सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.६५

विकिस्रोतः तः
← सूक्तं १.६४ ऋग्वेदः - मण्डल १
सूक्तं १.६५
पराशरः शाक्त्यः
सूक्तं १.६६ →
दे. अग्निः। द्विपदा विराट् ।


पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ॥१॥
सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन्विश्वे यजत्राः ॥२॥
ऋतस्य देवा अनु व्रता गुर्भुवत्परिष्टिर्द्यौर्न भूम ॥३॥
वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् ॥४॥
पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिर्न भुज्म क्षोदो न शम्भु ॥५॥
अत्यो नाज्मन्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते ॥६॥
जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वनान्यत्ति ॥७॥
यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः ॥८॥
श्वसित्यप्सु हंसो न सीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत् ॥९॥
सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ॥१०॥


सायणभाष्यम्

द्वादशेऽनुवाके नव सूक्तानि । तत्र ‘ पश्वा' इत्यादीनि षट् सूक्तानि द्वैपदानि । तेष्वध्ययनसमये द्विपदे द्वे द्वे ऋचौ चतुष्पदामेकैकामृचं कृत्वा समाम्नायते। अयुक्सख्यासु तु या अन्त्या अतिरिच्यते सा तथैवाम्नायते । प्रायेणार्थोऽपि द्वयोर्द्विपदयोरेक एव । प्रयोगे तु ताः पृथक् पृथक् शंसनीयाः । सूत्र्यते हि-’ पश्वा न तायुमिति द्वैपदम् ' ( आश्व. श्रौ. ८. १२ ) इति । तत्र ‘पश्वा' इति दशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते-’ पश्वा दश पराशरः शाक्त्यो द्वैपदं तत्' इति । शक्तिपुत्रः पराशर ऋषिः । तत्पुत्रत्वं च स्मर्यते- वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः' इति । द्विपदा विराट् छन्दः । ‘विंशतिका द्विपदा विराजः' (अनु. १२.८ ) इति हि तल्लक्षणम्। अग्निर्देवता । ‘परमाग्नेयमैन्द्रात् ' इति परिभाषितम् । ‘पश्वा न तायुम्' इत्यारभ्य इत्था हि ' इत्यतः प्राक् यत्सूक्तजातं तत्सर्वमाग्नेयमिति तस्यार्थः । ‘द्वैपदं तत्' इत्युक्तत्वादिदमादीनि षट् सूक्तानि तुह्यादिपरिभाषया द्वैपदानि । दशमेऽहनि वैश्वदेवशस्त्रे वैश्वदेवसूक्तात् पूर्वमेतत् द्वैपदं सूक्तं शंसनीयम् । सूत्रमुदाहृतम् ॥


प॒श्वा न ता॒युं गुहा॒ चत॑न्तं॒ नमो॑ युजा॒नं नमो॒ वह॑न्तम् ॥१

स॒जोषा॒ धीरा॑ः प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥२

प॒श्वा । न । ता॒युम् । गुहा॑ । चत॑न्तम् । नमः॑ । यु॒जा॒नम् । नमः॑ । वह॑न्तम् ॥१

पश्वा । न । तायुम् । गुहा । चतन्तम् । नमः । युजानम् । नमः । वहन्तम् ॥१

स॒ऽजोषाः॑ । धीराः॑ । प॒दैः । अनु॑ । ग्म॒न् । उप॑ । त्वा॒ । सी॒द॒न् । विश्वे॑ । यज॑त्राः ॥२

सऽजोषाः । धीराः । पदैः । अनु । ग्मन् । उप । त्वा । सीदन् । विश्वे । यजत्राः ॥२

“धीराः मेधाविनो देवाः “सजोषाः समानप्रीतयः सन्तो हे अग्ने त्वां “पदैः मार्गे पादकृतैर्लाञ्छनैः “अनु “ग्मन् अन्वगमन् । कीदृशम् । “पश्वा अपहृतेन पशुना सह वर्तमानं "तायुं “न । तायुरिति स्तेननाम । यथा स्तेनः परकीयं पश्वादिधनमपहृत्य दुष्प्रवेशे गिरिगह्वरे वर्तते तद्वत् । “गुहा “चतन्तं अब्रूपायां गुहायां गच्छन्तं वर्तमानम् । चततिर्गतिकर्मा । तथा च तैत्तिरीयैरग्नेरप्सु प्रवेशः समाम्नायते-- ’ स निलायत सोऽपः प्राविशत् ' (तै. सं. २. ६. ६. १ ) इति । यद्वा । अश्वत्थगुहायां वर्तमानम्। श्रूयते च -– अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरमतिष्ठत् ' ( तै. ब्रा. १. १. ३. ९ ) इति । तथा “नमो "युजानं हविर्लक्षणमन्नमात्मना संयुजानं “नमो “वहन्तं देवेभ्यः प्रत्तं हविर्वहन्तम् । “यजत्राः यजनीयाः “विश्वे सर्वे देवा हे अग्ने “त्वा त्वाम् “उप “सीदन् समीपं प्राप्नुवन् ददृशुरित्यर्थः । पश्वा । तृतीयैकवचनस्य ' जसादिषु च्छन्दसि वावचनम् ' इति नाभावाभावः । ‘उदात्तयण: ' इति विभक्तेरुदात्तत्वम् । गुहा । भिदादिषु पाठात् अङ्गप्रत्ययान्तः । वृषादिषु पाठादाद्युदात्तत्वम् ।' सुपा सुलुक्' इति सप्तम्या लुक् । युजानम् । शानचि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । सजोषाः । ‘ जुषी प्रीतिसेवनयोः'। समानं जुषन्त इति सजोषसः । ‘ समानस्य च्छन्दसि° ' इति सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्' इति जसः सुः । ग्मन् । गमेर्लुङि ‘ मन्त्रे घस ' इति च्लेर्लुक् ।' गमहन° ' इत्यादिना उपधालोपः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । यजत्राः ।“ अमिनक्षि' इत्यादिना अत्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ।।


ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ॥३

वर्ध॑न्ती॒माप॑ः प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ॥४

ऋ॒तस्य॑ । दे॒वाः । अनु॑ । व्र॒ता । गुः॒ । भुव॑त् । परि॑ष्टिः । द्यौः । न । भूम॑ ॥३

ऋतस्य । देवाः । अनु । व्रता । गुः । भुवत् । परिष्टिः । द्यौः । न । भूम ॥३

वर्ध॑न्ति । ई॒म् । आपः॑ । प॒न्वा । सुऽशि॑श्विम् । ऋ॒तस्य॑ । योना॑ । गर्भे॑ । सुऽजा॑तम् ॥४

वर्धन्ति । ईम् । आपः । पन्वा । सुऽशिश्विम् । ऋतस्य । योना । गर्भे । सुऽजातम् ॥४

‘उक्त एवार्थः स्पष्टीक्रियते । “देवाः “ऋतस्य गतस्य पलायितस्याग्नेः “व्रता व्रतानि कर्माणि गमनावस्थानशयनादिरूपाणि “अनु “गुः अन्वेष्टुमगमन् । तदनन्तरं “परिष्टिः परितः सर्वतोऽन्वेषणं “भुवत् अभवत् । “भूम भूमिरप्यग्नेरन्वेष्टृभिर्देवैः “द्यौर्न स्वर्ग इवाभूत् । इन्द्रादयः सर्वे देवा अग्नेर्गवेषणाय भूलोकं प्राप्ताः' इत्यर्थः । "आपः अब्देवताः "ईम् एनमुदके प्रविष्टमग्निं “वर्धन्ति प्रवर्धयन्ति । यथा देवा न पश्यन्ति तथारक्षन्नित्यर्थः । कीदृशम् । “पन्वा स्तोत्रेण सुशिश्विं सुष्ठु प्रवर्धितम् । “ऋतस्य “योना । योनिरित्युदकनाम । ऋतस्य यज्ञस्यान्नस्य वा कारणभूते जले "गर्भे गर्भस्थाने मध्ये “सुजातं सुष्ठु प्रादुर्भूतम् । एवमप्सु वर्तमानमग्निं देवेभ्यो मत्स्यः प्रावोचत् । तदनन्तरं देवास्तमज्ञासिषुरिति भावः । तथा च तैत्तिरीयकं -–‘स निलायत सोऽपः प्राविशत्तं देवताः प्रैषमैच्छन् तं मत्स्यः प्राब्रवीत् ' (तै. सं. २. ६. ६. १ ) इति ॥ व्रता। ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । गुः । ‘ इण् गतौ । इणो गा लुङि' इति गादेशः । गातिस्था' इति सिचो लुक् । आतः' इति झेर्जुस् । ‘ उस्यपदान्तात् ' इति पररूपत्वम् । परिष्टिः । ‘ इषु इच्छायाम्' । क्तिनि “ तितुत्र ' इति इट्प्रतिषेधः । शकन्ध्वादित्वात्पररूपत्वम् (पा. सू. ६. १. ९४. ४) । ‘तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् । भूम । सुपां सुलुक्' इति सोः डादेशः । ह्रस्वश्छान्दसः । वर्धन्ति । छन्दस्युभयथा' इति शप आर्धधातुकत्वात् ‘णेरनिटि' इति णिलोपः। शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । पन्वा । ‘पन स्तुतौ ' । औणादिको भावे उप्रत्ययः । सुशिश्विम् । ‘ टुओश्वि गतिवृद्ध्योः । ‘ आदृगमहनजनः० ' इत्यत्र ' उत्सर्गश्छन्दसि ' (पा. सू. ३. २. १७१. २) इति वचनात् किप्रत्ययः । वचिस्वपि ' इत्यादिना संप्रसारणम् । लिङ्वद्भावात् द्विर्भावे ‘बहुलं छन्दसि ' इति उकारस्य इत्वम् । छान्दसो यणादेशः । ‘ सुः पूजायाम् ' ( पा. सू. १. ४. ९४ ) इति सोः कर्मप्रवचनीयत्वम् । ‘स्वती पूजायाम् ' ( पा. म. २. २. १८. ४ ) इति प्रादिसमासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।


पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ॥५

अत्यो॒ नाज्म॒न्सर्ग॑प्रतक्त॒ः सिन्धु॒र्न क्षोद॒ः क ईं॑ वराते ॥६

पु॒ष्टिः । न । र॒ण्वा । क्षि॒तिः । न । पृ॒थ्वी । गि॒रिः । न । भुज्म॑ । क्षोदः॑ । न । श॒म्ऽभु ॥५

पुष्टिः । न । रण्वा । क्षितिः । न । पृथ्वी । गिरिः । न । भुज्म । क्षोदः । न । शम्ऽभु ॥५

अत्यः॑ । न । अज्म॑न् । सर्ग॑ऽप्रतक्तः । सिन्धुः॑ । न । क्षोदः॑ । कः । ई॒म् । व॒रा॒ते॒ ॥६

अत्यः । न । अज्मन् । सर्गऽप्रतक्तः । सिन्धुः । न । क्षोदः । कः । ईम् । वराते ॥६

“रण्वा रमणीया सर्वेषां हृद्या “पुष्टिर्न अभिमतफलानामभिवृद्धिरिव अग्निः सर्वेषां रमणीयः । ऐहिकामुष्मिकसकलव्यवहारस्य अग्न्यधीनत्वात् । यद्वा । पुष्टिरिव रण्वा गन्तव्यः शब्दनीयः स्तुत्यो वा । यथा पुष्टिः प्राप्यते तद्वदग्निर्यज्ञे हविर्भिः प्राप्यते इति भावः। “पृथ्वी विस्तीर्णा “क्षितिर्न भूमिरिव अग्निरपि विस्तीर्णः सर्वेषु भूतेषु जाठररूपेणावस्थानात् । “गिरिर्न पर्वत इव “भुज्म सर्वेषां भोजयिता । यथा गिरौ विद्यमानं फलमूलादिकमाहृत्य सर्वे भुञ्जते तद्वदग्नावपि पचन्तः सर्वे भुञ्जते । यद्वा । अग्नावाहुतिं हुत्वा यजमानाः स्वर्गफलं भुञ्जते । अथवा गिरिर्यथा दुर्भिक्षे सर्वान् प्राणिनो भुनक्ति स्वकीयफलमूलादिदानेन पालयति तद्वदयमपि पापादनुष्ठातॄन् प्रमुञ्चति । तथा चाम्नायते---‘अग्निर्मा तस्मादेनसः प्र मुञ्चतु' ( तै. सं. १. ८. ५. ३) इति । “शंभु सुखकरं “क्षोदो न उदकमिव । यथोदकं सुखं करोति तद्वदग्निः सर्वेषां सुखकारीत्यर्थः । “अज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे “अत्यो “न सततगमनशीलो जात्यश्व इव “सर्गप्रतक्तः सर्गेण विसर्जनेन प्रगमितः । यथा सादिना प्रेषितो जात्यश्वो हन्तव्यसमीपमाशु गच्छति तद्वदग्निरपि स्तोतृभिः प्रेषितः सन् शत्रून् हन्तुं शीघ्रं गच्छतीति भावः । अपि च “सिन्धुर्न “क्षोदः । स्यन्दनशीलमुदकमिव अयमपि शीघ्रगामी । यथा निम्नप्रदेशाभिमुखो जलप्रवाहो दुर्निर्वारः तद्वद्दग्धव्याभिमुखोऽग्निरपीत्यर्थः । अतो यस्मादेवं तस्मात् “ईम् एनमग्निं कः “वराते को वारयेत् । कोऽपि वारयितुं न शक्नोतीत्यर्थः ॥ रण्वा । रविर्गत्यर्थः। रण्व्यते' प्राप्यते इति रण्वः। ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्मणि पचाद्यच् । भुज्म । ‘भुज पालनाभ्यवहारयोः । इषियुधीन्धि°' इति विधीयमानो मक् बहुलवचनादस्मादपि भवति । सुपां सुलुक्' इति सोर्लुक् । अज्मन् । “ अज गतिक्षेपणयोः ' । मनिनि वलादावार्धधातुके विकल्प इष्यते ' ( का. २. ४. ५६. २ ) इति वचनात् वीभावाभावः । ‘ सुपां सुलुक्' इति सप्तम्या लुक् । सर्गप्रतक्तः । ‘ सृज विसर्गे ' इत्यस्मात् घञन्तः सर्गशब्द आद्युदात्तः । तञ्चु गतौ । अस्मादन्तर्भावितण्यर्थात् निष्ठायां ‘ यस्य विभाषा ' इति इट्प्रतिषेधः । “अनिदिताम्' इति नलोपः । सर्गेण प्रतक्तः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । वराते । वृञ् वरणे । अन्तर्भावितण्यर्थात् लेटि लेटोऽडाटौ' ति आडागमः । व्यत्ययेन शप् । 'वैतोऽन्यत्र ' ( पा. सू. ३. ४.९६ ) इति ऐत्वस्य विकल्पितत्वादभावः ।।


जा॒मिः सिन्धू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥७

यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥८

जा॒मिः । सिन्धू॑नाम् । भ्राता॑ऽइव । स्वस्रा॑म् । इभ्या॑न् । न । राजा॑ । वना॑नि । अ॒त्ति॒ ॥७

जामिः । सिन्धूनाम् । भ्राताऽइव । स्वस्राम् । इभ्यान् । न । राजा । वनानि । अत्ति ॥७

यत् । वात॑ऽजूतः । वना॑ । वि । अस्था॑त् । अ॒ग्निः । ह॒ । दा॒ति॒ । रोम॑ । पृ॒थि॒व्याः ॥८

यत् । वातऽजूतः । वना । वि । अस्थात् । अग्निः । ह । दाति । रोम । पृथिव्याः ॥८

"सिन्धूनां स्यन्दनशीलानामपामयमग्निः “जामिः बन्धुः । तासामुत्पादकत्वात्। तथा चाम्नातम्’ अग्नेरापः ' (तै. आ. ८. १) इति । यद्वा । देवेभ्यः पलायितोऽप्सु वर्तमानः सन् तासामपां बन्धुर्बभूवेत्यर्थः । तत्र दृष्टान्तः । “स्वस्रां स्वसॄणां भ्रातेव । यथा भ्रातातिशयेन हितकरो भवति तद्वत् । तादृशोऽग्निः “वनानि महान्त्यरण्यानि "अत्ति भक्षयति । दहतीत्यर्थः। तत्र निदर्शनम् । “राजा "इभ्यान्न भियं यन्तीति नैरुक्तव्युत्पत्त्या इभ्याः शत्रवः । तान् यथा समूलं हिनस्ति तद्वत् । यद्वा । इभ्या धनिनः। तान् यथा धनमपहरन् राजा हिनस्ति तद्वदित्यर्थः । अपि च “यत् यदा “वातजूतः वातेन प्रेरितः सन् “वना वनान्यरण्यानि “व्यस्थात् उक्तप्रकारेण विविधमातिष्ठति दग्धुं प्रवर्तते तदानीम् “अग्निर्ह असावग्निरेव “पृथिव्याः भूमेः संबन्धीनि "रोम औषधिरूपाणि रोमाणि “दाति छिनत्ति। भूम्यामोषधिवनस्पतिजातं यदस्ति तत्सर्वं दहतीति भावः ॥ स्वस्राम् । आमो नुडभावश्छान्दसः । अस्थात् । लुङि ‘गातिस्था' इति सिचो लुक् । दाति । ‘दाप् लवने '। अदादित्वात् शपो लुक् ॥


श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥९

सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभा॑ः ॥१०

श्वसि॑ति । अ॒प्ऽसु । हं॒सः । न । सीद॑न् । क्रत्वा॑ । चेति॑ष्ठः । वि॒शाम् । उ॒षः॒ऽभुत् ॥९

श्वसिति । अप्ऽसु । हंसः । न । सीदन् । क्रत्वा । चेतिष्ठः । विशाम् । उषःऽभुत् ॥९

सोमः॑ । न । वे॒धाः । ऋ॒तऽप्र॑जातः । प॒शुः । न । शिश्वा॑ । वि॒ऽभुः । दू॒रेऽभाः॑ ॥१०

सोमः । न । वेधाः । ऋतऽप्रजातः । पशुः । न । शिश्वा । विऽभुः । दूरेऽभाः ॥१०

अयमग्निर्देवेभ्यः पलायितः सन् "अप्सु उदकेषु “श्वसिति प्राणिति । निगूढो वर्तते इत्यर्थः । तत्र दृष्टान्तः । “हंसो “न “सीदन् । उदकमध्ये उपविशन् हंस इव । कीदृशोऽग्निः । “क्रत्वा क्रतुना ज्ञानहेतुनात्मीयेन प्रकाशेन “विशां प्रजानां “चेतिष्ठः अतिशयेन चेतयिता ज्ञापयिता । रात्रौ हि सर्वे जना अन्धकारावृतं सर्वमग्नेः प्रकाशाज्जानन्ति । "उषर्भुत् उषस्युषःकालेऽग्निहोत्रादौ प्रबुद्धः “सोमो न “वेधाः सोम इव विधाता स्रष्टा । सोमो यथा सकलमोषधिरूपं भोग्यजातं सृजति । ‘ सोमो वा ओषधीनां राजा ' ( तै. सं. ६. १. ९. १; तै. ब्रा. ३. ९. १७. १ ) इति श्रुतेः । तथा सकलं भोक्तृजातं सृजति । अग्नेरेव भोक्तृरूपेणावस्थानात् । तथा च तैत्तिरीयकम्- अग्निरन्नादोऽन्नपतिः ' ( तै. ब्रा. २. ५. ७. ३ ) इति । वाजसनेयकेऽपि भोक्तृभोग्ययोरग्नीषोमात्मकत्वमाम्नातम्’ एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः' इति । “ऋतप्रजातः । ऋतमित्युदकनाम । ऋतादुदकात् प्रादुर्भूतः “पशुर्न “शिश्वा । उदकमध्ये वर्तमानोऽग्निः शयानः पशुरिव तनूकृतः संकुचितगात्रोऽभूत् । ततः प्रादुर्भूतः सन् “विभुः प्रभूतः संपन्न: । यद्वा शिश्वा शिशुना गर्भस्थेन वत्सेन सहिता गौरिव विभुः प्रभूतावयवो जात इत्यर्थः । “दूरेभाः । दूरे विप्रकृष्टदेशेऽपि भाः प्रकाशो यस्य स तथोक्तः । एवंभूतोऽग्निरप्सु श्वसतीति पूर्वेण संबन्धः । श्वसिति । ‘ श्वस प्राणने ' । अदादित्वात शपो लुक् । रुदादिभ्यः सार्वधातुके' ( पा. सू. ७. २. ७६ ) इति इडागमः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । क्रत्वा । ‘ जसादिषु च्छन्दसि वावचनम् इति नाभावाभावः । उषसि बुध्यते इत्युषर्भुत् ।' बुध अवगमने '। क्विप् च ' इति क्विप् । ‘ एकाचो बशः° ' इति भष्भावः । ‘ अहरादीनां पत्यादिषूपसंख्यानम् ' (पा, म. ८. २. ७० ) इति सकारस्य रेफादेशः । शिश्वा । ' शो तनूकरणे' । ‘ आदेचः' इति आत्वम् । शः कित्सन्वच्च ' ( उ. सू. १. २० ) इति उप्रत्ययः । सन्वद्भावात् द्विर्भावेत्वे । अत एव नित्त्वादाद्युदात्तत्वम् । किद्वद्भावात् “ आतो लोप इटि च' इति आकारलोपः । प्रथमपक्षे ' सुपां सुलुक्' इति सोः आकारः । द्वितीये तु पूर्ववत् नाभावाभावः । दूरेभाः । तत्पुरुषे कृति बहुलम्' इति बहुव्रीहावपि बहुलवचनात् अलुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ९ ॥


टिप्पणी

पराशरोपरि पौराणिकसंदर्भाः

पराशरोपरि टिप्पणी

(सोम व्यूळ्ह दशरात्र दशम अहः -- ऋभुक्षण इत्य्(७.४८.१) आर्भवम् पश्वा न तायुम् इति द्वैपदम् समिद्धम् अग्निम् समिधा गिरा गृण इति(६.१५.७-९) तृचश् च द्विप्रतीकम् जातवेदस्यम् । - आश्व.श्रौ.सू. ८.१२।२४

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.६५&oldid=234393" इत्यस्माद् प्रतिप्राप्तम्