सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.३५

विकिस्रोतः तः
← सूक्तं १.३४ ऋग्वेदः - मण्डल १
सूक्तं १.३५
हिरण्यस्तूप आङ्गिरसः।
सूक्तं १.३६ →
दे. १(पादानां क्रमेण) अग्निः, मित्रावरुणौ, रात्रिः, सविता च ), २-११ सविता। त्रिष्टुप् , १,९ जगती।


ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे ।
ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ॥१॥
आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥२॥
याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् ।
आ देवो याति सविता परावतोऽप विश्वा दुरिता बाधमानः ॥३॥
अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ।
आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥४॥
वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रउगं वहन्तः ।
शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥५॥
तिस्रो द्यावः सवितुर्द्वा उपस्थाँ एका यमस्य भुवने विराषाट् ।
आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् ॥६॥
वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः ।
क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान ॥७॥
अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् ।
हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि ॥८॥
हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते ।
अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥९॥
हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ् ।
अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥१०॥
ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे ।
तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥११॥

सायणभाष्यम्

'ह्वयाम्यग्निम् ' इत्येकादशर्चं पञ्चमं सूक्तम् । हिरण्यस्तूप ऋषिः । आद्या नवमी च जगतीच्छन्दस्के। शिष्टास्त्रिष्टुभः । कृत्स्नस्य सूक्तस्य सविता देवता । आद्यायाः ‘ह्वयाम्यग्निम्' इत्यस्या अग्निमित्रावरुणरात्रिसवित्राख्या लिङ्गोक्तदेवताः । तथा चानुक्रान्तं- ह्वयाम्येकादश सावित्रं नवमी जगत्याद्या च लिङ्गोक्तदैवतपादास्त्रयः' इति । अभिप्लवषडहस्य चतुर्थेऽहनि वैश्वदेवशस्त्रे इदं सूक्तं सावित्रं निविद्धानम् । ‘तृतीयस्य त्र्यर्यमा' इति खण्डे सूत्रितं - 'ह्वयाम्यग्निमस्य मे द्यावापृथिवी इति तिस्रः ' (आश्व. श्रौ. ७. ७ ) इति ॥


ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से ।

ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥१

ह्वया॑मि । अ॒ग्निम् । प्र॒थ॒मम् । स्व॒स्तये॑ । ह्वया॑मि । मि॒त्रावरु॑णौ । इ॒ह । अव॑से ।

ह्वया॑मि । रात्री॑म् । जग॑तः । नि॒ऽवेश॑नीम् । ह्वया॑मि । दे॒वम् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥१

ह्वयामि । अग्निम् । प्रथमम् । स्वस्तये । ह्वयामि । मित्रावरुणौ । इह । अवसे ।

ह्वयामि । रात्रीम् । जगतः । निऽवेशनीम् । ह्वयामि । देवम् । सवितारम् । ऊतये ॥१

“स्वस्तये अस्माकमविनाशाय । ‘स्वस्तीत्यविनाशनाम' (निरु. ३. २१) इति यास्कः । "प्रथमम् आदौ "अग्निं ह्वयामि । "इह अस्मिन् कर्मणि "अवसे अस्मद्रक्षणाय “मित्रावरुणौ “ह्वयामि । “जगतः जङ्गमस्य प्राणिजातस्य "निवेशनीम् उपवेशनहेतुभूतां "रात्रीं रात्रिदेवतां "ह्वयामि। जङ्गमाः सर्वे प्राणिनो दिवसे स्वस्वव्यापारान् कृत्वा स्वस्वगृहे रात्रौ उपविशन्तीति प्रसिद्धम् । “ऊतये अस्मद्रक्षणार्थं “सवितारं देवं ह्वयामि॥ मित्रावरुणौ। ‘देवताद्वन्द्वे च' इति पूर्वपदस्य आनङादेशः । देवताद्वन्द्वे च' इति उभयपदप्रकृतिस्वरत्वम् । रात्रीम् । ‘रात्रेश्चाजसौ ' (पा. सू. ४. १. ३१ ) इति ङीप् । निवेशनीम् । निविशन्त्यस्यामिति निवेशनी । “करणाधिकरणयोश्च ' इति ल्युट् । ‘टिड्ढाणञ्” ' (पा. सू. ४. १. १५) इत्यादिना ङीप् । ऊतये । अवतेः क्तिनि ज्वरत्वर' इत्यादिना वकारस्य उपधायाश्च ऊठ् । 'ऊतियूति ' इत्यादिना क्तिन उदात्तत्वम् ॥


आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।

हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥२

आ । कृ॒ष्णेन॑ । रज॑सा । वर्त॑मानः । नि॒ऽवे॒शय॑न् । अ॒मृत॑म् । मर्त्य॑म् । च॒ ।

हि॒र॒ण्यये॑न । स॒वि॒ता । रथे॑न । आ । दे॒वः । या॒ति॒ । भुव॑नानि । पश्य॑न् ॥२

आ । कृष्णेन । रजसा । वर्तमानः । निऽवेशयन् । अमृतम् । मर्त्यम् । च ।

हिरण्ययेन । सविता । रथेन । आ । देवः । याति । भुवनानि । पश्यन् ॥२

“सविता सूर्यः "कृष्णेन "रजसा कृष्णवर्णेन लोकेन। ‘कृष्णं कृष्यतेर्निकृष्टो वर्णः' (निरु. २.२०) इति यास्कः । ‘लोका रजांस्युच्यन्ते' ( निरु. ४. १९) इति च । अन्तरिक्षलोको हि सूर्यागमनात् पुरा कृष्णवर्णो भवति । तेनान्तरिक्षमार्गेण “आ “वर्तमानः पुनःपुनरागच्छन् "अमृतं देवं “मर्त्य मनुष्यं "च “निवेशयन् स्वस्वस्थानेऽवस्थापयन् । यद्वा । अमृतं मरणरहितं प्राणं मर्त्यं मरणसहितं शरीरं च निवेशयन् । तथा चारण्यकाण्डे 'अमर्त्यो मर्त्येना सयोनिः ' (ऋ.सं.१.१६४.३८) इत्येतस्य मन्त्रभागस्य व्याख्यानरूपे ब्राह्मणे यथोक्तोऽर्थोऽवगम्यते - मर्त्यानि हीमानि शरीराणि अमृतैषा देवता ' (ऐ. आ. २. १. ८) इति । यथोक्तगुणोपेतः सविता देवः "भुवनानि सर्वान् लोकान् "पश्यन् अवेक्षमाणः प्रकाशयन्नित्यर्थः । "हिरण्ययेन सुवर्णनिर्मितेन "रथेन "आ "याति अस्मत्समीपमागच्छति॥ अमृतम् । मृतं मरणं नास्ति अस्येति बहुव्रीहौ ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । मर्त्यम् । मर्ते भवम् । भवे छन्दसि' इति यत् । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । हिरण्ययेन । ऋत्व्यवास्त्व्य° । (पा. सू. ६. ४. १७५) इत्यादिना मयटो मकालोपो निपातितः । यस्येति लोपे प्रत्ययस्वरः । भुवनानि । “भू सत्तायाम्'। ' भूसुघूभ्रस्जिभ्यश्छन्दसि ' ( उ. सू. २. २३८) इति क्युन्प्रत्ययः । योरनादेशे उवङादेशः । नित्त्वादाद्युदात्तत्वम् ॥


याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् ।

आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥३

याति॑ । दे॒वः । प्र॒ऽवता॑ । याति॑ । उ॒त्ऽवता॑ । याति॑ । शु॒भ्राभ्या॑म् । य॒ज॒तः । हरि॑ऽभ्याम् ।

आ । दे॒वः । या॒ति॒ । स॒वि॒ता । प॒रा॒ऽवतः॑ । अप॑ । विश्वा॑ । दुः॒ऽइ॒ता । बाध॑मानः ॥३

याति । देवः । प्रऽवता । याति । उत्ऽवता । याति । शुभ्राभ्याम् । यजतः । हरिऽभ्याम् ।

आ । देवः । याति । सविता । पराऽवतः । अप । विश्वा । दुःऽइता । बाधमानः ॥३

“देवः दीप्यमानः सविता "प्रवता प्रवणवता मार्गेण "याति गच्छति। तथा “उद्वता उत्कृष्टेनोर्ध्वदेशयुक्तेन मार्गेण "याति । उदयानन्तरं मध्याह्नमूर्ध्वो मार्गः; तत उपरि आसायं प्रवणो मार्ग इति विवेकः । तथा "यजतः यष्टव्यः स देवः “शुभ्राभ्यां श्वेताभ्यां “हरिभ्याम् अश्वाभ्यां "याति देवयजनदेशे गच्छति । “सविता “देवः "विश्वा "दुरिता सर्वाणि पापानि “अप “बाधमानः विनाशयन् "परावतः दूरदेशात् । परावतः ' (नि. ३. २६. ५) इति दूरनामसु पठितत्वात् । तादृशात् द्युलोकात् “आ “याति यागदेशे आगच्छति ॥ प्रवता । • वन षण संभक्तौ । अस्मात् प्रपूर्वात् क्विप् । ‘गमादीनामिति वक्तव्यम्' (पा. सू. ६. ४. ४०. १) इत्यनुनासिकलोपः। ततः तुक् । कृदुत्तरपद प्रकृतिस्वरत्वम् । उद्वता । उत्पूर्वात् वनतेः पूर्ववत्प्रक्रिया । यजतः । भृमृदृशि' (उ. सू. ३. ३९०) इत्यादिना यजतेः कर्मणि अतच्प्रत्ययः । विश्वा दुरिता । उभयत्र ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः ॥


अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् ।

आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥४

अ॒भिऽवृ॑तम् । कृश॑नैः । वि॒श्वऽरू॑पम् । हिर॑ण्यऽशम्यम् । य॒ज॒तः । बृ॒हन्त॑म् ।

आ । अ॒स्था॒त् । रथ॑म् । स॒वि॒ता । चि॒त्रऽभा॑नुः । कृ॒ष्णा । रजां॑सि । तवि॑षीम् । दधा॑नः ॥४

अभिऽवृतम् । कृशनैः । विश्वऽरूपम् । हिरण्यऽशम्यम् । यजतः । बृहन्तम् ।

आ । अस्थात् । रथम् । सविता । चित्रऽभानुः । कृष्णा । रजांसि । तविषीम् । दधानः ॥४

"सविता “रथम् "आस्थात् आस्थितवान् आरूढवानित्यर्थः । कीदृशम् । "अभीवृतम् अभितो वर्तमानम् । तथा कृशनैर्विश्वरूपं सुवर्णेन नानारूपम् । ‘कृशनं लोहम् ' (नि.१.२.७) इति सुवर्णनामसु पाठात् । क्वचित् सुवर्णनिर्मितगजपङ्क्तिः क्वचिदश्वपङ्क्तिः क्वचिन्मनुष्यपङ्क्तिरित्येवं बहुरूपत्वम् । “हिरण्यशम्यम् । अश्वानां स्कन्धेषु रथयोजनवेलायां नियन्तुं प्रक्षेप्यमाणाः शङ्कवः शम्याः । ताः सुवर्णमय्यो रथे वर्तन्ते । "बृहतं प्रौढम् । कीदृशः सविता । "यजतः यष्टव्यः “चित्रभानुः विविधरश्मियुक्तः “कृष्णा "रजांसि अन्धकारयुक्ततया कृष्णवर्णान् लोकानुद्दिश्य तमोनिवारणार्थं “तविषीं बलं स्वकीयं प्रकाशरूपं "दधानः ॥ अभीवृतम् । अभितो वर्तते इत्यभीवृत्। ‘ वृतु वर्तने । क्विपि ‘ नहिवृति° । (पा. सू. ६. ३. ११६ ) इत्यादिना पूर्वपदस्य दीर्घत्वम् । विश्वरूपम् । विश्वानि रूपाणि यस्यासौ विश्वरूपः । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति व्यत्ययेन असंज्ञायामपि पूर्वपदान्तोदात्तत्वम् । हिरण्यशम्यम् । हर्य गतिकान्त्योः । ‘ हर्यतेः कन्यन् हिर च ' ( उ. सू. ५. ७२२) इति कन्यन्प्रत्ययो धातोर्हिरादेशश्च । नित्त्वादाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। आस्थात्। तिष्ठतेर्लुङि • गातिस्था° ' इति सिचो लुक् । कृष्णा ।' कृषेर्वर्णे ' ( उ. सू. ३. २८४ ) इति नक्प्रत्ययः ।। ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । तविषीम् । तवतिः सौत्रो धातुः । ‘ तवतेर्णिद्वा' ( उ. सू. १. ४८ ) इति टिषच् । टित्त्वात् ‘ टिड्ढाणञ्' इत्यादिना ङीप् । व्यत्येन आद्युदात्तत्वं वृषादित्वात् द्रष्टव्यम् । दधानः । शानृचि ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥


वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः ।

शश्व॒द्विश॑ः सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥५

वि । जना॑न् । श्या॒वाः । शि॒ति॒ऽपादः॑ । अ॒ख्य॒न् । रथ॑म् । हिर॑ण्यऽप्रउग॒म् । वह॑न्तः ।

शश्व॑त् । विशः॑ । स॒वि॒तुः । दैव्य॑स्य । उ॒पऽस्थे॑ । विश्वा॑ । भुव॑नानि । त॒स्थुः॒ ॥५

वि । जनान् । श्यावाः । शितिऽपादः । अख्यन् । रथम् । हिरण्यऽप्रउगम् । वहन्तः ।

शश्वत् । विशः । सवितुः । दैव्यस्य । उपऽस्थे । विश्वा । भुवनानि । तस्थुः ॥५

“श्यावाः एतन्नामकाः सूर्यस्याश्वाः । श्यावाः सवितुः ' (नि. १. १५. ८) इति निघण्टावुक्तत्वात् । ते च शितिपादः श्वेतैः पादैरुपेताः “हिरण्यप्रउगम् । रथस्य मुखम् ईषयोरग्रं युगबन्धनस्थानं प्रउगमित्युच्यते । तच्चात्र सुवर्णमयम् । तद्युक्तं "रथं "वहन्तः “जनान् प्राणिनः “वि “अख्यन् विशेषेण प्रकाशितवन्त इत्यर्थः । “शश्वत् सर्वदा “विशः प्रजाः "दैव्यस्य इतरदेवसंबन्धिनः "सवितुः प्रेरकस्य सूर्यस्य “उपस्थे समीपस्थाने “तस्थुः स्थितवत्यः । न केवलं प्रजाः किं तर्हि "विश्वा "भुवनानि सर्वे च लोकाः प्रकाशाय सूर्यसमीपे तस्थुः॥ शितिपादः । शितयः श्वेतवर्णाः पादा येषां ते शितिपादाः । ‘सुपां सुलुक्' इति जसः सुआदेशः । यद्वा । शितिः श्वेतवर्णाः स्फाटिकादिः । स इव पादो येषां ते । ‘पादस्य लोपोऽहस्त्यादिभ्यः' (पा. सू. ५. ४. १३८) इति समासान्तपादशब्दस्यान्त्यलोपः । उपमानात् इति हि तत्रानुवर्तते । पादशब्दस्य वृषादित्वादाद्युदात्तत्वम् । तस्य बहुव्रीहौ समासे • शितेर्नित्याबह्वज्बहुव्रीहावभसत्' (पा. सू. ६, २. १३८ ) इत्युत्तरपदप्रकृतिस्वरत्वम् । अख्यन् । ख्यातेर्लुङि ‘अस्यतिवक्ति ' इत्यादिना च्लेः अङादेशः । हिरण्यप्रउगम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। वहन्तः। शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः । दैव्यस्य । तस्येदमित्यर्थे ' देवाद्यञञौ ' (पा. सू. ४. १.८५.३) इति देवशब्दात् प्राग्दीव्यतीयो यञ् । तद्धितेष्वचामादेः' (पा.सू. ७.२.११७) इति आदिवृद्धिः । ‘ ञ्नित्यादिर्नित्यम् ' इत्याद्युदात्तत्वम् । उपस्थे । ‘ आतश्चोपसर्गे' इति कः । ‘ आतो लोप इटि च' इति आकारलोपः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥


ति॒स्रो द्याव॑ः सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।

आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥६

ति॒स्रः । द्यावः॑ । स॒वि॒तुः । द्वौ । उ॒पऽस्था॑ । एका॑ । य॒मस्य॑ । भुव॑ने । वि॒रा॒षाट् ।

आ॒णिम् । न । रथ्य॑म् । अ॒मृता॑ । अधि॑ । त॒स्थुः॒ । इ॒ह । ब्र॒वी॒तु॒ । यः । ऊं॒ इति॑ । तत् । चिके॑तत् ॥६

तिस्रः । द्यावः । सवितुः । द्वौ । उपऽस्था । एका । यमस्य । भुवने । विराषाट् ।

आणिम् । न । रथ्यम् । अमृता । अधि । तस्थुः । इह । ब्रवीतु । यः । ऊं इति । तत् । चिकेतत् ॥६

"द्यावः स्वर्गोपलक्षिताः प्रकाशमाना लोकाः "तिस्रः त्रिसंख्याकाः सन्ति । तत्र "द्वौ लोकौ “सवितुः सूर्यस्य “उपस्था समीपस्थाने वर्तेते; द्युलोकभूलोकयोः सूर्येण प्रकाशितत्वात् । “एका मध्यमा भूमिरन्तरिक्षलोकः "यमस्य "भुवने पितृपतेर्गृहे "विराषाट् विरान् गन्तॄन् सहते । प्रेताः पुरुषा अन्तरिक्षमार्गेण यमलोके गच्छन्तीत्यर्थः । "अमृता अमृतानि चन्द्रनक्षत्रादीनि ज्योतींषि जलानि वा "अधि “तस्थुः सवितारमधिगम्य स्थितानि । तत्र दृष्टान्तः। “रथ्यम् "आणिं "न। रथाद्बहिः अक्षच्छिद्रे प्रक्षिप्तः कीलविशेषः आणिरित्युच्यते । रथसंबन्धिनम् अणिम् अधिगम्य यथा रथस्तिष्ठति तद्वत् "यः तु मानवः "तत् सवितृरूपं "चिकेतत् जानाति स मानवः “इह अस्मिन् विषये "ब्रवीतु कथयतु । केनापि वक्तुमशक्यः सवितुर्महिमेत्यर्थः ॥ तिस्रः । ‘ तिसृभ्यो जसः ' (पा. सू. ६. १. १६६ ) इति विभक्तेरुदात्तत्वम् । द्वौ । संहितायामावादेशे ‘लोपः शाकल्यस्य ' इति वकारलोपः । उपस्था । आङयाजयारां चोपसंख्यानम् ' (पा. म. ७. १.३९. १) इति सप्तम्या आङादेशः। “आङोऽनुनासिकश्छन्दसि' (पा. सू. ६. १. १२६ ) इति प्रकृतिभावः । विराषाट् । ‘वृञ् वरणे'।' घञर्थे कविधानम् । (पा. सू. ३. ३. ५८. ४ ) इति कर्मणि कः । ‘ बहुलं छन्दसि ( पा. सू. ७. १. १०३ ) इति इत्वम् । तथा सति वूर्यन्ते इति विरा इत्युक्तं भवति । तान् सहते इति विराषाट् । 'छन्दसि सहः ' (पा. सू. ३. २. ६३ ) इति सहेर्ण्विः । ‘ सहेः साडः ' ( पा. सू. ८. ३. ५६ ) इति षत्वम् । ‘ अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घः । रथ्यम् । रथस्येदं रथ्यम् । रथाद्यत् ( पा. सू. ४.३. १२१ ) इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । अमृता । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । चिकेतत् । कित ज्ञाने'। लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः । जुहोत्यादित्वात् श्लुः । लघूपधगुणः । ‘ अनुदात्ते च ' ( पा. सू. ६. १. १९०) इति अभ्यस्तस्याद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ ॥ ६ ॥

. वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।

क्वे॒३॒॑दानीं॒ सूर्य॒ः कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥७

वि । सु॒ऽप॒र्णः । अ॒न्तरि॑क्षाणि । अ॒ख्य॒त् । ग॒भी॒रऽवे॑पाः । असु॑रः । सु॒ऽनी॒थः ।

क्व॑ । इ॒दानी॑म् । सूर्यः॑ । कः । चि॒के॒त॒ । क॒त॒माम् । द्याम् । र॒श्मिः । अ॒स्य॒ । आ । त॒ता॒न॒ ॥७

वि । सुऽपर्णः । अन्तरिक्षाणि । अख्यत् । गभीरऽवेपाः । असुरः । सुऽनीथः ।

क्व । इदानीम् । सूर्यः । कः । चिकेत । कतमाम् । द्याम् । रश्मिः । अस्य । आ । ततान ॥७

"सुपर्णः शोभनपतनः सूर्यस्य रश्मिः । ‘सुपर्णा' इति पञ्चदश रश्मिनामानि' (नि. १. ५. १५) इति तन्नामसु पठितत्वात् । "अन्तरिक्षाणि अन्तरिक्षोपलक्षितानि लोकत्रयस्थानानि “वि “अख्यत् विशेषेण ख्यापितवान् प्रकाशितवान् । कीदृशो रश्मिः । "गभीरवेपाः गम्भीरकम्पनः । रश्मेः प्रकम्पनं चलने केनापि द्रष्टुमशक्यमित्यर्थः । "असुरः सर्वेषां प्राणदः । तथा चान्यत्र आम्नायते -- सर्वेषां भूतानां प्राणानादायोदेति' (तै. आ. १.१४.१ ) इति । "सुनीथः सुनयनः शोभनप्रापणः। मार्गप्रकाशनेन अभीष्टदेशं प्रापयतीत्यर्थः । तादृशरश्मियुक्तः "सूर्यः "इदानीं रात्रौ “क्व कुत्र वर्तते । तदेतद्रहस्यं "कश्चिकेत को जानाति । न कोऽपीत्यर्थः । "अस्य सूर्यस्य "रश्मिः "कतमां "द्याम् "आ “ततान कं द्युलोकं रात्रौ व्याप्तवान् । एतदपि को जानाति ॥ सुपर्णः । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । गभीरवेपाः ।। ‘टुवेपृ कम्पने' । असुन् । गभीरं वेपो यस्य। पूर्वपदप्रकृतिस्वरत्वम् । असुरः । असु क्षेपणे ' । अस्यति शत्रून् इत्यसुरः । ‘ असेरुरन् ' ( उ. सू. १. ४२ )। नित्त्वादाद्युदात्तत्वम् । यद्वा । असून् प्राणान् राति ददातीत्यसुरः । ‘ आतोऽनुपसर्गे कः' इति कप्रत्ययः । सुनीथः । ‘णीञ् प्रापणे '। हनिकुषिनीरमिकाशिभ्यः क्थन् ' ( उ. सू. २. १५९ ) इति क्थन् । प्रादिसमासे थाथादिना उत्तरपदान्तोदात्तत्वम् । इदानीम् । इदंशब्दात् सप्तम्यर्थे ‘दानीं च' (पा. सू. ५. ३. १८) इति दानींप्रत्ययः । ‘ इदम इश्' इति इदंशब्दस्य इशादेशः । प्रत्ययाद्युदात्तत्वम् । सूर्यः । ‘ षू प्रेरणे ' । सुवतीति सूर्यः । ‘ राजसूयसूर्य ' इत्यादिना रुडागमसहितः क्यप्प्रत्ययो निपातितः । प्रत्ययस्यानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । चिकेत । कित ज्ञाने'। लिट्। कतमां किंजातीयाम् । ‘वा बहूनां जातिपरिप्रश्ने डतमच्' (पा. सू. ५. ३. ९३ ) इति किंशब्दात् डतमच् । डित्त्वात् टिलोपः । ‘ चितः' इत्यन्तोदात्तत्वम् ॥


अ॒ष्टौ व्य॑ख्यत्क॒कुभ॑ः पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।

हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥८

अ॒ष्टौ । वि । अ॒ख्य॒त् । क॒कुभः॑ । पृ॒थि॒व्याः । त्री । धन्व॑ । योज॑ना । स॒प्त । सिन्धू॑न् ।

हि॒र॒ण्य॒ऽअ॒क्षः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् । दध॑त् । रत्ना॑ । दा॒शुषे॑ । वार्या॑णि ॥८

अष्टौ । वि । अख्यत् । ककुभः । पृथिव्याः । त्री । धन्व । योजना । सप्त । सिन्धून् ।

हिरण्यऽअक्षः । सविता । देवः । आ । अगात् । दधत् । रत्ना । दाशुषे । वार्याणि ॥८

“पृथिव्याः संबन्धिनीः "अष्टौ "ककुभः प्राच्याद्याश्चतस्रो दिश आग्नेय्याद्याश्चतस्रो विदिश इत्येवमष्टौ दिशः “व्यख्यत् सविता प्रकाशितवान् । तथा "योजना प्राणिनः स्वस्वभोगेन' योजयितॄन् “धन्व अन्तरिक्षोपलक्षितान् “त्री त्रिसंख्याकान् पृथिव्यादिलोकान् "सप्त "सिन्धून् गङ्गादिनदीः समुद्रान्वा सविता व्यख्यत् । “हिरण्याक्षः । हितरमणीयचक्षुर्युक्तो हिरण्यमयाक्षो वा "सविता “देवः “आगात् इहागच्छतु । किं कुर्वन् । "दाशुषे हविर्दत्तवते यजमानाय “वार्याणि वरणीयानि रत्नानि “दधत् प्रयच्छन् । अख्यत् । ख्यातेर्लुङि ‘अस्यतिवक्ति' इत्यादिना च्लेः अङादेशः। त्री। ‘शेश्छन्दसि बहुलम् इति शेर्लोपः । धन्व।' रिवि रवि धवि गत्यर्थाः । इदितो नुम् धातोः' इति नुम् । अस्मात् ‘ कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः' इति कनिन् । 'सुपां सुलुक्' इति विभक्तेर्लुक् । नलोपः । प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । योजना। योजयन्ति प्राणिन उपभोगेनेति योजनानि । नन्द्यादिलक्षणो ल्युः । ' णेरनिटि ' इति णिलोपः । पूर्ववत् शेर्लोपः । हिरण्याक्षः । हिरण्यमयान्यक्षीणि यस्यासौ हिरण्याक्षः । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः०' ( पा. सू. ५. ४. ११३ ) इति समासान्तः षच्प्रत्ययः । अगात् । एतेर्लुङि ‘इणो गा लुङि' (पा. सू. २. ४. ४५) इति गादेशः । ‘ गातिस्था' इति सिचो लुक् । दधत् । शतरि ‘नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । ‘ आभ्यस्तयोरातः' इति आकारलोपः। ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । दाशुषे । ‘ दाश्वान्साह्वान् ' इत्यादिना क्वसुप्रत्ययान्तो निपातितः । चतुर्थ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । परपूर्वत्वम् । शासिवसिघसीनां च ' इति षत्वम् । वार्याणि ।' वृङ् संभक्तौ ' । ऋहलोर्ण्यत् । ईडवन्द° । इत्यादिनाद्युदात्तत्वम् ॥


हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।

अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥९

हिर॑ण्यऽपाणिः । स॒वि॒ता । विऽच॑र्षणिः । उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तः । ई॒य॒ते॒ ।

अप॑ । अमी॑वाम् । बाध॑ते । वेति॑ । सूर्य॑म् । अ॒भि । कृ॒ष्णेन॑ । रज॑सा । द्याम् । ऋ॒णो॒ति॒ ॥९

हिरण्यऽपाणिः । सविता । विऽचर्षणिः । उभे इति । द्यावापृथिवी इति । अन्तः । ईयते ।

अप । अमीवाम् । बाधते । वेति । सूर्यम् । अभि । कृष्णेन । रजसा । द्याम् । ऋणोति ॥९

“हिरण्यपाणिः सुवर्णमयहस्तयुक्तः । यद्वा । यजमानेभ्यो दातुं हिरण्यं हस्ते धृतवान् । विचर्षणिः विविधदर्शनयुक्तः । विचर्षणिः पश्यत्यर्थः। विचर्षणिः विश्वचर्षणिः' (नि. ३. ११. ६) इति तन्नामसु पाठात् । "सविता देवः "उभे "द्यावापृथिवी “अन्तः उभयोर्लोकयोर्मध्ये “ईयते गच्छति । "अमीषां रोगादिबाधाम् “अप “बाधते सम्यक् निराकरोति । तथा "सूर्यं "वेति गच्छति । यद्यपि सवितृसूर्ययोरेकदेवतात्वं तथापि मूर्तिभेदेन गन्तृगन्तव्यभावः । "कृष्णेन तमसः कर्षकेण निवर्तकेन "रजसा तेजसा “द्याम् आकाशम् 'अभि “ऋणोति सर्वतो व्याप्नोति ॥ द्यावापृथिवी । ‘ दिवसश्च पृथिव्याम् ' ( पा. सू. ६. ३. ३०) इति चशब्दात् दिव्शब्दस्य द्यावादेशः । ‘ देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम्। ‘ नोत्तरपदेऽनुदात्तादौ ' (पा. सू. ६. २. १४२ ) इति न निषेधः, ‘ °अपृथिवीरुद्रपूषमन्थिषु' इति पर्युदस्तत्वात् । ईयते । ‘ ईङ् गतौ । तिङ्ङतिङः' इति निघातः । बाधते । बाधते च वेति चेति समुच्चयार्थप्रतीतेः चशब्दस्याप्रयोगात् ‘चादिलोपे विभाषा ' इति निघातप्रतिषेधः । वेति।' वी गतिप्रजनकान्त्यशनखादनेषु । अदादित्वात् शपो लुक् । तिपः पित्त्वानुदात्तत्वे धातुस्वरः । यद्यप्येषा द्वितीया तथापि तिङः परत्वात् निघाताभावः । ऋणोति । ‘ऋणु गतौ ' । तनादित्वात् उः । तनादिषु करोतेरेव गुणो नान्येषामिति आपिशलिमतेन गुणाभावः ॥ .


हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।

अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥१०

हिर॑ण्यऽहस्तः । असु॑रः । सु॒ऽनी॒थः । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् ।

अ॒प॒ऽसेध॑न् । र॒क्षसः॑ । या॒तु॒ऽधाना॑न् । अस्था॑त् । दे॒वः । प्र॒ति॒ऽदो॒षम् । गृ॒णा॒नः ॥१०

हिरण्यऽहस्तः । असुरः । सुऽनीथः । सुऽमृळीकः । स्वऽवान् । यातु । अर्वाङ् ।

अपऽसेधन् । रक्षसः । यातुऽधानान् । अस्थात् । देवः । प्रतिऽदोषम् । गृणानः ॥१०

“हिरण्यहस्तः "असुरः प्राणदाता “सुनीथः सुष्ठु नेता प्रशस्य इत्यर्थः । ‘सुनीथः पाकः' ( नि. ३. ८.७) इति प्रशस्यनामसु पाठात् । सुमृळीकः सुष्ठु सुखयिता "स्ववान् धनवान् "अर्वाङ् अभिमुख: कर्मदेशे गच्छतु । किंचायं “देवः “प्रतिदोषं प्रतिरात्रि “गृणानः स्तूयमानः “अस्थात् स्थितवान् । किं कुर्वन् । “रक्षसः बाधकत्वेन रक्षणनिमित्तभूतान् ‘ रक्षो रक्षितव्यमस्मात् ' ( निरु. ४. १८) इति यास्कः। “यातुधानान् असुरान् “अपसेधन् निराकुर्वन् । हिरण्यहस्तादयो गताः । सुमृळीकः। सुष्ठु मृळीकं सुखं यस्यासौ तथोक्तः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । स्ववान्। स्वम् अस्यास्तीति स्ववान् । ‘ मादुपधायाः०' इति वत्वम् । संहितायां नकारस्य दीर्घादटि समानपादे' इति रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः । रोर्यत्वम्। यलोपश्च। अपसेधन् । “षिधु गत्याम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण कृदुत्तरपदप्रकृतिस्वरत्वम् । रक्षसः । ‘ रक्ष पालने ' इत्यस्मात् अपादाने औणादिकः असिप्रत्ययः । यद्वा । रक्षन्त्यनेनेति रक्षो बलम् । करणेऽसुन् । तदेषामस्तीति रक्षस्विनः । मत्वर्थप्रत्ययलोपश्छान्दसः । प्रत्ययस्वरः । यातुधानान् । ‘ यत निकारोपसंस्कारयोः । तस्मात् ण्यन्तात् औणादिको भावे उप्रत्ययः। यातवो यातना एषु धीयन्ते इति यातुधानाः । अधिकरणे ल्युट् । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । अस्थात् । “गातिस्था' इति सिचो लुक् । प्रतिदोषम् । दोषांदोषाम् । प्रति वीप्सालक्षणे यथार्थे । अव्ययीभावः । गृणानः । गॄ शब्दे । कर्मणि लटः शानच् । व्यत्ययेन श्ना। ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । ‘ चितः' इत्यन्तोदात्तत्वम् ॥ ये ते॒ पन्था॑ः सवितः पू॒र्व्यासो॑ऽरे॒णव॒ः सुकृ॑ता अ॒न्तरि॑क्षे ।

तेभि॑र्नो अ॒द्य प॒थिभि॑ः सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥११

ये । ते॒ । पन्थाः॑ । स॒वि॒त॒रिति॑ । पू॒र्व्यासः॑ । अ॒रे॒णवः॑ । सुऽकृ॑ताः । अ॒न्तरि॑क्षे ।

तेभिः॑ । नः॒ । अ॒द्य । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । रक्ष॑ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ ॥११

ये । ते । पन्थाः । सवितरिति । पूर्व्यासः । अरेणवः । सुऽकृताः । अन्तरिक्षे ।

तेभिः । नः । अद्य । पथिऽभिः । सुऽगेभिः । रक्ष । च । नः । अधि । च । ब्रूहि । देव ॥११

हे सवितः “ते तव “पन्थाः मार्गाः “पूर्व्यासः पूर्वसिद्धाः "अरेणवः धूलिरहिताः “अन्तरिक्षे “सुकृताः सुष्ठु संपादिताः । “सुगेभिः सुष्ठु गन्तुं शक्यैः “तेभिः “पथिभिः तैर्मार्गैरागत्य “अद्य अस्मिन् दिने "नः अस्मान् “रक्ष “च पालनमपि कुरु। तथा हे “देव "नः अस्मान् अनुष्ठातॄन् “अधि ”ब्रूहि “च देवानामग्रेऽधिकत्वेन कथय च ॥ पन्थाः । ‘ सुपां सुलुक्° ' इति जसः सुः । “पथिमथोः सर्वनामस्थाने ' इत्याद्युदात्तत्वम् । पूर्व्यासः । पूर्वैः कृताः पूर्व्यः । पूर्वैः कृतमिनियौ च' (पा. सू. ४. ४. १३३ ) इति यः । प्रत्ययस्वरः । असुगागमः । अरेणवः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सुकृताः । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सुगेभिः । सुष्ठु गच्छन्त्येष्विति सुगाः । ‘ सुदुरोरधिकरणे' (पा. सू. ३. २. ४८.३) इति गमेर्डप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रक्ष ।' द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः ॥ ॥ ७ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१











"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.३५&oldid=362850" इत्यस्माद् प्रतिप्राप्तम्