सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१७९

विकिस्रोतः तः
← सूक्तं १.१७८ ऋग्वेदः - मण्डल १
सूक्तं १.१७९
१-२ लोपामुद्रा, ३-४ अगस्त्यो मैत्रावरुणिः, ५-६ अगस्त्यशिष्यो ब्रह्मचारी
सूक्तं १.१८० →
दे. रतिः। त्रिष्टुप्, ५ बृहती
अगस्त्यः - लोपामुद्रा


पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः ।
मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः ॥१॥
ये चिद्धि पूर्व ऋतसाप आसन्साकं देवेभिरवदन्नृतानि ।
ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥२॥
न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव ।
जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव ॥३॥
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् ।
लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥४॥
इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे ।
यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥५॥
अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः ।
उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥६॥

सायणभाष्यम्

‘पूर्वीरहम्' इति षडृचं पञ्चदशं सूक्तं त्रैष्टुभम् । उपान्त्या बृहती । अत्र त्रयाणां द्वृचानां लोपामुद्रागस्त्यतच्छिष्यैर्दृष्टत्वात्त एवर्षयः । सूक्तप्रतिपाद्योऽर्थों रतिर्देवता । अत्रानुक्रमणिका- पूर्वीः षड्जायापत्योर्लोपामुद्राया अगस्त्यस्य च द्वृचाभ्यां रत्यर्थं संवादं श्रुत्वान्तेवासी ब्रह्मचार्यन्त्ये बृहत्यादी अपश्यत्' इति । विशेषविनियोगो लैङ्गिकः ॥


पू॒र्वीर॒हं श॒रद॑ः शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः ।

मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥१

पू॒र्वीः । अ॒हम् । श॒रदः॑ । श॒श्र॒मा॒णा । दो॒षाः । वस्तोः॑ । उ॒षसः॑ । ज॒रय॑न्तीः ।

मि॒नाति॑ । श्रिय॑म् । ज॒रि॒मा । त॒नूना॑म् । अपि॑ । ऊं॒ इति॑ । नु । पत्नीः॑ । वृष॑णः । ज॒ग॒म्युः॒ ॥१

पूर्वीः । अहम् । शरदः । शश्रमाणा । दोषाः । वस्तोः । उषसः । जरयन्तीः ।

मिनाति । श्रियम् । जरिमा । तनूनाम् । अपि । ऊँ इतिं । नु । पत्नीः । वृषणः । जगम्युः ॥१॥

हे अगस्त्य "अहं लोपामुद्रा “पूर्वीः “शरदः पुरातनानसंख्यातान् संवत्सरान् "दोषाः रात्रीः “वस्तोः अहानि तथा देहं "जरयन्तीः “उष सः उषःकालांश्च ॥ सर्वत्र अत्यन्तकालसंयोगे' द्वितीया ॥ अद्यतनकालपर्यन्तं बहुसंवत्सरं कार्त्स्न्येन त्वच्छुश्रूषया “शश्रमाणा श्रान्ताभूवम् । इदानीं तु "जरि मा जरा “तनूनाम् अङ्गानां "श्रियं सौन्दर्यं “मिनाति हिनस्ति । एवमपि नानुगृह्णासीत्यर्थः । "अप्यू “नु । अपिः संभावनायाम् । उ इत्यवधारणे । नु इति वितर्के । इदानीमपि किं संभावनीयम् । लोके हि पत्नीः स्त्रियः "वृषणः सेक्तारः पुरुषाः "जगम्युः गच्छेयुः संभोगं कुर्युः । अतो मां किमित्यवमन्यसे । इदानीमपि वा संभावयेत्यर्थः ॥ सा तमेव आह –


ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ ।

ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥२

ये । चि॒त् । हि । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । आस॑न् । सा॒कम् । दे॒वेभिः॑ । अव॑दन् । ऋ॒तानि॑ ।

ते । चि॒त् । अव॑ । अ॒सुः॒ । न॒हि । अन्त॑म् । आ॒पुः । सम् । ऊं॒ इति॑ । नु । पत्नीः॑ । वृष॑ऽभिः । ज॒ग॒म्युः॒ ॥२

ये। चित् । हि । पूर्वे । ऋतऽसापः। आसन् । साकम् । देवेभिः । अवदन् । ऋतानि ।

ते। चित् । अव । असुः। नहि। अन्तम् । आपुः। सम् । ॐ इति । नु । पत्नीः। वृषऽभिः। जगम्युः॥२॥

हे पते अगस्त्य "ये “चिद्धि येऽपि तु "पूर्वे पुरातनाः "ऋतसापः सत्यस्य आपयितारो व्याप्नुवाना महर्षयः "आसन ते “देवेभिः देवैः "साकं सह “ऋतानि सत्यवाक्यानि "अवदन् वदन्ति । ये महत्तपो यज्ञं वा अनुतिष्ठन्ति ये च देववाक्यानि देवस्मृतिरूपाणि वदन्ति "ते "चित् । चिदप्यर्थे । ते चित् “अवासुः अवक्षिपन्ति रेतः ॥ स्यतिरुपसृष्टो विमोचने वर्तते ॥ ते "नह्यन्तमापुः नहि ब्रह्मचर्यादेरन्तं प्राप्नुवन् । ब्रह्मचर्यमनिषिद्धर्तुकालगमनमपि कुर्वन्तीत्यर्थः । तथा “पत्नीः पत्न्यश्च तपस्यमानाः “वृषभिः भोगवर्षकैः पतिभिः सह "समू "नु जगम्युः । उ नु इति पूरणौ । संगच्छेरन् । अतस्त्वं कथं मां नानुभवसीत्यर्थः ॥


अगस्त्यस्तामाह---

न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव ।

जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥३

न । मृषा॑ । श्रा॒न्तम् । यत् । अव॑न्ति । दे॒वाः । विश्वाः॑ । इत् । स्पृधः॑ । अ॒भि । अ॒श्न॒वा॒व॒ ।

जया॑व । इत् । अत्र॑ । श॒तऽनी॑थम् । आ॒जिम् । यत् । स॒म्यञ्चा॑ । मि॒थु॒नौ । अ॒भि । अजा॑व ॥३

न । मृषा । श्रान्तम् । यत् । अवन्ति । देवाः । विश्वाः । इत् । स्पृधः । अभि । अश्नवाव ।

जयाव । इत्। अत्र । शतऽनीथम् । आजिम् । यत् । सम्यञ्चा। मिथुनौ। अभि । अजाव ॥३॥

भोः पत्नि त्वया मया "न "मृषा “श्रान्तम् । व्यर्थं नैव खिन्नमावाभ्याम् । "यत् यस्मात् "देवाः “अवन्ति रक्षन्ति तपोभिः प्रीता देवाः। "विश्वाः सर्वाः "स्पृधः "अभ्यश्नवाव अभितो व्याप्नुयाव । “अत्र अस्मिन् संसारे “शतनीथम् अपरिमितभोगप्राप्तिसाधनम् "आजिं प्राप्तिं परस्परं "जयाव जयलक्षणं सुरतसंग्रामं वा जयाव। "यत् यस्मात् "सम्यञ्चा सम्यक् परस्परं गच्छन्तौ प्रजयन्तौ वा मिथुना "मिथुनौ स्त्रीपुरुषरूपौ सन्तौ "अभ्यजाव त्वं चाहमपि परस्परमभिजयावेत्येवं तयोक्तं संभोगं संभावयामास ॥


अथ चतुर्थ्यप्यगस्त्य आह --

न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुत॒ः कुत॑श्चित् ।

लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥४

न॒दस्य॑ । मा॒ । रु॒ध॒तः । कामः॑ । आ । अ॒ग॒न् । इ॒तः । आऽजा॑तः । अ॒मुतः॑ । कुतः॑ । चि॒त् ।

लोपा॑मुद्रा । वृष॑णम् । निः । रि॒णा॒ति॒ । धीर॑म् । अधी॑रा । ध॒य॒ति॒ । श्व॒सन्त॑म् ॥४

नदस्य । मा । रुधतः । कामः । आ । अगन् । इतः । आऽजातः । अमुतः । कुतः । चित् ।

लोपामुद्रा । वृषणम्। निः । रिणाति । धीरम् । अधीरा । धयति । श्वसन्तम् ॥ ४ ॥

हे जाये "नदस्य नदनस्य जपशब्दयितुर्जपाध्ययनकर्तुः “रुधतः रेतोनिरोद्धुर्ब्रह्मचर्यमास्थितस्य॥ उभे कर्मणि षष्ठ्यौ। उक्तलक्षणं मां "कामः "आगन् आगमत् । ‘नदनस्य मा रुधतः काम आगमत्' (निरु. ५.२), इति निरुक्तम् । कस्य हेतोरिति उच्यते। "इतः त्वत्संगमनिमित्तात् तथा "अमुतः वसन्तादिकालात् "कुतश्चित् कारणात् "आजातः सर्वतः उत्पन्नः। यद्वा । इत एतल्लोकजनितादमुतो लोकान्तरजनिताद्वा कुतश्चिन्निमित्तात् कामात् । कथमिति उच्यते । इयं "लोपामुद्रा "वृषणं रेतसः प्रवर्तकं मां “नी "रिणाति नितरां गच्छतु । किंच “धीरं धीमन्तं नियमादविचालिनं “श्वसन्तं महाप्राणं महाबलम् “अधीरा कातरैषा योषित् “धयति उपभुङ्क्ताम् ॥


अथानयोर्दम्पत्योः संभोगसंलापं श्रुत्वा तत्प्रायश्चित्तं चिकीर्षुरुत्तराभ्यामाह । अनयोर्विनियोगः शौनकेनोक्तः-’ इमं नु सोममित्येते द्वे ऋचौ प्रयतो जपन् । सर्वान् कामानवाप्नोति पापेभ्यश्च प्रमुच्यते' ( ऋग्वि. १. १४७ ) इति --

इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे ।

यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्य॑ः ॥५

इ॒मम् । नु । सोम॑म् । अन्ति॑तः । हृ॒त्ऽसु । पी॒तम् । उप॑ । ब्रु॒वे॒ ।

यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒तु॒ । पु॒लु॒ऽकामः॑ । हि । मर्त्यः॑ ॥५

इमम् । नु । सोमम् । अन्तितः । हृत्ऽसु । पीतम् । उप । ब्रुवे ।

यत् । सीम् । आगः । चकृम । तत् । सु । मृळतु । पुलुऽकामः । हि । मर्त्यः ॥ ५ ॥

"अन्तितः समीपे वर्तमानं "पीतं पीयमानं "हृत्सु हृदयप्रदेशेषु स्थितं "इमं सोमं "सीं सर्वतः "नु क्षिप्रं "उपब्रुवे उपेत्य मनसा प्राप्य प्रार्थयते । किं ब्रवीति उच्यते । "यत् "आगः गुर्वोः कामप्रलापश्रवणविषयं पापं “चकृम कृतवन्तो वयं तत् तस्मादागसः स सोमः "सु सम्यक् "मृळ्तु सुखयतु पापजनितदुःखं मा करोत्वित्यर्थः । महत्पापमनुभुज्यमानं प्रार्थनया कथं लुप्यते इति अत आह । "हि यस्मात् मर्त्यः मनुष्यः “पुलुकामः बहुकामनावान् । अल्पेनैव कर्मणा बहुकामानाकलयति । यस्मादेवं तस्मात् परिहरेत्यर्थः। यद्वा । अयमपवर्जनीयतया प्राप्यत इवेत्याह । पुरुकामो हि खलु मर्त्यः कामहतः सन् कामेन निरुद्ध एव वर्तते । अतस्तयोरुसेकोऽयुक्तः। तच्छब्दश्रवणदोषोऽपि प्रामादिकः अस्माकं प्राप्तेन सोमेन परिहर्तव्य इत्यर्थः। यद्वा । अयं मन्त्रश्चन्द्रपरो व्याख्येयो मनसोऽभिमानित्वाच्च तस्य पापस्यापि मनस्येव संभावितत्वात् । अस्मिन् पक्षे हृत्सु पीतं हृदयस्थितमित्यर्थः । शिष्टं स्पष्टम् ॥


अथ विनियुक्तयोर्मध्ये द्वितीयया सूक्ते षष्ठ्या अन्तेवास्याह --

अ॒गस्त्य॒ः खन॑मानः ख॒नित्रै॑ः प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः ।

उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥६

अ॒गस्त्यः॑ । खन॑मानः । ख॒नित्रैः॑ । प्र॒ऽजाम् । अप॑त्यम् । बल॑म् । इ॒च्छमा॑नः ।

उ॒भौ । वर्णौ॑ । ऋषिः॑ । उ॒ग्रः । पु॒पो॒ष॒ । स॒त्याः । दे॒वेषु॑ । आ॒ऽशिषः॑ । ज॒गा॒म॒ ॥६

अगस्त्यः । खनमानः । "खनित्रैः । प्रऽजाम् । अपत्यम् । बलम् । इच्छमानः ।

उभौ । वर्णौ । ऋषिः । उग्रः । पुपोष । सत्याः । देवेषु । आऽशिषः । जगाम ॥ ६ ॥

अयम् "अगस्त्यः मद्गुरुः “खनित्रैः फलस्योत्पादनसाधनैर्यज्ञस्तोत्रादिभिः “खनमानः फलमभिमतमुत्पादयन् "प्रजां प्रकर्षेण पुनःपुनर्जायमानम् "अपत्यं कुलस्यापतनसाधनं पुत्रादिकं "बलं च “इच्छमानः सन् । यद्वा । प्रजां भृत्यादिरूपां च इच्छन् । “ऋषिः अतीन्द्रियद्रष्टा महानुभावः "उग्रः उद्गूर्णः संसारे संचरन्नप्यपापः सन् “उभौ “वर्णौ वर्णनीयावाकारौ कामं च तपश्च "पुपोष। "सत्याः आशिषः “देवेषु देवेभ्यः "जगाम प्राप्तवान् । यतोऽयं महानुभावस्तस्मादस्मान् पातीत्यर्थः ॥ ॥ २२ ।। ।। २३ । ।


१.१७९.४

आख्यानं तु हये जाये विलापः स्यान्नदस्य मा । अवीरामात्मनः श्लाघा सुदेव इति तु स्पृहा ।।बृहद्देवता १.५३ ।।


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७९&oldid=207946" इत्यस्माद् प्रतिप्राप्तम्