सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.३०

विकिस्रोतः तः
← सूक्तं १.२९ ऋग्वेदः - मण्डल १
सूक्तं १.३०
आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः
सूक्तं १.३१ →
दे. १-१६ इन्द्रः, १७-१९ अश्विनौ, २०- २२ उषाः। १-१०, १२ - १५, १७ - २२ गायत्री, ११ पादनिचृद्गायत्री, १६ त्रिष्टुप्


आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् ।
मंहिष्ठं सिञ्च इन्दुभिः ॥१॥
शतं वा यः शुचीनां सहस्रं वा समाशिराम् ।
एदु निम्नं न रीयते ॥२॥
सं यन्मदाय शुष्मिण एना ह्यस्योदरे ।
समुद्रो न व्यचो दधे ॥३॥
अयमु ते समतसि कपोत इव गर्भधिम् ।
वचस्तच्चिन्न ओहसे ॥४॥
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
विभूतिरस्तु सूनृता ॥५॥
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
समन्येषु ब्रवावहै ॥६॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये ॥७॥
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
वाजेभिरुप नो हवम् ॥८॥
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
यं ते पूर्वं पिता हुवे ॥९॥
तं त्वा वयं विश्ववारा शास्महे पुरुहूत ।
सखे वसो जरितृभ्यः ॥१०॥
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् ।
सखे वज्रिन्सखीनाम् ॥११॥
तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु ।
यथा त उश्मसीष्टये ॥१२॥
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर्मदेम ॥१३॥
आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।
ऋणोरक्षं न चक्र्योः ॥१४॥
आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।
ऋणोरक्षं न शचीभिः ॥१५॥
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि ।
स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात् ॥१६॥
आश्विनावश्वावत्येषा यातं शवीरया ।
गोमद्दस्रा हिरण्यवत् ॥१७॥
समानयोजनो हि वां रथो दस्रावमर्त्यः ।
समुद्रे अश्विनेयते ॥१८॥
न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ।
परि द्यामन्यदीयते ॥१९॥
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये ।
कं नक्षसे विभावरि ॥२०॥
वयं हि ते अमन्मह्यान्तादा पराकात् ।
अश्वे न चित्रे अरुषि ॥२१॥
त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः ।
अस्मे रयिं नि धारय ॥२२॥

सायणभाष्यम्

' आ व इन्द्रम् ' इति द्वाविंशत्यृचं सप्तमं सूक्तं शुनःशेपस्यार्षं गायत्रम् । ' अस्माकम् ' इत्येषा पादनिचृद्गायत्री । ' त्रयः सप्तकाः पादनिचृत्। ' ( अनु. ४.४) इति उक्तत्वात्। । ' शश्वदिन्द्रः ' इत्येषा त्रिष्टुप् । आदितः षोडशर्च ऐन्द्र्यः । ' आश्विनावश्वावत्या ' इत्याद्यास्तिस्र आश्विन्यः । ' कस्त उषः ' इत्याद्यास्तिस्र उषोदेवताकाः । तथा च अनुक्रमणिका- आ वो द्व्यधिकास्माकं पादनिचृच्छश्वत्त्रिष्टुप्पपरौ तृचावाश्विनोषस्यौ ' इति ।।

आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्त॑ः श॒तक्र॑तुम् ।

मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ॥१

आ । वः॒ । इन्द्र॑म् । क्रिवि॑म् । य॒था॒ । वा॒ज॒ऽयन्तः॑ । श॒तऽक्र॑तुम् ।

मंहि॑ष्ठम् । सि॒ञ्चे॒ । इन्दु॑ऽभिः ॥१

आ । वः । इन्द्रम् । क्रिविम् । यथा । वाजऽयन्तः । शतऽक्रतुम् ।

मंहिष्ठम् । सिञ्चे । इन्दुऽभिः ॥१

“वाजयन्तः अन्नमिच्छन्तो वयं शुनःशेपाः हे ऋत्विग्यजमानाः “वः युष्माकं संबन्धिनमिमम् “इन्द्रम् “इन्दुभिः सोमैः “आ “सिञ्चे सर्वतः सिञ्चामहे तर्पयामः । कीदृशम् । "शतक्रतुं शतसंख्याककर्मोपेतं “मंहिष्ठम् अतिशयेन प्रवृद्धम् । सेचने दृष्टान्तः । “यथा येन प्रकारेण “क्रिविम् अवटं जलेन पूरयन्ति तद्वत् । क्रिविशब्दः ‘वव्रिः काटुः' इत्यादिषु चतुर्दशसु कूपनामसु क्रिविः कूपः सूदः' (नि. ३. २३. ८ ) इति पठितम् ॥ क्रिविम् । ‘कृती छेदने । कृत्यते इति क्रित्विः । ‘क्रिविघृष्विच्छविस्थवि ' ( उ. सू. ४. ४९६ ) इत्यादौ किन्प्रत्ययान्तो निपातितः । अत एव तशब्दलोपः । नित्त्वादाद्युदात्तत्वम् । यथा । ‘यथेति पादान्ते' इति सर्वानुदात्तत्वम् । वाजयन्तः । वाजमात्मन इच्छन्तः । ‘सुप आत्मनः क्यच् । न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घत्वयोर्निषेधः, ‘अश्वाघस्यात्' इति पुनदीर्घविधानात् ज्ञापकात् । मंहिष्ठम् । “महि वृद्धौ । अतिशयेन मंहिता मंहिष्ठः । ‘तुश्छन्दसि' (पा. सू. ५, ३. ५९ ) इति तृजन्तात् इष्ठन्प्रत्ययः । “तुरिष्ठेमेयःसु ' (पा. सू. ६. ४. १५४) इति तृलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । सिञ्चे । ' षिचिर् क्षरणे'। व्यत्ययेन एकवचनम् । ‘शे मुचादीनाम्' इति नुमागमः ॥


श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिरां ।

एदु॑ नि॒म्नं न री॑यते ॥२

श॒तम् । वा॒ । यः । शुची॑नाम् । स॒हस्र॑म् । वा॒ । सम्ऽआ॑शिराम् ।

आ । इत् । ऊं॒ इति॑ । नि॒म्नम् । न । री॒य॒ते॒ ॥२

शतम् । वा । यः । शुचीनाम् । सहस्रम् । वा । सम्ऽआशिराम् ।

आ । इत् । ऊं इति । निम्नम् । न । रीयते ॥२

"यः इन्द्रः “शुचीनां शुद्धानां सोमानां “शतं “वा शतसंख्याकं समूह वा "समाशिरां समीचीनेन आशिराख्येन श्रपणद्रव्येणोपेतानां सोमानां “सहस्रं “वा सहस्रसंख्याकं समूहं वा "एदु “रीयते आगच्छत्येव । सोऽस्माननुगृह्णात्विति शेषः । सोमप्राप्तौ दृष्टान्तः । निम्नं “न । यथा निन्नप्रदेशम् आपः आप्नुवन्ति तद्वत् ॥ समाशिराम् । ‘श्रीञ् पाके' इत्यस्य समाङ्पूर्वस्य क्विपि 'अपस्पृधेथाम् । इत्यादौ आशीरादेशो' निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । रीयते । ‘रीङ् श्रवणे'। दिवादिभ्यः श्यन्' ।


सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ ।

स॒मु॒द्रो न व्यचो॑ द॒धे ॥३

सम् । यत् । मदा॑य । शु॒ष्मिणे॑ । ए॒ना । हि । अ॒स्य॒ । उ॒दरे॑ ।

स॒मु॒द्रः । न । व्यचः॑ । द॒धे ॥३

सम् । यत् । मदाय । शुष्मिणे । एना । हि । अस्य । उदरे ।

समुद्रः । न । व्यचः । दधे ॥३

“यत् पूर्वोक्तं शतं सहस्रं वा “शुष्मिणे बलवत इन्द्रस्य मदाय मदार्थं संगतं भवति । “एना “हि अनेनैव शतेन सहस्रेण च "अस्य इन्द्रस्य “उदरे “व्यचः व्याप्तिः “दधे धृता भवति । तत्र दृष्टान्तः । “समुद्रो “न समुद्र इव । यथा समुद्रमध्ये जलं व्याप्तं तद्वत् ॥ एना । ‘सुपां सुलुक्' इति तृतीयायाः डादेशः । व्यचः । व्यचेः कुटादित्वमनसि ' ( का. १. २. १. १ ) इति ङिद्वद्भावस्य प्रतिषिद्धत्वात् ' ग्रहिज्या° ' इत्यादिना संप्रसारणं न भवति । असुनो नित्त्वादाद्युदात्तत्वम् । दधे । दधातेः कर्मणि अभ्यासह्रस्वजश्त्वेषु कृतेषु ' आतो लोप इटि च' इति आकारलोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । ' हि च' इति प्रतिषेधात् निघाताभावः ॥


अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिं ।

वच॒स्तच्चि॑न्न ओहसे ॥४

अ॒यम् । ऊं॒ इति॑ । ते॒ । सम् । अ॒त॒सि॒ । क॒पोतः॑ऽइव । ग॒र्भ॒ऽधिम् ।

वचः॑ । तत् । चि॒त् । नः॒ । ओ॒ह॒से॒ ॥४

अयम् । ऊं इति । ते । सम् । अतसि । कपोतःऽइव । गर्भऽधिम् ।

वचः । तत् । चित् । नः । ओहसे ॥४

हे इन्द्र "अयमु अयमपि दृश्यमानः सोमः "ते त्वदर्थं संपादितः । यं सोमं “समतसि सम्यक् सातत्येन प्राप्नोषि । तत्र दृष्टान्तः । “कपोतइव। यथा कपोताख्यः पक्षी "गर्भधिं गर्भधारिणीं कपोतीं प्राप्नोति तद्वत् । “तच्चित् तस्मादेव कारणात् “नः अस्मदीयं “वचः "ओहसे प्राप्नोषि ॥ अतसि। ‘अत सातत्यगमने '। कपोतइव । 'कबेरोतच् पश्च' ( उ. सू. १. ६२ ) इति ओतच् । व्यत्ययेन मध्योदात्तः । गर्भधिम् । गर्भोऽस्यां धीयते इति गर्भधिः । 'कर्मण्यधिकरणे च' (पा. सू. ३. ३. ३९ ) इति किप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ओहसे । ‘तुहिर् दुहिर् उहिर् अर्दने' । व्यत्ययेन आत्मनेपदम् ॥


स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते ।

विभू॑तिरस्तु सू॒नृता॑ ॥५

स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑हः । वी॒र॒ । यस्य॑ । ते॒ ।

विऽभू॑तिः । अ॒स्तु॒ । सू॒नृता॑ ॥५

स्तोत्रम् । राधानाम् । पते । गिर्वाहः । वीर । यस्य । ते ।

विऽभूतिः । अस्तु । सूनृता ॥५

हे इन्द्र "राधानां “पते धनानां पालक “गिर्वाहः गीर्भिरुह्यमान "वीर शौर्योपेत “यस्य “ते तव “स्तोत्रम् ईदृशं भवति तस्य तव “विभूतिः लक्ष्मीः "सूनृता प्रियसत्यरूपा "अस्तु ॥ स्तोत्रम् । दाम्नीशस ' ( पा. सू. ३. २. १८२ ) इति ष्ट्रन् । पश्चात् अर्शआद्यच् । अथवा स्तोतुरिदमित्यर्थे अण् । ‘संज्ञापूर्वको विधिरनित्यः' इति वृद्धिर्न । राधानां पते । राध्नुवन्ति एभिरिति राधानि धनानि । ‘सुबामन्त्रिते' ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य निघातः । गिर्वाहः । वह प्रापणे'। ‘वहिहाधाञ्भ्यश्छन्दसि' इति कारकपूर्वस्यापि वहतेः असुन्प्रत्ययः, ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं' च इति उक्तत्वात् । णित्' इत्यनुवृत्तेः उपधावृद्धिः । पूर्वपदस्य • र्वोरुपधायाः' (पा. सू. ८. २. ७६ ) इति दीर्घस्याभावश्छान्दसः । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । विभूतिः । ‘तादौ च निति° ' इति गतेः प्रकृतिस्वरत्वम् ॥ ॥ २८ ॥


ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो ।

सम॒न्येषु॑ ब्रवावहै ॥६

ऊ॒र्ध्वः । ति॒ष्ठ॒ । नः॒ । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥६

ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो इति शतऽक्रतो ।

सम् । अन्येषु । ब्रवावहै ॥६

हे “शतक्रतो शतसंख्याककर्मोपेत “अस्मिन् प्रसक्ते "वाजे संग्रामे “नः अस्माकम् “ऊतये रक्षणाय “ऊर्ध्वः उन्नतः उत्सुकः “तिष्ठ भव । त्वं च अहं च मिलित्वा “अन्येषु कार्यान्तरेषु "सं “ब्रवावहै। सम्यक् विचारयावः ॥ तिष्ठ । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः। ऊतये । ‘ऊतियूति इत्यादिना क्तिन उदात्तत्वम् । अस्मिन् ।' उडिदम्' इत्यादिना सप्तम्या उदात्तत्वम् ॥


योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।

सखा॑य॒ इंद्र॑मू॒तये॑ ॥७

योगे॑ऽयोगे । त॒वःऽत॑रम् । वाजे॑ऽवाजे । ह॒वा॒म॒हे॒ ।

सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥७

योगेऽयोगे । तवःऽतरम् । वाजेऽवाजे । हवामहे ।

सखायः । इन्द्रम् । ऊतये ॥७

“योगेयोगे प्रवेशेप्रवेशे तत्तत्कर्मोपक्रमे “वाजेवाजे कर्मविघातिनि तस्मिंस्तस्मिन् संग्रामे “तवस्तरम् अतिशयेन बलिनम् “इन्द्रमूतये रक्षार्थं "सखायः सखिवत् प्रिया वयं “हवामहे आह्वयामः ॥ योगेयोगे ।' युजिर् योगे'। हलश्च ' इति घञ् । 'चजोः कु घिण्ण्यतोः ( पा. सू. ७. ३.५२) इति कुत्वम् । घञो ञित्त्वादाद्युदात्तत्वम् । नित्यवीप्सयोः' इति वीप्सायां द्विर्भावे सति आम्रेडितानुदात्तत्वम् । तवस्तरम्। तवसः शब्दात् ‘ अस्मायामेधा° ' ( पा. सू. ५, २. १२१ ) इति मत्वर्थीयो विनिः । तस्य च्छान्दसो लोपः ॥


आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभिः॑ ।

वाजे॑भि॒रुप॑ नो॒ हवं॑ ॥८

आ । घ॒ । ग॒म॒त् । यदि॑ । श्रव॑त् । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ ।

वाजे॑भिः । उप॑ । नः॒ । हव॑म् ॥८

आ । घ । गमत् । यदि । श्रवत् । सहस्रिणीभिः । ऊतिऽभिः ।

वाजेभिः । उप । नः । हवम् ॥८

"यदि “श्रवत् यद्ययम् इन्द्रः “नः अस्मदीयं “हवम् आह्वानं शृणुयात् तदानीं स्वयमेव “सहस्रिणीभिरूतिभिः बहुभिः पालनैः “वाजेभिः अन्नैश्च सह “उप समीपे “आ “घ अवश्यम् आगमत आगच्छेत् ॥ घ।' ऋचि तुनुघ' ' इत्यादिना संहितायां दीर्घः । गमत् । ‘लिङर्थे लेट् । 'लेटोऽडाटौ' इतिअडागमः। इतश्च लोपः०' इति इकारलोपः। यद्वा । छान्दसे लुङि • पुषादिद्युताद्यलृदितः परस्मैपदेषु (पा. सू. ३. १. ५५) इति च्लेः अङादेशः । ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । श्रवत् । ‘श्रु श्रवणे' । पूर्ववत् लेटि अडागमः। वाजेभिः । ‘बहुलं छन्दसि' इति भिस ऐसादेशाभावः । हवम् । ‘भावेऽनुपसर्गस्य' इति हृयतेः अप् संप्रसारणं च । अपः पित्त्वानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् ॥


अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नरं॑ ।

यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥९

अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । हु॒वे । तु॒वि॒ऽप्र॒तिम् । नर॑म् ।

यम् । ते॒ । पूर्व॑म् । पि॒ता । हु॒वे ॥९

अनु । प्रत्नस्य । ओकसः । हुवे । तुविऽप्रतिम् । नरम् ।

यम् । ते । पूर्वम् । पिता । हुवे ॥९

"प्रत्नस्य पुरातनस्य “ओकसः स्थानस्य स्वर्गरूपस्य सकाशात् "तुविप्रतिं बहून् यजमानान् प्रतिगन्तारं "नरं पुरुषम् इन्द्रम् "अनु हुवे अनुक्रमेण कर्मसु आह्वयामि । "यं "ते त्वाम् इन्द्रं "पिता अस्मदीयो जनकः "पूर्वं पुरा स्वकीयानुष्ठानकाले "हुवे आहूतवान् । तम् आह्वयामीति पूर्वत्रान्वयः॥ ओकसः । ‘नब्विषयस्य' इत्याद्युदात्तत्वम् । हुवे । “ह्वेञ् स्पर्धायां शब्दे च'। इटि ‘बहुलं छन्दसि' इति संप्रसारणं परपूर्वत्वम् । गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । उवङादेशः । प्रत्ययस्वरेणान्तोदात्तत्वम् । पादादित्वादनिघातः । तुविप्रतिम् । तुवीनां बहूनां प्रतिगन्तारम् । अत्र प्रतिशब्दो भीमसेनो भीम इतिवत् प्रतिगन्तृशब्दं लक्षयित्वा तद्द्वारा तदर्थं लक्षयति । अतः ‘प्रतिः प्रतिनिधिप्रतिदानयोः' (पा. सू. १. ४. ९२ ) इतिवत् सत्ववचनत्वेन अनिपातत्वात् अनन्ययत्वे ‘पूरणगुण' (पा. सू. २. २. ११) इत्यादिना न षष्ठीसमासनिषेधः । हुवे । ह्वेञो लिटि ‘बहुलं छन्दसि' इति पूर्ववत् संप्रसारणपरपूर्वत्वे। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' ( पा. सू. ६. १. ८. २ ) इति द्विर्वचनाभावः । यद्वृत्तयोगादनिघातः ॥


तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत ।

सखे॑ वसो जरि॒तृभ्यः॑ ॥१०

तम् । त्वा॒ । व॒यम् । वि॒श्व॒ऽवा॒र॒ । आ । शा॒स्म॒हे॒ । पु॒रु॒ऽहू॒त॒ ।

सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥१०

तम् । त्वा । वयम् । विश्वऽवार । आ । शास्महे । पुरुऽहूत ।

सखे । वसो इति । जरितृऽभ्यः ॥१०

हे "विश्ववार सर्वैर्वरणीय "पुरुहूत बहुभिः स्वस्वकर्मण्याहूत "सखे सखिवत् प्रिय "वसो निवासहेतो इन्द्र "तं पूर्वोक्तगुणयुक्तं त्वां "जरितृभ्यः स्तोतॄणामनुग्रहार्थम् "आ “शास्महे प्रार्थयामहे ॥ आ शास्महे । ‘आङः शासु इच्छायाम्'। ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । वसो । ‘नामन्त्रिते समानाधिकरणे ' इति पूर्वस्य अविद्यमानवत्त्वनिषेधात् पराङ्गवद्भावे सति शेषनिघातेन वा आमन्त्रितस्य च ' इति वा सर्वानुदात्तत्वम् । जरितृभ्यः । जरतिः स्तुतिकर्मा । तृचश्चित्त्वादन्तोदात्तत्वम् ॥ ॥ २९ ॥


अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्नां॑ ।

सखे॑ वज्रि॒न्त्सखी॑नां ॥११

अ॒स्माक॑म् । शि॒प्रिणी॑नाम् । सोम॑ऽपाः । सो॒म॒ऽपाव्ना॑म् ।

सखे॑ । व॒ज्रि॒न् । सखी॑नाम् ॥११

अस्माकम् । शिप्रिणीनाम् । सोमऽपाः । सोमऽपाव्नाम् ।

सखे । वज्रिन् । सखीनाम् ॥११

हे "सोमपाः सोमस्य पातः "सखे सखिवत् प्रिय "वज्रिन् वज्रयुक्तेन्द्र "सखीनां सखिवत् प्रियाणां "सोमपाव्नां सोमस्य पातॄणाम् अस्माकं "शिप्रिणीनां दीर्घाभ्यां हनूभ्यां नासिकाभ्यां वा युक्तानां गवां समूहः स्वरप्रसादादस्त्विति शेषः ॥ शिप्रिणीनाम् ।' ऋन्नेभ्यो ङीप्' इति ङीप् । तस्य पित्वादनुदात्तत्वे सति प्रत्ययस्वरः शिष्यते । सोमपाः। आमन्त्रितस्य सतिशिष्टत्वात् आमन्त्रिताद्युदात्तत्वम्। सोमपाव्नाम् । ‘आतो मनिन् ' इत्यादिना वनिप् ।' अल्लोपोऽनः ' ( पा. सू. ६. ४. १३४ ) इति अनः अकारस्य लोपः ॥


तथा॒ तद॑स्तु सोमपाः॒ सखे॑ वज्रिं॒ तथा॑ कृणु ।

यथा॑ त उ॒श्मसी॒ष्टये॑ ॥१२

तथा॑ । तत् । अ॒स्तु॒ । सो॒म॒ऽपाः॒ । सखे॑ । व॒ज्रि॒न् । तथा॑ । कृ॒णु॒ ।

यथा॑ । ते॒ । उ॒श्मसि॑ । इ॒ष्टये॑ ॥१२

तथा । तत् । अस्तु । सोमऽपाः । सखे । वज्रिन् । तथा । कृणु ।

यथा । ते । उश्मसि । इष्टये ॥१२

हे "सोमपाः "सखे “वज्रिन् “इष्टये अभिलषितार्थं “ते तव अनुग्रहं “यथा येन प्रकारेण "उश्मसि वयं कामयामहे त्वं “तथा कुरु । त्वत्प्रसादात् “तत् अभीष्टं “तथा “अस्तु ॥ कृणु । कृवि हिंसाकरणयोश्च । इदित्त्वात् नुम् । ‘धिन्विकृण्व्योर च ' इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारः । ‘अतो लोपः' इति तस्य लोपः। तस्य स्थानिवद्भावात् लघूपधगुणाभावः। उतश्च प्रत्ययादसंयोगपूर्वात् इति हेर्लुक् । उश्मसि । ‘वश कान्तौ । ‘इदन्तो मसि'। अदादित्वात् शपो लुक् । ग्रहिज्यादिना संप्रसारणम् । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । इष्टये । इषु इच्छायाम् ' । क्तिनि ‘तितुत्र° ' इत्यादिना इट्प्रतिषेधः । यद्वा । यजतेः क्तिनि ‘वचिस्वपि ' ( पा. सू. ६. १. १५) इत्यादिना संप्रसारणम् । व्रश्चादिना षत्वे ष्टुत्वम् । पूर्वस्मिन् पक्षे ‘मन्त्रे वृष° 'इति क्तिन उदात्तत्वम्। द्वितीये तु व्यत्ययेन ॥


रे॒वती॑र्नः सध॒माद॒ इंद्रे॑ संतु तु॒विवा॑जाः ।

क्षु॒मंतो॒ याभि॒र्मदे॑म ॥१३

रे॒वतीः॑ । नः॒ । स॒ध॒ऽमादे॑ । इन्द्रे॑ । स॒न्तु॒ । तु॒विऽवा॑जाः ।

क्षु॒ऽमन्तः॑ । याभिः॑ । मदे॑म ॥१३

रेवतीः । नः । सधऽमादे । इन्द्रे । सन्तु । तुविऽवाजाः ।

क्षुऽमन्तः । याभिः । मदेम ॥१३

“क्षुमन्तः अन्नवन्तो वयं “याभिः गोभिः सह “मदेम हृष्येम “इन्द्र “सधमादे अस्माभिः सह हर्षयुक्ते सति "नः अस्माकं ता गावः “रेवतीः क्षीराज्यादिधनवत्यः "तुविवाजाः प्रभूतबलाश्च “सन्तु ॥ रेवतीः । रयिशब्दात् मतुपि ‘रयेर्मतौ बहुलम् ' इति संप्रसारणं परपूर्वत्वम् । छन्दसीरः' इति मतुपो वत्वम् ।' वा छन्दसि ' इति पूर्वसवर्णदीर्घः । ‘आरेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्' इति रेशब्दात उत्तरस्यापि भवतीति पूर्वमेवोक्तम् । सधमादे । ‘मद तृप्तियोगे । चौरादिकः । सह मादयतीति सधमादः । पचाद्यच् । सध मादस्थयोश्छन्दसि ' ( पा. सु. ६. ३. ९६ ) इति सहशब्दस्य सधादेशः । थाथादिना उत्तरपदान्तोदात्तत्वे प्राप्ते • परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । तुविवाजाः । ‘तु ' इति सौत्रो धातुर्वृद्ध्यर्थः । ‘अच इः ' इति इः । संज्ञापूर्वकत्वात् गुणो न भवति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । क्षुमन्तः । ‘टुक्षु शब्दे ' । अस्मात् क्विपि तुगभावश्छान्दसः । ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । मदेम । “मदी हर्षे'। व्यत्ययेन शप् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । ततो धातुस्वरः शिष्यते ॥


आ घ॒ त्वावां॒त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः ।

ऋ॒णोरक्षं॒ न च॒क्र्योः॑ ॥१४

आ । घ॒ । त्वाऽवा॑न् । त्मना॑ । आ॒प्तः । स्तो॒तृऽभ्यः॑ । धृ॒ष्णो॒ इति॑ । इ॒या॒नः ।

ऋ॒णोः । अक्ष॑म् । न । च॒क्र्योः॑ ॥१४

आ । घ । त्वाऽवान् । त्मना । आप्तः । स्तोतृऽभ्यः । धृष्णो इति । इयानः ।

ऋणोः । अक्षम् । न । चक्र्योः ॥१४

हे “धृष्णो धार्ष्ट्ययुक्त इन्द्र “त्वावान् त्वत्सदृशो देवताविशेषः “त्मनाप्तः त्वदनुग्रहवशात् स्वयमेव आप्तः सन् “इयानः अस्माभिर्याच्यमानः “स्तोतृभ्यः स्तोतॄणामनुग्रहाय तदभीष्टमर्थं "घ अवश्यम् “आ “ऋणोः आनीय प्रक्षिपतु । तत्र दृष्टान्तः । “चक्र्योः रथस्य चक्रयोः “अक्षं “न । यथा अक्षं प्रक्षिपन्ति तद्वत् ॥ त्वावान् ।' वतुप्प्रकरणे युष्मदस्मद्यांनः छन्दसि सादृश्य उपसंख्यानम् ' ( पा. सू. ५. २. ३९. १ ) इति वतुप् ।' प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । ‘आ सर्वनाम्नः ' ( पा. सू. ६. ३. ९१ ) इति दकारस्य आत्वम् । वतुपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः शिष्यते । त्मना । ‘मन्त्रेष्वाङ्यादेरात्मनः' (पा. सू. ६. ४. १४१) इति आकारलोपः । धृष्णो ।' ञिधृषा प्रागल्भ्ये'।' त्रसिगृधिधृषिक्षिपेः क्नुः ' (पा. सू. ३. २. १४०)। आमन्त्रितानुदात्तत्वम् । इयानः । 'ईङ् गतौ'। 'छन्दसि लिट्' (पा. सू, ३. २. १०५ )। तस्य ‘लिटः कानज्वा' ( पा. सू. ३. २. १०६ ) इति कानजादेशः ।“ अचि श्नुधातु ' ( पा. सू. ६. ४. ७७) इत्यादिना इयङादेशः । ‘द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' इति वचनात् अभ्यासो न क्रियते । ‘चितः' इत्यन्तोदात्तत्वम् । ऋणोः । ‘ऋण गतौ । लङि व्यत्ययेन तिपः सिपि ' इतश्च ' ( पा. सू. ३. ४. १००) इति इकारलोपः । ‘तनादिकृञ्भ्य उः ' ( पा. सू. ३. १. ७९ )। सार्वधातुकगुणः । ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडागमाभावः। विकरणस्वरेणान्तोदात्तत्वम् । अक्षम्। ‘अक्षस्यादेवनस्य' (फि. सू. ३५) इत्याद्युदात्तत्वम् । चक्र्योः । अकारस्य इकारश्छान्दसः ॥


आ यद्दुवः॑ शतक्रत॒वा कामं॑ जरितॄ॒णां ।

ऋ॒णोरक्षं॒ न शची॑भिः ॥१५

आ । यत् । दुवः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । आ । काम॑म् । ज॒रि॒तॄ॒णाम् ।

ऋ॒णोः । अक्ष॑म् । न । शची॑भिः ॥१५

आ । यत् । दुवः । शतक्रतो इति शतऽक्रतो । आ । कामम् । जरितॄणाम् ।

ऋणोः । अक्षम् । न । शचीभिः ॥१५

हे “शतक्रतो इन्द्र “यद्दुवः धनं कामितार्थरूपम् “आ स्तोतृभिराप्तव्यमस्ति तं "कामं “जरितॄणां स्तोतॄणामनुग्रहाय “आ “ऋणोः आनीय प्रक्षिपसि । तत्र दृष्टान्तः । “शचीभिः कर्मभिः शकटोचितव्यापारविशेषैः "अक्षं “न यथा अक्षं प्रक्षिपन्ति तद्वत् ॥ शचीभिः । शचीशब्दः शार्ङ्गरवादिङीनन्तः (पा. सू. ४. १. ७३ ) आद्युदात्तः ॥ ॥ ३० ॥


शश्व॒दिंद्रः॒ पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भिः॒ शाश्व॑सद्भि॒र्धना॑नि ।

स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्त्स नः॑ सनि॒ता स॒नये॒ स नो॑ऽदात् ॥१६

शश्व॑त् । इन्द्रः॑ । पोप्रु॑थत्ऽभिः । जि॒गा॒य॒ । नान॑दत्ऽभिः । शाश्व॑सत्ऽभिः । धना॑नि ।

सः । नः॒ । हि॒र॒ण्य॒ऽर॒थम् । दं॒सना॑ऽवान् । सः । नः॒ । स॒नि॒ता । स॒नये॑ । सः । नः॒ । अ॒दा॒त् ॥१६

शश्वत् । इन्द्रः । पोप्रुथत्ऽभिः । जिगाय । नानदत्ऽभिः । शाश्वसत्ऽभिः । धनानि ।

सः । नः । हिरण्यऽरथम् । दंसनाऽवान् । सः । नः । सनिता । सनये । सः । नः । अदात् ॥१६

तुष्टेन इन्द्रेण दत्तं हिरण्यरथम् अनया प्रतिजग्राह । तथा च ब्राह्मणं- तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ तमेतया प्रतीयाय शश्वदिन्द्र इति ' ( ऐ. ब्रा. ७. १६ ) इति । “इन्द्रः “शश्वत् सर्वदा “धनानि वैरिसंबन्धीनि “जिगाय जितवान् अश्वैरिति शेषः । कीदृशैः । “पोप्रुथद्भिः घासभक्षणानन्तरभाविनम् ओष्ठशब्दं कुर्वद्भिः “नानदद्भिः नादम् आस्यगतं हेषाशब्दं कुर्वद्भिः “शाश्वसद्भिः पुनःपुनर्भृशं वा श्वसद्भिः । “दंसनावान् कर्मवान् “सनिता दाता “सः इन्द्रः “नः अस्माकं “सनये संभजनार्थं “हिरण्यरथं सुवर्णेन निर्मितं रथम् “अदात् दत्तवान् । ' स नः स नः' इति द्विरुक्तिरादरार्थम् ॥ पोप्रुथद्भिः । ‘प्रोथृ पर्याप्तौ । अस्मात् यङ्लुकि अभ्यासहलादिशेषौ । “हस्वः । (पा. सू. ७. ४. ५९ ) इति ह्रस्वत्वे कृते ‘ गुणो यङ्लुकोः ' ( पा. सू. ७. ४. ८२ ) इति गुणः । धातोरुपधाया उत्वं छान्दसम् । अस्मात् यङ्लुगन्तात् शतरि ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । जिगाय । जि जये । लिटो णलि वृद्धिः । ‘द्विर्वचनेऽचि' इति स्थानिवद्भावात् जि इत्यस्य द्विर्वचनम् ।' सन्लिटोर्जेः ' ( पा. सू. ७. ३. ५७ ) इति अभ्यासादुत्तरस्य कुत्वम् । नानदद्भिः। ‘णद अव्यक्ते शब्दे'। पूर्ववत् यङ्लुकि दीर्घोऽकितः' इति अभ्यासस्य दीर्घः । पूर्ववदाद्युदात्तत्वम् । शाश्वसद्धिः । ‘श्वस प्राणने ' । अन्यत् सर्वं पूर्ववत् । हिरण्यरथम् । ‘समासस्य ' इत्यन्तोदात्तत्वम् । अदात् । गातिस्था° ' इति सिचो लुक् । दंसनावान्। दंसशब्दः अप्नः दंसः वेषः' (नि. २. १. ३ ) इति कर्मनामसु पठितः । दंस एव दंसना । ‘तदस्यास्ति' इति मतुप् । दस्यते अनेनेति दंसना ॥


प्रातरनुवाके आश्विने क्रतौ गायत्रे छन्दसि आश्विनावश्वावत्या ' इति तृचः । अथाश्विनः इति खण्डे ‘अश्विना यज्वरीरिष आश्विनावश्वावत्या ' ( आश्व. श्रौ. ४. १५ ) इति सूत्रितम् ॥

आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया ।

गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥१७

आ । अ॒श्वि॒नौ॒ । अश्व॑ऽवत्या । इ॒षा । या॒त॒म् । शवी॑रया ।

गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ॥१७

आ । अश्विनौ । अश्वऽवत्या । इषा । यातम् । शवीरया ।

गोऽमत् । दस्रा । हिरण्यऽवत् ॥१७

इन्द्रेण प्रेरितः शुनःशेपः अश्विनौ तुष्टाव । तथा च ब्राह्मणं- तमिन्द्र उवाचाश्विनौ नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽश्विनौ तुष्टावात उत्तरेण तृचेन' (ऐ. ब्रा. ७. १६) इति ॥ हे “अश्विनौ “अश्वावत्या बहुभिरश्वैर्युक्तया “शवीरया प्रेर्यमाणया “इषा अन्नेन सह “आ “यातम् अस्मिन् कर्मणि आगच्छतम् । हे “दस्रा अश्विनौ युवयोः प्रसादात् “गोमत् बहुभिर्गोभिर्युक्तं “हिरण्यवत् बहुना हिरण्येन युक्तम् अस्मदीयं गृहमस्त्विति शेषः ॥ अश्वावत्या । ‘मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ' (पा. सू. ६. ३. १३१) इति दीर्घत्वम् । इषा । ‘सावेकाचः' इति तृतीयाया उदात्तत्वम् । यातम् । ' या प्रापणे'। लोटि तसः तम् । अदादित्वात् शपो लुक् । शवीरया । 'शु गतौ'। कॄशॄपॄकटिपटिशौटिभ्य ईरन्' (उ. सू. ४. ४७०) इति ईरन्प्रत्ययो बहुलवचनात् अस्मादपि भवति । नित्त्वादाद्युदात्तत्वम् ॥


स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः ।

स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥१८

स॒मा॒नऽयो॑जनः । हि । वा॒म् । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः ।

स॒मु॒द्रे । अ॒श्वि॒ना॒ । ईय॑ते ॥१८

समानऽयोजनः । हि । वाम् । रथः । दस्रौ । अमर्त्यः ।

समुद्रे । अश्विना । ईयते ॥१८

हे “दस्रौ अश्विनौ “वां युवयोः संबन्धी “रथः “समानयोजनः तुल्ययोजनः युवयोर्द्वयोरेकरथारूढत्वात् उभयार्थं सकृदेव युज्यते । युक्तः स रथः "अमर्त्यः विनाशरहितः अप्रतिहतगतिरित्यर्थः । अत एव हे अश्विनौ “हि यस्मात् “समुद्रे अन्तरिक्षे "ईयते गच्छति । अन्तरिक्षनामसु पठितं समुद्रशब्दं यास्क एवं व्याचख्यौ-‘समुद्रः कस्मात्समुद्द्रवन्त्यस्मादापः समभिद्रवन्त्येनमापः संमोदन्तेऽस्मिन्भूतानि समुदको भवति समुनत्तीति वा' (निरु. २. १०) इति । समानयोजनः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अमर्त्यः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ईयते । ‘ईङ गतौ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । “हि च ' इति निघातप्रतिषेधः ॥


न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः ।

परि॒ द्याम॒न्यदी॑यते ॥१९

नि । अ॒घ्न्यस्य॑ । मू॒र्धनि॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ ।

परि॑ । द्याम् । अ॒न्यत् । ई॒य॒ते॒ ॥१९

नि । अघ्न्यस्य । मूर्धनि । चक्रम् । रथस्य । येमथुः ।

परि । द्याम् । अन्यत् । ईयते ॥१९

हे अश्विनौ युवाम् “अघ्न्यस्य हन्तुं विनाशयितुमशक्यस्य दृढस्य पर्वतस्य “मूर्धनि उपरि “चक्र भवदीयरथसंबन्ध्येकं चक्रं “नि "येमथुः नियमितवन्तौ । “अन्यत् चक्रं “परि “द्यां द्युलोकस्य परितः “ईयते गच्छति ॥ अघ्न्यस्य । अहननम् अघ्नः । ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् ' (पा. सू. ३. ३. ५८. ४ ) इति हन्तेः कप्रत्ययः । अघ्नमर्हति अघ्न्यः । छन्दसि च ' ( पा. सू. ५. १. ६७ ) इति यप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तत्वम् । येमथुः । ‘यम उपरमे '। किति लिटि • अत एकहल्मध्ये° ' ( पा. सू. ६. ४. १२०) इति एत्वाभ्यासलोपौ ॥


प्रातरनुवाके आश्विनशस्त्रे उषस्ये क्रतौ गायत्रे छन्दसि ‘कस्त उषः' इति तृचः। अथोषस्यः' इति खण्डे ‘कस्त उष इति तिस्रः' (आश्व. श्रौ. ४. १४ ) इति सूत्रितम् ॥

कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये ।

कं न॑क्षसे विभावरि ॥२०

कः । ते॒ । उ॒षः॒ । क॒ध॒ऽप्रि॒ये॒ । भु॒जे । मर्तः॑ । अ॒म॒र्त्ये॒ ।

कम् । न॒क्ष॒से॒ । वि॒भा॒ऽव॒रि॒ ॥२०

कः । ते । उषः । कधऽप्रिये । भुजे । मर्तः । अमर्त्ये ।

कम् । नक्षसे । विभाऽवरि ॥२०

अश्विभ्यां प्रेरितः शुनःशेपः उषसं तुष्टाव । तथा च ब्राह्मणं-- तमश्विना ऊचतुरुषसं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स उषसं तुष्टावात उत्तरेण तृचेन तस्य ह स्मर्च्यृच्युक्तायां वि पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्युत्तमस्यामेवर्च्युक्तायां वि पाशो मुमुचेऽगद ऐक्ष्वाक आस ' ( ऐ. ब्रा. ७. १६) इति । हे “कधप्रिये स्तुतिप्रिये "अमर्त्ये मरणरहिते उषः एतच्छब्दाभिधेये उषःकालाभिमानिनि देवते "भुजे तव भोगाय “मर्तः मनुष्यः “कः विद्यते । हे “विभावरि विशेषप्रभावयुक्ते उषो देवि “कं पुरुषं “नक्षसे प्राप्तोषि तवोचितं भोगं दातुं न कोऽपि मनुष्यः समर्थः । अत एव त्वं कमपि पुरुषं भोगापेक्षया न प्राप्नोषि । ईदृशस्तव महिमेत्यर्थः । ते । तेमयावेकवचनस्य' (पा. सू. ८. १.२२) इति युष्मच्छब्दस्य तेआदेशः सर्वानुदात्तः । कधप्रिये। कथ वाक्यप्रबन्धे'। चुरादिरदन्तः । णौ अतो लोपस्य स्थानिवद्भावात् उपधावृद्ध्यभावः । ‘चिन्तिपूजिकथिकुम्बिचर्चश्च' ( पा. सू. ३. ३. १०५) इति अङ्प्रत्ययः । ‘णेरनिटि ' इति णिलोपः । ततः टाप् । षष्ठीसमासे ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ' ( पा. सू. ६. ३. ६३ ) इति ह्रस्वत्वम् । थकारस्य धकारश्छान्दसः । आमन्त्रितानुदात्तत्वम् । भुजे । ‘भुज पालनाभ्यवहारयोः '। संपदादिलक्षणः क्विप् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । मर्तः । ‘असिहसि ' इत्यादिना तन्प्रत्ययान्त आद्युदात्तः । नक्षसे। ‘तृक्ष ष्टृक्ष णक्ष गतौ। विभावरि । ‘भा दीप्तौ । विपूर्वात् अस्मात् ‘आतो मनिन्क्वनिब्वनिपश्च' इति वनिप् । 'वनो र च' ( पा. सू. ४. १. ७ ) इति ङीप्; तत्संनियोगेन नकारस्य रेफादेशः । ‘अम्बार्थनद्योर्ह्रस्वः ' ( पा. सू. ७. ३. १०७ ) इति ह्रस्वत्वम् ।


व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् ।

अश्वे॒ न चि॑त्रे अरुषि ॥२१

व॒यम् । हि । ते॒ । अम॑न्महि । आ । अन्ता॑त् । आ । प॒रा॒कात् ।

अश्वे॑ । न । चि॒त्रे॒ । अ॒रु॒षि॒ ॥२१

वयम् । हि । ते । अमन्महि । आ । अन्तात् । आ । पराकात् ।

अश्वे । न । चित्रे । अरुषि ॥२१

“अश्वे व्यापनशीले “चित्रे चायनीये "अरुषि आरोचमाने उषःकालाभिमानिनि देवते तव स्वरूपम् “आन्तात् समीपपर्यन्तम् “आ “पराकात् दूरपर्यन्तं “वयं मनुष्याः “न “अमन्महि न बोद्धुं समर्थाः । हिशब्दः प्रसिद्धौ । देवतामहिम्नः पारावारयोरज्ञानमस्मासु प्रसिद्धमित्यर्थः ॥ अमन्महि। ‘मन ज्ञाने'। ‘बहुलं छन्दसि ' इति बहुलवचनात् श्यनो लुक् । 'लुङ्लङ्लृङ्क्ष्वडुदात्तः । ‘हि च ' इति निघातप्रतिषेधः । अश्वे। ‘ अशू व्याप्तौ । ‘अशिप्रुषि' इत्यादिना क्वन्प्रत्ययः । आमन्त्रिताद्युदात्तत्वम्॥


त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः ।

अ॒स्मे र॒यिं नि धा॑रय ॥२२

त्वम् । त्येभिः॑ । आ । ग॒हि॒ । वाजे॑भिः । दु॒हि॒तः॒ । दि॒वः॒ ।

अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ ॥२२

त्वम् । त्येभिः । आ । गहि । वाजेभिः । दुहितः । दिवः ।

अस्मे इति । रयिम् । नि । धारय ॥२२

हे “दिवः दुहितः द्युदेवतायाः पुत्रि उषो देवि “त्येभिः “वाजेभिः तैरन्नैः सह “त्वम् “आ “गहि अत्रागच्छ । “अस्मे अस्मासु “रयिं धनं “नि “धारय नितरां स्थापय ॥ त्येभिः । 'बहुलं छन्दसि' इति त्यशब्दात् भिस ऐसादेशाभावः । गहि । असकृदुक्तम् । दुहितर्दिवः । परस्यापि दिव इत्यस्य दिवः दुहितः इत्यन्वये सति पूर्वत्वात् ‘सुबामन्त्रिते' इति पराङ्गवद्भावेन षष्ठ्यामन्त्रितसमुदायस्य सर्वानुदात्तत्वम् । यद्वा । ‘कार्यकालं हि संज्ञापरिभाषम् ' ( परिभा. ३ ) इति न्यायेन ‘सुबामन्त्रिते॰ ' इत्यस्य ‘आमन्त्रिस्य च ' इति आष्टमिकेन योगेनैकवाक्यत्वे सति परत्वात् पराङ्गवद्भावे सति सर्वानुदात्तत्वम्। कृतस्वरयोः षष्ठ्यामन्त्रितयोः पश्चात् ‘व्यत्ययो बहुलम्' इति व्यत्यस्तप्रयोगः । अस्मे । “ सुपां सुलुक् ' इति सप्तम्याः शेआदेशः ॥ ३१ ॥ ॥ ६ ॥

टिप्पणी

१.३०.१ आ वः इन्द्रं क्रिविं यथा इति--

क्रिवि उपरि टिप्पणी

क्रिविः इति कूपनाम। यथा क्रिविं उदकेन सिञ्च्यते, एवं शतक्रतुं इन्द्रं इन्दुभिः सिच्यते। केन प्रकारेण। वाजयन्तः। वाजसंज्ञकं बलं प्रापयित्वा। क्रिविः। कॄ - विक्षेपे। विक्षेपाणां, पापानां, दोषाणां द्विप्रकाराः भवितुं शक्यते। दोषाः येषां अपनयनं संभवमस्ति एवं दोषाः येषां अपनयनं संभवं नास्ति। यदि कोपि व्याधिः जन्मजाता अस्ति, तस्याः अपनयनं केन प्रकारेण भवेत्, अयं प्रश्नः। ऋग्वेद ८.५१.८ मध्ये क्रिवेः सेचनं ओजसा कर्तुं निर्देशः अस्ति (प्र यो ननक्षे अभ्योजसा क्रिविम् इति)। ऋग्वेद ८.२०.२४ मध्ये दक्षता द्वारा क्रिवेः पूरणस्य निर्देशमस्ति ( याभिर्दशस्यथा क्रिविम्)।

एते एव पूर्वे अहनी अप्तोर्यामोऽतिरात्रस्तेन हैतेन क्रैव्यऽईजे पाञ्चालो राजा क्रिवय इति ह वै पुरा पञ्चालानाचक्षते तदेतद्गाथयाभिगीतमश्वं मेध्यमालभते क्रिवीणामतिपूरुषः। पाञ्चालः परिवक्रायां सहस्रशतदक्षिणमिति - माश १३.५.४.७

सामवेदः १.२१४,

शां.श्रौ. १८.१३.५ (महाव्रतप्रकरणम्),

आ व इन्द्रं कृविं यथेति दशता अप्तोर्य्यामाणम्(अवाप्नोति) - सामविधान १.४.४

१.३०.७ योगे योगे तवस्तरं इति--

ब्राह्मणाच्छंशिसामप्रशंसा --योगे-योगे तवस्तरं इति सौमेधं रात्रिषाम (साम १६३) रात्रेरेव समृध्यै - तांब्रा. ९.२.२०

१.३०.१३ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम ॥१३॥

नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे।(२.१.१०), अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः॥ २.००४.०८, क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे॥ ८.०८८.०२॥, क्षुमद्वाजवन्मधुमत्सुवीर्यम्॥ ९.०८६.१८, । पुराणेषु (स्कन्दपुराणम् ६.११८) तक्षक-भार्या क्षेमंकरी अस्ति या रेवत्याः माता अपि अस्ति। क्षुमन्तः शब्दस्य साम्यं क्षेमशब्देन सह अस्ति, अयं प्रस्तावः।


१.३०.१३-१५ रेवतीर्नः सधमादे इति

द्र. वारवन्तीयम् साम




मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.३०&oldid=401040" इत्यस्माद् प्रतिप्राप्तम्