्वबुध्यान् अश्वानां बोधकान् । अश्वा यावद्भिर्लभ्यन्ते तावदित्यर्थः । यद्वा । अश्वबुध्नान् । छान्दसो वर्णविकारः । अश्वमूलान् । अश्वप्रमुखानित्यर्थः । सर्वं हि धनम् अश्वमूलं दासापवर्गम् । यथोक्तं -' दासप्रवर्गं रयिमश्वबुध्यम् ' ( ऋ. सं. १. ९२. ८ ) इति । एवंविधान् “वाजान् धनानि “प्र “यन्धि प्रयच्छ । किमर्थम् । “इषे अन्नार्थं “श्रवसे कीत्यर्थं "सूनृतायै । सूनृता प्रियसत्यात्मिका वाक् तदर्थं च ।। दुर्हणायाः । ‘ ईषद्दुःसुषु इति हन्तेः कर्मणि खल्। पाहि। पादादित्वात् निघाताभावः। वज्रिवः । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् वज्रिवान् । 'छन्दसीरः' इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः० ' इति नकारस्य रुत्वम् । रथ्यः । ‘ छन्दसीवनिपौ' इति रथशब्दात् मत्वर्थीयः ईकारः । यन्धि । 'यम उपरमे '। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । वा छन्दसि इति हेः पित्त्वेन ङित्त्वाभावात् ' अङितश्च ।। (पा. सू. ६. ४. १०३ ) इति हेर्धिः ॥


मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमह॒ः समिषो॑ वरन्त ।

आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒माद॑ः स्याम ॥१५

मा । सा । ते॒ । अ॒स्मत् । सु॒ऽम॒तिः । वि । द॒स॒त् । वाज॑ऽप्रमहः । सम् । इषः॑ । व॒र॒न्त॒ ।

आ । नः॒ । भ॒ज॒ । म॒घ॒ऽव॒न् । गोषु॑ । अ॒र्यः । मंहि॑ष्ठाः । ते॒ । स॒ध॒ऽमादः॑ । स्या॒म॒ ॥१५

मा । सा । ते । अस्मत् । सुऽमतिः । वि । दसत् । वाजऽप्रमहः । सम् । इषः । वरन्त ।

आ । नः । भज । मघऽवन् । गोषु । अर्यः । मंहिष्ठाः । ते । सधऽमादः । स्याम ॥१५

हे “वाजप्रमहः वा वाजैर्धनैः प्रमहनीयेन्द्र “ते त्वदीया “सा 'सुमतिः शोभनानुग्रहरूपा बुद्धिः “अस्मत् अस्मासु “मा “वि “दसत् मा विशुध्यतु । तथा “इषः अन्नानि अस्मान् “सम् “वरन्त संवृतान् कुर्वन्तु । हे मघवन धनवन्निन्द्र “अर्यः धनपतिः त्वं “नः अस्मान् “गोषु “आ “भज प्रापय "ते तव “मंहिष्ठाः अतिशयेन स्तुतिभिः प्रवर्धयितारो वयं “सधमादः “स्याम पुत्रपौत्रादिभिः सह माद्यन्तो भवेम ॥ अस्मत् । ‘सुपां सुलुक्° ' इति सप्तम्या लुक् । दसत् । दसु उपक्षये '। माङि लुङि पुषादित्वात् अङ्। वाजप्रमहः । वाजैर्धनैः प्रकृष्टं महस्तेजो यस्य स तथोक्तः । पादादित्वात् आष्टमिकनिघाताभावः । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । वरन्त । ‘ वृञ् वरणे'। व्यत्ययेन शप् । गोषु । ‘ सावेकाचः० ' इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्ण ' इति प्रतिषेधः । अर्यः । ‘ अर्यः स्वामिवैश्ययोः' इति निपात्यते । अर्यः स्वाम्याख्या चेत्' (फि. सू. १७ ) इत्यन्तोदात्तत्वम् । मंहिष्ठाः । “महि वृद्धौ '। इदित्त्वात् नुम् । अस्मादन्तर्भावितण्यर्थात् तृच् ।'तुश्छन्दसि' इति इष्ठन् । तुरिष्ठेमेयःसु ' इति तृलोपः। सधमादः । मद तृप्तियोगे'। चौरादिकः । सह मादयन्ते तृप्ता भवन्तीति सधमादः । ‘ क्विप् च ' इति क्विप् । जस् । सध मादस्थयोश्छन्दसि' इति सहस्य सधादेशः । ॥ २६ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टकेऽष्टमोऽध्यायः समाप्तः ।।

॥ इति प्रथमाष्टकः समाप्तः ॥




मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२१&oldid=207820" इत्यस्माद् प्रतिप्राप्तम्