सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.५७

विकिस्रोतः तः
← सूक्तं १.५६ ऋग्वेदः - मण्डल १
सूक्तं १.५७
सव्य आङ्गिरसः
सूक्तं १.५८ →
दे. इन्द्रः। जगती।

प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे ।
अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥१॥
अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः ।
यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥२॥
अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे ।
यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥३॥
इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो ।
नहि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥४॥
भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण ।
अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥५॥
त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन्पर्वशश्चकर्तिथ ।
अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥६॥


सायणभाष्यम्

'प्र मंहिष्ठाय ' इति षड़ृचं सप्तमं सूक्तं सव्यस्यार्षमैन्द्रं जागतम् । तथा चानुक्रान्तं - ‘ प्र मंहिष्ठाय' इति । विषुवति निष्केवल्ये इदं सूक्तं शंसनीयम् । सूत्रितं च – 'प्र मंहिष्ठाय त्यमू ष्वितीह तार्क्ष्यमन्ततः' ( आश्व. श्रौ. ८. ६) इति । उक्थ्यसंस्थे क्रतौ तृतीयसवने ब्राह्मणाच्छंसिशस्त्रेऽपि एतत्सूक्तम् । सूत्रितं -- सर्वाः ककुभः प्र मंहिष्ठायोदप्रुतः ' ( आश्व. श्रौ. ६. १) इति ॥


प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे ।

अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ॥१

प्र । मंहि॑ष्ठाय । बृ॒ह॒ते । बृ॒हत्ऽर॑ये । स॒त्यऽशु॑ष्माय । त॒वसे॑ । म॒तिम् । भ॒रे॒ ।

अ॒पाम्ऽइ॑व । प्र॒व॒णे । यस्य॑ । दुः॒ऽधर॑म् । राधः॑ । वि॒श्वऽआ॑यु । शव॑से । अप॑ऽवृतम् ॥१

प्र । मंहिष्ठाय । बृहते । बृहत्ऽरये । सत्यऽशुष्माय । तवसे । मतिम् । भरे ।

अपाम्ऽइव । प्रवणे । यस्य । दुःऽधरम् । राधः । विश्वऽआयु । शवसे । अपऽवृतम् ॥१

“मंहिष्ठाय । मंहतिर्दानकर्मेति यास्कः (निरु. १.७) । दातृतमाय "बृहते गुणैर्महते “बृहद्रये महाधनाय "सत्यशुष्माय अवितथबलाय तवसे आकारतः प्रवृद्धाय एवंगुणविशिष्टायेन्द्राय “मतिं मननीयां स्तुतिं "प्र "भरे प्रकर्षेण संपादयामि। "यस्य इन्द्रस्य बलं "दुर्धरम् अन्यैर्धर्तुमशक्यम् । तत्र दृष्टान्तः । “प्रवणे निम्नप्रदेशे “अपामिव । यथा जलानां वेगः केनाप्यवस्थापयितुं न शक्यते तद्वत् । तथा "राधः धनं "विश्वायु सर्वेषु व्याप्तं "शवसे स्तोतॄणां बलाय येनेन्द्रेण "अपावृतं अपगतावरणं क्रियते, तस्येन्द्रस्येति पूर्वेण संबन्धः ॥ मंहिष्ठाय । अतिशयेन मंहिता मंहिष्ठः। ‘तुश्छन्दसि ' इति इष्ठन्प्रत्ययः । तुरिष्ठेमेयःसु' इति तृलोपः । बृहते। बृहन्महतोरुपसंख्यानम् ' इति विभक्तेरुदात्तत्वम् । उत्तरयोर्बहुव्रीहिस्वरः । मतिम् । मन्त्रे वृष°' इत्यादिना क्तिन् उदात्तत्वम्। 'अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। दुर्धरम् । ‘धृञ् धारणे'। 'ईषद्दुःसुषु' इति कर्मणि खल् । विश्वायु । विश्वस्मिन् सर्वस्मिन् आयु गमनं यस्य तत् विश्वायु । एतेः ‘छन्दसीणः' (उ. सू. १. २) इति उण्प्रत्ययः । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । अपावृतम् । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥


अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः ।

यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्र॒ः श्नथि॑ता हिर॒ण्यय॑ः ॥२

अध॑ । ते॒ । विश्व॑म् । अनु॑ । ह॒ । अ॒स॒त् । इ॒ष्टये॑ । आपः॑ । नि॒म्नाऽइ॑व । सव॑ना । ह॒विष्म॑तः ।

यत् । पर्व॑ते । न । स॒म्ऽअशी॑त । ह॒र्य॒तः । इन्द्र॑स्य । वज्रः॑ । श्नथि॑ता । हि॒र॒ण्ययः॑ ॥२

अध । ते । विश्वम् । अनु । ह । असत् । इष्टये । आपः । निम्नाऽइव । सवना । हविष्मतः ।

यत् । पर्वते । न । सम्ऽअशीत । हर्यतः । इन्द्रस्य । वज्रः । श्नथिता । हिरण्ययः ॥२

“अध “ह अनन्तरमेव हे इन्द्र "विश्वं सर्वमिदं जगत् "ते तव संबन्धिने "इष्टये यागाय "अनु “असत् अन्वभवत् । यद्वा । इष्टये हविरादिभिस्तव प्राप्तये इति योज्यम्। "हविष्मतः यजमानस्य "सवना सवनानि यज्ञजातानि “निम्नेव निम्नानि भूस्थलानि “आपः इव त्वां संभजन्ते इति शेषः । "हर्यतः शत्रुवधं प्रेप्सतः "इन्द्रस्य । हर्यतिः प्रेप्साकर्मा ' (निरु. ७. १७) इति यास्कः । यद्वा । हर्यतः शोभनः । "हिरण्ययः हिरण्मयः “श्नथिता शत्रूणां हिंसनशीलः "वज्रः "पर्वते पर्ववति शिलोच्चये वृत्रे वा "यत् यदा “न “समशीत संसुप्तो नाभवत् । किंतु जागरितः सन्नवधीदित्यर्थः । यदेन्द्रेण प्रेरितो वज्रः अप्रतिहतः सन् वृत्रमवधीत्तदाप्रभृत्येव तं यष्टुं सर्वे यजमानाः प्रावर्तिषतेति भावः ॥ अध । छान्दसं धस्वम् । असत् । अस्तेर्लङि ' बहुलं छन्दसि ' इति शपो लुगभावः । इष्टये। यजतेर्भावे क्तिनि 'व्रचिस्वपि 'इत्यादिना संप्रसारणम् । व्रश्चादिना षत्वम्। व्यत्ययेनान्तोदात्तत्वम् । यद्वा । इष गतौ इत्यस्मात् भावे क्तिनि ' मन्त्रे वृषेष ' इति तस्योदात्तत्वम् । निम्नेव सवना। ‘ शेश्छन्दसि । इति शेर्लोपः । समशीत । ‘शीङ् स्वप्ने' । लङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘शीङः सार्वधातुके° '(पा. सू. ७, ४, २१) इति गुणाभावः । हर्यतः । हर्य गतिकान्त्योः । भृमृदृशि°' इत्यादिना अतच्प्रत्ययः । श्नथिता । श्नथ क्नथ क्रथ हिंसार्थाः । ताच्छीलिकः तृन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ।।


अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे ।

यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥३

अ॒स्मै । भी॒माय॑ । नम॑सा । सम् । अ॒ध्व॒रे । उषः॑ । न । शु॒भ्रे॒ । आ । भ॒र॒ । पनी॑यसे ।

यस्य॑ । धाम॑ । श्रव॑से । नाम॑ । इ॒न्द्रि॒यम् । ज्योतिः॑ । अका॑रि । ह॒रितः॑ । न । अय॑से ॥३

अस्मै । भीमाय । नमसा । सम् । अध्वरे । उषः । न । शुभ्रे । आ । भर । पनीयसे ।

यस्य । धाम । श्रवसे । नाम । इन्द्रियम् । ज्योतिः । अकारि । हरितः । न । अयसे ॥३

हे "उषः उषोदेवते "शुभ्रे शोभने त्वं "भीमाय शत्रूणां भयंकराय "पनीयसे अतिशयेन स्तोतव्याय "अस्मै इन्द्राय "अध्वरे हिंसारहितेऽस्मिन्यागे । "न इति संप्रत्यर्थे । तथा च यास्कः - ‘ अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोग इहेव निधेहि ' (निरु. ७. ३१) इति । संप्रतीदानीं "नमसा नमो हविर्लक्षणमन्नं "सम् "आ “भर सम्यक् संपादय । “धाम सर्वस्य धारकं "नाम स्तोतृषु नमनशीलं प्रसिद्धं वा "इन्द्रियम् इन्द्रत्वस्य परमैश्वर्यस्य लिङ्गं यस्य इन्द्रस्य एवंविधं "ज्योतिः “श्रवसे अन्नाय हविर्लक्षणान्नलाभार्थम् "अयसे इतस्ततो गमनाय "अकारि क्रियते । "हरितो "न । यथाश्वान्सादिनः स्वाभिलषितदेशं गमयन्ति तद्वदिन्द्रोऽपि स्वाभिमतहविर्लाभाय स्वकीयं तेजो गमयतीति भावः ॥ उषः । पादादित्वात् निघाताभावः । शुभ्रे । 'शुभ दीप्तौ'। स्फायितञ्चि° ' इत्यादिना रक् । भर ।' हृग्रहोर्भः' इति भत्वम् ।' द्व्यचोऽतस्तिङः' इति दीर्घः । पनीयसे । पनतेः स्तुत्यर्थात् बहुलवचनात् कर्मणि असुन् । तस्मात् आतिशायनिके ईयसुनि ‘टे: ' इति टिलोपः । अकारि । 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने कर्मणि लुङ् । यद्वृत्तयोगादनिघातः । अडागम उदात्तः । अयसे ।' अय गतौ' इत्यस्मात् भावे असुन् ॥


इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।

न॒हि त्वद॒न्यो गि॑र्वणो॒ गिर॒ः सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वच॑ः ॥४

इ॒मे । ते॒ । इ॒न्द्र॒ । ते । व॒यम् । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । आ॒ऽरभ्य॑ । चरा॑मसि । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।

न॒हि । त्वत् । अ॒न्यः । गि॒र्व॒णः॒ । गिरः॑ । सघ॑त् । क्षो॒णीःऽइ॑व । प्रति॑ । नः॒ । ह॒र्य॒ । तत् । वचः॑ ॥४

इमे । ते । इन्द्र । ते । वयम् । पुरुऽस्तुत । ये । त्वा । आऽरभ्य । चरामसि । प्रभुवसो इति प्रभुऽवसो ।

नहि । त्वत् । अन्यः । गिर्वणः । गिरः । सघत् । क्षोणीःऽइव । प्रति । नः । हर्य । तत् । वचः ॥४

हे "इन्द्र "प्रभूवसो प्रभूतधन अत एव "पुरुष्टुत पुरुभिर्बहुभिर्यजमानैः स्तुत "ये च वयं “त्वा त्वाम् "आरभ्य आश्रयतयावलम्ब्य "चरामसि चरामो यागे वर्तामहे "ते "इमे "वयं "ते तव स्वभूताः। हे "गिर्वणः गीर्भिर्वननीयेन्द्र “त्वदन्यः त्वत्तोऽन्यः कश्चिदपि "गिरः स्तुतीः "नहि "सघत् न हि प्राप्नोति । अतस्त्वं "नः अस्माकं "तत् स्तुतिलक्षणं "वचः “प्रति "हर्य कामयस्व । "क्षोणीरिव । यथा क्षोणी पृथिवी स्वकीयानि भूतजातानि कामयते ॥ चरामसि । इदन्तो मसिः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । सघत् । 'षघ हिंसायाम् । अत्र प्राप्त्यर्थो धातूनामनेकार्थत्वात् । लेटि अडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक्। पादादित्वात् निघाताभावः । क्षोणीरिव । हल्ङ्याब्भ्यः' इति सुलोपाभावश्छान्दसः ॥


भूरि॑ त इन्द्र वी॒र्यं१॒॑ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण ।

अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥५

भूरि॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । तव॑ । स्म॒सि॒ । अ॒स्य । स्तो॒तुः । म॒घ॒ऽव॒न् । काम॑म् । आ । पृ॒ण॒ ।

अनु॑ । ते॒ । द्यौः । बृ॒ह॒ती । वी॒र्य॑म् । म॒मे॒ । इ॒यम् । च॒ । ते॒ । पृ॒थि॒वी । ने॒मे॒ । ओज॑से ॥५

भूरि । ते । इन्द्र । वीर्यम् । तव । स्मसि । अस्य । स्तोतुः । मघऽवन् । कामम् । आ । पृण ।

अनु । ते । द्यौः । बृहती । वीर्यम् । ममे । इयम् । च । ते । पृथिवी । नेमे । ओजसे ॥५

हे “इन्द्र "ते तव "वीर्यं सामर्थ्यं "भूरि बहु । न केनाप्यवच्छेत्तुं शक्यते । तादृशस्य “तव वयं “स्मसि स्वभूता भवामः । हे "मघवन् "अस्य "स्तोतुः त्वां स्तुवतो यजमानस्य "कामम् अभिलाषम् “आ “पृण आपूरय । "बृहती "द्यौः महान् द्युलोकोऽपि “ते तव "वीर्यम् "अनु “ममे अन्वमंस्त । इन्द्रेण सहावस्थानात् "इयं "च इयमपि “पृथिवी "ते तव “ओजसे बलाय "नेमे प्रह्वीबभूव । त्वद्बलाद्भीता सती अध एव वर्तते इति भावः ॥ स्मसि। अस भुवि । लटि ‘असोरल्लोपः' इति अकारलोपः । इदन्तो मसिः । पृण । ‘ पृण प्रीणने ' । अत्र प्रीतिहेतुतया पूरणं लक्ष्यते । तुदादित्वात् शप्रत्ययः । तस्य ङित्त्वाद्गुणाभावः । ममे । 'माङ् माने शब्दे च'। ङित्त्वात् आत्मनेपदम् । लिटि ‘ आतो लोप इटि च ' इति आकारलोपः । नेमे । ' णमु प्रह्वत्वे '। लिटि ‘अत एकहल्मध्ये ' इति एत्वाभ्यासलोपौ । तिङ्ङतिङः' इति निघातः ॥


त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ ।

अवा॑सृजो॒ निवृ॑ता॒ः सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सह॑ः ॥६

त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हाम् । उ॒रुम् । वज्रे॑ण । व॒ज्रि॒न् । प॒र्व॒ऽशः । च॒क॒र्ति॒थ॒ ।

अव॑ । अ॒सृ॒जः॒ । निऽवृ॑ताः । सर्त॒वै । अ॒पः । स॒त्रा । विश्व॑म् । द॒धि॒षे॒ । केव॑लम् । सहः॑ ॥६

त्वम् । तम् । इन्द्र । पर्वतम् । महाम् । उरुम् । वज्रेण । वज्रिन् । पर्वऽशः । चकर्तिथ ।

अव । असृजः । निऽवृताः । सर्तवै । अपः । सत्रा । विश्वम् । दधिषे । केवलम् । सहः ॥६

हे "वज्रिन् वज्रवन् "इन्द्र “त्वं "तं प्रसिद्धं "महाम् आयामतो महान्तम् "उरुं विस्तीर्णं पर्वत "पर्ववन्तं मेघं वृत्रासुरं वा "वज्रेण आयुधेन "पर्वशः पर्वणि पर्वणि "चकर्तिथ शकलीचकृषे । तेन मेघेन "निवृताः आवृताः "अपः "सर्तवै सरणाय गमनाय “अवासृजः अवाङ्मुखमस्राक्षीः । अतस्त्वमेव "केवलं "विश्वं व्याप्तं "सहः बलं "दधिषे धारयसि नान्यः कश्चिदिति यदेतत् तत् "सत्रा सत्यमेव । सत्रा इति सत्यनाम, सत्रा इत्था ' ( नि. ३. १०. ३) इति तन्नामसु पाठात् ॥ महां महान्तम् । नकारतकारयोर्लोपन्छान्दसः । चकर्तिथ। ‘ कृती छेदने '। लिटि थलि अभ्यासस्य उरदत्वहलादिशेषचुत्वानि । सर्तवै ।' कृत्यार्थे तवैकेन्” ' इति भावे तवैप्रत्ययः । कृन्मेजन्तः' (पा. सू. १. १. ३९ ) इति अव्ययत्वे ' अव्ययादाप्सुपः' इति सुपो लुक् । 'अन्तश्च तवै युगपत् ' इति आद्यन्तयोर्युगपत् उदात्तत्वम् । दधिषे । लिटि क्रादिनियमात् इट् ॥ ॥ २२ ॥ ॥ १० ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१











"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५७&oldid=196623" इत्यस्माद् प्रतिप्राप्तम्