सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१८७

विकिस्रोतः तः
← सूक्तं १.१८६ ऋग्वेदः - मण्डल १
सूक्तं १.१८७
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१८८ →
दे. अन्नं । १ अनुष्टुब्गर्भा उष्णिक्, ३, ५-७, ११ अनुष्टुप्, ११ बृहती वा, २,४, ८-१० गायत्री।


पितुं नु स्तोषं महो धर्माणं तविषीम् ।
यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥१॥
स्वादो पितो मधो पितो वयं त्वा ववृमहे ।
अस्माकमविता भव ॥२॥
उप नः पितवा चर शिवः शिवाभिरूतिभिः ।
मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ॥३॥
तव त्ये पितो रसा रजांस्यनु विष्ठिताः ।
दिवि वाता इव श्रिताः ॥४॥
तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो ।
प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥५॥
त्वे पितो महानां देवानां मनो हितम् ।
अकारि चारु केतुना तवाहिमवसावधीत् ॥६॥
यददो पितो अजगन्विवस्व पर्वतानाम् ।
अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः ॥७॥
यदपामोषधीनां परिंशमारिशामहे ।
वातापे पीव इद्भव ॥८॥
यत्ते सोम गवाशिरो यवाशिरो भजामहे ।
वातापे पीव इद्भव ॥९॥
करम्भ ओषधे भव पीवो वृक्क उदारथिः ।
वातापे पीव इद्भव ॥१०॥
तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम ।
देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम् ॥११॥

तुलनीय -- पैप्पलादसंहिता ६.१६, काठकसंहिता ४०.८

सायणभाष्यम्

‘पितुं नु' इत्येकादशर्चमष्टमं सूक्तमागस्त्यमन्नदेवताकं गायत्रम् । आद्या अनुष्टुब्गर्भोष्णिक् । ‘आद्यः पञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा' (अनु. ५. ७) इत्युक्तत्वात् । तृतीया पञ्चमी षष्ठी सप्तम्येकादशी च इति पञ्चानुष्टुभः । तथा च अनुक्रमणिका-पितुं न्वन्नस्तुतिर्गायत्रं त्वाद्यानुष्टुब्गर्भा तृतीयान्त्ये पञ्चम्याद्याश्च तिस्रोऽनुष्टुभः' इति । विनियोगं शौनक आह- पितुं न्वित्युपतिष्ठेत नित्यमन्नमुपस्थितम् । पूजयेदशनं नित्यं भुञ्जीत ह्यविकुत्सयन् ॥ नास्य स्यादन्नजो व्याधिर्विषमप्यमृतं भवेत् । विषं च पीत्वैतत्सूक्तं जपेद्विषविनाशनम् ।। नावाग्यतस्तु भुञ्जीत नाशुचिर्न जुगुप्सितम् । दद्याञ्च पूजयेच्चैव जुहुयाच्च हविस्तदा । क्षुद्भयं नास्य किंचित्स्यान्नान्नजं व्याधिमाप्नुयात् ' ( ऋग्वि. १. १४८-१५१ ) इति ।।


पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीं ।

यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥१

पि॒तुम् । नु । स्तो॒ष॒म् । म॒हः । ध॒र्माण॑म् । तवि॑षीम् ।

यस्य॑ । त्रि॒तः । वि । ओज॑सा । वृ॒त्रम् । विऽप॑र्वम् । अ॒र्दय॑त् ॥१

पितुम् । नु । स्तोषम् । महः । धर्माणम् । तविषीम् ।।

यस्य । त्रितः । वि। ओजसा । वृत्रम् । विऽपर्वम् । अर्दयत् ॥ १ ॥

अहमगस्त्यः “नु क्षिप्रं “पितु पालकमन्नं “स्तोषं स्तौमि। “महः महान्तं “धर्माणं सर्वस्य धारकं “तविषीं बलात्मकम् । यद्वा । महतो लोकस्य धारकम् । “यस्य अन्नस्य “ओजसा बलेन सामर्थ्येन “त्रितः विस्तीर्णतमः प्रख्यातकीर्तिः त्रिषु क्षित्यादिस्थानेषु तायमानोऽपि इन्द्रः “वृत्रं “विपर्वं विच्छिन्नसंधिकं यथा तथा अर्दयत् हिंसितवान् ।


स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे ।

अ॒स्माक॑मवि॒ता भ॑व ॥२

स्वादो॒ इति॑ । पि॒तो॒ इति॑ । मधो॒ इति॑ । पि॒तो॒ इति॑ । व॒यम् । त्वा॒ । व॒वृ॒म॒हे॒ ।

अ॒स्माक॑म् । अ॒वि॒ता । भ॒व॒ ॥२

स्वादो इति । पितो इति। मधो इति । पितो इति । वयम् । त्वा । ववृमहे ।

अस्माकम् । अविता । भव ॥ २ ॥

हे “स्वादो आस्वादनीय “पितो पालक “मधो माधुर्योपेत “पितो हे पानसाधनान्न "वयं “त्वा त्वां “ववृमहे सेवामहे ।। अत्र सर्वत्र अननुदात्तानां पूर्वस्य असामान्यवचनत्वेनानिघातत्वम् । अनुदात्तानां तु विशेषवचनत्वान्निघातत्वम् ।। असकृत्पितुशब्दश्रवणं तस्य प्राशस्त्यज्ञापनार्थम् । हे पितो “अस्माकमविता तर्पयिता “भव ॥


उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ ।

म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥३

उप॑ । नः॒ । पि॒तो॒ इति॑ । आ । च॒र॒ । शि॒वः । शि॒वाभिः॑ । ऊ॒तिऽभिः॑ ।

म॒यः॒ऽभुः । अ॒द्वि॒षे॒ण्यः । सखा॑ । सु॒ऽशेवः॑ । अद्व॑याः ॥३

उप । नः । पितो इति । आ । चर। शिवः । शिवाभिः । ऊतिऽभिः ।

मयःऽभुः । अद्विषेण्यः । सखा । सुऽशेवः । अद्वयाः ॥ ३ ॥

हे “पितो यतः त्वं “शिवः मङ्गलः अतः “शिवाभिः मङ्गलयुक्ताभिः “ऊतिभिः रक्षणैः “नः अस्मान् “आ “चर आगच्छ। आगत्य च “मयोभुः सुखस्य भावयिता “अद्विषेण्यः अद्वेष्यरसः प्रियरस इत्यर्थः । “सखा सखिवत्प्रियकारी “सुशेवः अत एव सुष्ठु सुखकरः “अद्वयाः द्वयरहितः उक्तगुण एव न तु तद्विपरितो भवेत्यर्थः । अथवा दृष्टान्तवादोऽयम् । सुशेवोऽद्वया मनःकर्मविसंवादरहितः सखा यथा मयोभुः अद्वेष्यश्च भवति तद्वत् त्वमपि भवेत्यर्थः ।।


तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः ।

दि॒वि वाता॑ इव श्रि॒ताः ॥४

तव॑ । त्ये । पि॒तो॒ इति॑ । रसाः॑ । रजां॑सि । अनु॑ । विऽस्थि॑ताः ।

दि॒वि । वाताः॑ऽइव । श्रि॒ताः ॥४

तव । त्ये। पितो इति। रसाः । रजांसि। अनु। विऽस्थिताः ।

दिवि । वाताःऽइव । श्रिताः ॥४॥

हे “पितो “तव त्वत्संबन्धिनः “त्ये ते स्वाद्वम्लादि षट् “रसाः “रजांसि लोकान् लोकस्थानार्थान् “अनु आनुकूल्येन “विष्ठिताः विविधं स्थिताः । विविधस्थितौ दृष्टान्तः । “दिवि द्युलोकेऽन्तरिक्षे “श्रिताः “वाताः वायवः ते यथा व्याप्तास्तद्वत् ॥


तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो ।

प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥५

तव॑ । त्ये । पि॒तो॒ इति॑ । दद॑तः । तव॑ । स्वा॒दि॒ष्ठ॒ । ते । पि॒तो॒ इति॑ ।

प्र । स्वा॒द्मानः॑ । रसा॑नाम् । तु॒वि॒ग्रीवाः॑ऽइव । ई॒र॒ते॒ ॥५

तव । त्ये। पितो इति । ददतः । तव । स्वादिष्ठ । ते । पितो इति ।

प्र । स्वाद्मानः । रसानाम् । तुविग्रीवःऽइव । ईरते ॥ ५ ॥

हे "पितो पालकान्न “त्ये ते त्वदर्थिनो नराः “तव भोक्तारो भवन्तीति शेषः । के ते नराः । “स्वादिष्ट स्वादुतम “पितो पालक “तव त्वदनुग्रहात् "ते त्वां “ददतः प्रयच्छन्तो भवन्ति । यद्वा। ते पितो इत्यादरार्थम् । अभ्यासे हि भूयांसमर्थं मन्यन्ते । किंच तव “रसानां स्वाद्वम्लादीनां षण्णां “स्वाद्मानः स्वादयितारो भक्षयितार एव “तुविग्रीवाइव । तुवीति बहुनाम । प्रवृद्धग्रीवा एव “प्र “ईरते प्रकर्षेण गच्छन्ति संचरन्ति । इवशब्द एवकारार्थः पूरणो वा । भूलोके अत्तार एव दृढाङ्गा भवन्तीति प्रसिद्धम् । अनशने हि ग्रीवा अधो लम्बन्ते । यद्वा । तव रसानामत्तारः असंख्यातग्रीवा इव भवन्ति रसानां बाहुल्यादिति भावः । एवं वहुरसोपेतमन्नमिति तस्य स्तुतिः ॥ ॥ ६ ॥


त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तं ।

अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥६

त्वे इति॑ । पि॒तो॒ इति॑ । म॒हाना॑म् । दे॒वाना॑म् । मनः॑ । हि॒तम् ।

अका॑रि । चारु॑ । के॒तुना॑ । तव॑ । अहि॑म् । अव॑सा । अ॒व॒धी॒त् ॥६

त्वे इति । पितो इतिं । महानाम् । देवानाम् । मनः । हितम् ।

अकारि । चारु । केतुना । तव । अहिम् । अवसा । अवधीत् ॥ ६ ॥

हे “पितो "महानां पूज्यानां महतां वा “देवानाम् इन्द्रादीनां “मनः “त्वे त्वयि “हितं निहितम् “अकारि कृतम् । अमृतमपि विहाय त्वय्येव वर्तते । हे पितो “तव “चारु समीचीनेन “केतुना त्वत्कृतेन प्रज्ञानलक्षणेन “अवसा रक्षणेन "अहिं मेघं वृत्रं वा “अवधीत हतवानिन्द्रः । ‘अन्नमयं हि सोम्य मनः ' ( छा. उ. ६. ५. ४) इति श्रुतेः । अथवा त्वत्केतुना जगद्गक्षणेन निमित्तेनेति योज्यम् । जगद्रक्षणार्थं हि इन्द्रेणाहिर्भिद्यते ॥


यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानां ।

अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥७

यत् । अ॒दः । पि॒तो॒ इति॑ । अज॑गन् । वि॒वस्व॑ । पर्व॑तानाम् ।

अत्र॑ । चि॒त् । नः॒ । म॒धो॒ इति॑ । पि॒तो॒ इति॑ । अर॑म् । भ॒क्षाय॑ । ग॒म्याः॒ ॥७

यत् । अदः । पितो इति । अजगन् । विवस्व । पर्वतानाम् ।

अत्र । चित् । नः । मधो इति । पितो इति । अरम् । भक्षाय । गम्याः ॥ ७ ॥

हे “पितो अन्न त्वां “यत् यदा “विवस्व ।। सुपो लुक् । अन्त्यलोपश्छान्दसः ॥ विवासनवतां विद्युद्रूपप्रकाशनवताम् । विवो धनमुदकलक्षणम् । धनवतां वा “पर्वतानां मेघानां संबन्धि “अदः प्रसिद्धं तदुदकम् “अजगन् अगमत् गच्छेत् । “अत्र “चित् अस्मिन्काले "नः अस्मान् हे “मधो हे “पितो माधुर्योपेतान्न त्वं नोऽस्मान् “अरम् अलं संपूर्णं “भक्षाय भक्षणाय “गम्याः गच्छ संनिहितो भव ॥ यद्पामोषधीनां परिंशमरिशामहे । वातापे पीव इर्द्धव ॥ ८ ॥


यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे ।

वाता॑पे॒ पीव॒ इद्भ॑व ॥८

यत् । अ॒पाम् । ओष॑धीनाम् । प॒रिं॒शम् । आ॒ऽरि॒शाम॑हे ।

वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥८

यत् । अपाम् । ओषधीनाम् । परिंशम्। आऽरिशामहे ।

वातापे। पीवः । इत्। भव ॥८॥

"यत् येन “अपामोषधीनां संबन्धि “परिंशं परिलेशं परितः सुखकरमन्नम् “आरिशामहे आस्वादयामः भक्षयामः तेन अन्नोदकसारेण हे “वातापे । वातेन प्राणेन आप्नोति स्वनिर्वाहमिति वातेनाप्यायत इति वा वातापि शरीरम् । हे शरीर त्वं “पीव “इत् आप्यायित एव “भव । अन्नोदकाभ्यां शरीरवृद्धिः प्रसिद्धा । यद्वा । यद्यपि अपामोषधीनां परिंशं लेशमास्वादयामः तथापि हे वातापे वातवत्सर्वव्यापक पितो त्वम् अल्पमपि पीवः पीवानेव भव ॥


यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे ।

वाता॑पे॒ पीव॒ इद्भ॑व ॥९

यत् । ते॒ । सो॒म॒ । गोऽआ॑शिरः । यव॑ऽआशिरः । भजा॑महे ।

वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥९

यत् । ते । सोम। गोऽअशिरः। यवऽआशिरः। भजामहे ।

वातापे । पीवः । इत् । भव ॥९॥

पूर्वम् अन्नसामान्येन स्तुत्वा इदानीं सोमलक्षणमन्नं स्तौति । हे "सोम “ते तव “यत् यम् अंशं “गवाशिरः गोविकारक्षीराद्याश्रयणद्रव्यं "यवाशिरः यवविकाराश्रयणद्रव्यं “भजामहे सेवामहे तेन हे “वातापे शरीर “पीवः भव ॥


क॒रं॒भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः ।

वाता॑पे॒ पीव॒ इद्भ॑व ॥१०

क॒र॒म्भः । ओ॒ष॒धे॒ । भ॒व॒ । पीवः॑ । वृ॒क्कः । उ॒दा॒र॒थिः ।

वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥१०

करम्भः । ओषधे । भव । पीवः । वृक्कः। उदारथिः ।

वातापे। पीवः । इत् । भव ॥ १० ॥

“करम्भः यः करम्भादिरूपः सक्तुपिण्डोऽस्ति तदात्मक हे “ओषधे त्वं “पीवः स्थौल्यवान् “वृक्कः व्याधेर्वर्जयिता “भव । उदारथिः ऊर्ध्वगमः इन्द्रियाणामुद्दीपयिता भव । शिष्टो गतः ॥


तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम ।

दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒मादं॑ ॥११

तम् । त्वा॒ । व॒यम् । पि॒तो॒ इति॑ । वचः॑ऽभिः । गावः॑ । न । ह॒व्या । सु॒सू॒दि॒म॒ ।

दे॒वेभ्यः॑ । त्वा॒ । स॒ध॒ऽमाद॑म् । अ॒स्मभ्य॑म् । त्वा॒ । स॒ध॒ऽमाद॑म् ॥११

तम् । त्वा । वयम् । पितो इति । वचःऽभिः । गावः । न । हव्या । सुसूदिम् ।।

देवेभ्यः । त्वा । सधऽमादम् । अस्मभ्यम् । त्वा । सधऽमादम् ॥ ११ ॥

हे “पितो अन्न सोमरूप “तं तादृशं स्तुतं “त्वा त्वां महानुभावं “वचोभिः स्तुतिवाग्भिः “वयं “सुषूदिम क्षारयामो रसान् । तत्र दृष्टान्तः । “गावो “न “हव्या गाव इव हवींष्युत्पादयन्ति तथा त्वत्सकाशात् सोमं सुषूदिम । किमर्थं कीदृशं च इति चेत् उच्यते । “देवेभ्यः इन्द्रादिभ्यः तदर्थं “सधमादं तेषां सह मादयितारम् । न केवलं देवेभ्य एव किंतु “सधमादम् अस्माभिः सह मादयितारं हुतशेषरूपं “त्वा त्वाम् “अस्मभ्यम् अस्मदर्थमपि ॥ ॥ ७ ॥


टिप्पणी

१.१८७.२ स्वादो पितो मधो पितो इति

मधु उपरि टिप्पणी

अस्मिन् सूक्ते पितुः शब्दस्य प्राकट्यं एकादशवारेण भवति। सामान्यतः सायणादि भाष्येषु पितुः शब्दस्य अर्थं सोम इति कृतं भवति। अस्य सू्क्तस्य ऋषिः अगस्त्यः अस्ति। अगस्त्यस्य ळक्ष्यं दक्षता प्राप्तिरस्ति। डा. फतहसिंहः कथयति स्म यत् वैदिकवाङ्मये शब्दस्य अर्घताह्रासस्य प्रदर्शनाय तस्य अभिव्यक्तिः द्विवचने एवं बहुवचने भवति। अनेन प्रकारेण, पितुः शब्दस्य बहुवचनं पितरः भविष्यति। देहमध्ये ये प्राणाः अव्यक्तरूपेण देहस्य पालनं कुर्वन्ति, तेषां संज्ञा पितरः अस्ति। आधुनिक चिन्तनानुसारेण तेषां संज्ञा अचेतनमनः कर्तुं शक्यन्ते। पितृषु दोषमस्ति यत् तेषां संगमनं, एकीकरणं अतिकठिनं अस्ति। अतएव, तेषां सर्वोच्चस्तरस्य संज्ञा विश्वेदेवाः अस्ति। आधुनिकविज्ञानस्य भाषायां विश्वेदेवाः समूहः अस्ति, न व्यूहः। किन्तु अगस्त्यः यस्मिन् रूपे पितॄणां दर्शनं करोति, तत् पितुः अस्ति।

सा ततः प्राच्युदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । अथर्व पितुं मे गोपायेति । तै.ब्रा. १.१.१०.४

अथर्व पितुं मे गोपाय । रसमन्नमिहायुषे । अदब्धायोऽशीततनो । अविषं नः पितुं कृणु । तै.ब्रा. १.२.१.२५

पितुषणिरित्यन्नं वै पितु दक्षिणा वै पितु तामेनेन सनोत्यन्नसनिमेवैनं तत्करोति - ऐ.ब्रा. १.१३

अविषं नः पितुं कृण्वित्यन्नं वै पितुरनमीवं न इदमकिल्बिषमन्नं कुर्वित्येवैतदाह - माश. १.९.२.२०

अथैतं पितुमद्धि प्रसूत इत्यन्नं वै पितुरथैतदन्नमद्धि प्रमुक्त इति - माश. ७.२.१.१५

प्रथमायां ऋचायां उल्लेखमस्ति - यस्य त्रितो वि ओजसा वृत्रं विपर्वमर्दयत्। विपर्वस्य वृत्रस्य किमर्थं भवति। एकमर्थमस्ति - संवत्सरो वै पर्ववान् अस्ति। संवत्सरे कालस्य विभाजनं कला, कला, मुहूर्त्तादिषु कर्तुं शक्यन्ते। संवत्सरस्य निर्माणं सूर्य, पृथिवी एवं चन्द्रमसः अन्योन्याश्रिताभिः गतिभिः भवति। आध्यात्मिक स्तरे एषः योगः प्राण, वाक् एवं मनसि भवति। शतपथब्राह्मणे १.६.३.१७ कथनमस्ति यत् यदा वृत्रस्य हननम् अभवत्, तदा तस्य यः सौम्यं भागमासीत्, तत् चन्द्रमा अभवत्। यः असुर्यम् आसीत्, तत् उदरे क्षुधारूपेण प्रतिष्ठितो अभवत्। शतपथ ब्राह्मणं १.२.३.२ अनुसृत्वा इदं कथितुं शक्यन्ते यत् यः वृत्रः अस्ति, तस्य साम्यं त्वष्टा विश्वरूपेण सह अस्ति। विश्वरूपः त्रिशीर्षः अस्ति। सः एकेन मुखेन सोमस्य पानं करोति, द्वितीयेन सुरायाः, तृतीयेन अन्नस्य। त्रितेन, यः इन्द्रस्य सहायकः अस्ति, तस्य त्रिशीर्षाणां कर्तनं अभवत्।

अन्नोपरि पौराणिकसंदर्भाः

अन्नोपरि टिप्पणी

वाताप्योपरि पौराणिकसंदर्भाः

वाताप्योपरि टिप्पणी

वातापे वाताहार - लौगाक्षि गृह्य सूत्राणि ४३

शाङ्खायनब्राह्मणे २७.४ कथनमस्ति -- इन्द्रो वै वातापिः । स ह वातम् आप्त्वा शरीराण्यर्हन् । वैदिकवाङ्मयानुसारेण, वातः प्राणानां अनिरुक्तं रूपं, समष्टिरूपं अस्ति। वाततः निरुक्तप्राणस्य सर्जनं इन्द्रस्य कार्यमस्ति। अन्तरिक्षे या वायुः वहति, तत् प्राणानां एव समष्टिरूपमस्ति। यं वायुं वयं नासिकया गृह्णीमः, तदपि प्राणानां समष्टिरूपमस्ति। अस्य वायोः ग्रहणं फुफ्फुसेभिः भवति। फुफ्फुसेभ्यः वायुतः प्राणवायोः ग्रहणं भवति। तस्य प्राणवायोः वितरणं देहस्य कोषे - कोषे भवति। अयं सामान्या स्थितिः अस्ति। विशिष्टायां स्थित्यां, अयं प्राणवायुः अन्नस्य कार्यमपि करोति। यदि देहे इन्द्रदेवस्य विद्यमानता अस्ति, तर्हि सः वायुतः अन्नस्य सर्जनं कर्तुं समर्थः अस्ति। अन्यथा, यथा सर्वविदितं अस्ति, केवलं वायुपानेन स्थूलदेहस्य क्रमिकक्षयः भवति। अयं प्रतीयते यत् प्रस्तुतसूक्ते वातापे पीव इद्भवेति कथनस्य अयमेव कारणमस्ति।


पुराणेषु सार्वत्रिकरूपेण इल्वल एवं तस्य अनुज वातापि दानवयोः कथा अस्ति। इल्वलः श्राद्धेषु वातापिं पाचयित्वा ब्राह्मणेभ्यः अन्नरूपेण प्रयच्छति। तदनन्तरं इल्वलः वातापेः आह्वानं करोति एवं वातापिः ब्राह्मणानां उदरं भङ्क्त्वा बहिरागच्छति। यदा अगस्त्यमुनिना वातापेः भक्षणं कृतमासीत्, तदा वातापिअसुरस्य पुनरुज्जीवनं सम्भवं नाभवत्। प्रथमदृष्ट्या, इल्वल एवं वातापि दानवयोः मध्ये न कोपि सामञ्जस्यं प्रतीयते। किन्तु, कथासरित्सागरे ८.२.३७७ उल्लेखमस्ति यत् वातापिः जन्मान्तरे प्रज्ञाढ्यनामकः मन्त्रीरूपेण उत्पन्नः भवति। इल्वलसंज्ञायां इला, इळा, अचेतनमनः निहितमस्ति। वातापिसंज्ञायां प्रज्ञा निहितमस्ति। पुराणानुसारेण, इला एवं प्रज्ञा श्रद्धायाः दुहिते आस्ताम्। शांखायनआरण्यके ७.१८ कथनमस्ति - प्रज्ञा पूर्वरूपम्, श्रद्धा उत्तररूपम् कर्म संहिता सत्यं सन्धानम्। पातंजलयोगसूत्रे ऋतम्भरा प्रज्ञायाः उल्लेखमस्ति। एषा प्रज्ञैव वाततः, अनिरुक्तेभ्यः प्राणेभ्यः अन्नस्य निर्माणं कर्तुं शक्यते। वातापेः असुरस्य असुरत्वं किमस्ति। यदि वाततः प्रज्ञायाः सर्जनं न भवेत्, तत् वातापेः असुरत्वं प्रतीयते। अगस्त्यमुनिः वातापेः असुरत्वस्य पाचनं केन प्रकारेण करोति। भागवतपुराणे ४.१.३६ उल्लेखमस्ति यत् अगस्त्यः पुलस्त्यस्य पुत्रमस्ति एवं तस्य अपरसंज्ञा जठराग्निरस्ति। अयं प्रतीयते यत् यावत् जठराग्निः उदरमध्ये स्थानिकः अस्ति, तावत् अयं अगस्त्यः न अस्ति। यदा जठराग्न्याः विस्तारं देहे अन्यत्रापि भवति, तदा अयं देहस्य शोधकः भवति, देहसमुद्रस्य असुराणां भक्षकः भवति। तदैव अयं अगस्त्यसंज्ञा धारयितुं शक्यते। अयं संभवमस्ति यत् अयं अगस्त्यसंज्ञका जठराग्निः वाततः प्रज्ञायाः सर्जनं कर्तुं शक्यते। श्राद्धस्य संज्ञा अन्नमपि अस्ति। अतएव, प्रज्ञातः श्रद्धायाः सर्जनं भविष्यति, श्रद्धातः श्राद्धस्य।

करम्भ


सोमयज्ञेषु प्रकृतिभूत ज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु १. होत्रा प्रातरनुवाके शस्यमाने अग्नीत् सवनीयान् पुरोडाशान् निर्वपति । तत्र इन्द्राय एकादशकपालपुरोडाशं, हरिभ्यां धानाः, पूष्णे करम्भं हविर्निर्वपति । करम्भो नाम सक्तवो मन्थः। ‘आज्यादिना वा संयुतः करम्भ इत्याचक्षते' (आप० श्रौ० १२।४।१२) (तु०-का० श्रौ० ९।२।१५ विद्याधरः) । २. सवनीय हविर्धानाश्रपणात् पश्चात् कृष्णाजिनावधूननादि कृत्वा द्वितीयं भागं (भ्रष्टयवानां) पेषयित्वा नवे पात्रे तथैवाज्यमानीय जातान् सक्तूनोप्य मन्थन- शलाकया रज्ज्वादिना मथित्वा स्थाल्योष्ठलग्ना विप्रुषोऽन्तः क्षिप्त्वा ‘इन्द्राय त्वा' इति मन्त्रेणाभिमृश्य धानानामुत्तरतो भस्ममिश्रेष्वङ्गारेषु अधिश्रयति । अयं पदार्थ: करम्भ इत्युच्यते । द्र० श्रौ०प०नि० पृ० २६१-६२ । द्र० सवनीयपुरोडाशयाग-, सवनीयधानाश्रपण-, सवनीययागहविर्निवाप-। पं. पीताम्बरदत्त शास्त्री , श्रौतयज्ञप्रक्रिया – पदार्थानुक्रमकोषः, (राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, २००५ई.)

पुराणेषु सार्वत्रिकरूपेण करम्भस्य उल्लेखः शकुनेः पुत्ररूपेण अस्ति। अयं संकेतमस्ति यत् मर्त्यस्तरे ये शकुनाः जायन्ते, ते करम्भाः भवन्ति। क - रम्भः करम्भः। यः विषयः कः- मर्त्यस्तरं रेभयति, आलोड्यति, तत् करम्भः। पैप्पलादसंहिता २.१ अनुसारेण अस्य विनियोजनं अधोदिशायाः विषस्य अपनयने भवति। तैत्तिरीयब्राह्मण ३.१.४.७ अनुसारेण करम्भस्य निर्वपणं आश्लेषा नक्षत्राय भवति। आश्लेषा नक्षत्रस्य देवता सर्पाः सन्ति।

करम्भोपरि पौराणिकसंदर्भाः

करम्भोपरि वैदिकसंदर्भाः


वृक्कः

समग्रे वैदिकवाङ्मये वृक्कस्य एकवचनरूपं अत्रैव दृश्यते। अन्यत्र द्विवचनरूपं वृक्कौ, वृक्काभ्यां प्रकटयति ( सूर्याचन्द्रमसौ वृक्काभ्यां - काठकसंहिता ५३.९, वृक्काभ्यां गिरीन् - शु.यजुर्वेदः २५.८, क्रोधो वृक्कौ, मन्युराण्डौ - पैप्पलादसंहिता १६.१३९.८)। अष्टाङ्गसंग्रह ५.२८ अनुसारेण रक्तमेदःप्रसादात् वृक्कयोः जननं भवति। आधुनिकआयुर्विज्ञानतः सम्यग्रूपेण ज्ञातमस्ति यत् वृक्कयोः कार्यं रक्तस्य शोधनमस्ति। रक्ते यानि अपद्रव्याणि सन्ति, तेषां अपनयनम्। अस्मिन् संदर्भे शतपथब्राह्मणस्य १२.७.१.८ कथनं उल्लेखनीयमस्ति। इन्द्रस्य मूत्रस्य माध्यमेन तस्य ओजस्य क्षरणमभवत् । क्षरितात् ओजतः वृकस्य, आरण्यकपशोः उत्पत्तिरभवत्। ओजः अर्थात् ओ, ओंकारतः जायमानः। निहितार्थमस्ति यत् वृक्कयोः कार्यं ओंकारस्य स्थित्याः, ओजस्य रक्षणमस्ति। करम्भस्य वृक्केण सह कः सम्बन्धमस्ति। मूत्रः देहस्तरे वृष्टेः परिणाममस्ति। वृष्टेः जननहेतु विद्युतस्य अपेक्षा अस्ति। विद्युज्जननस्य कार्यं करम्भेण भवति, अयं प्रस्तावः।


वृकोपरि टिप्पणी

वृक्कोपरि टिप्पणी




मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८७&oldid=403473" इत्यस्माद् प्रतिप्राप्तम्