सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१६५

विकिस्रोतः तः

{

← सूक्तं १.१६४ ऋग्वेदः - मण्डल १
सूक्तं १.१६५
१,२,४,६,८,१०-१२ इन्द्रः, ३,५,७,९ मरुतः, १३-१५ अगस्त्यो मैत्रावरुणिः।
सूक्तं १.१६६ →
दे. मरुत्वानिन्द्रः। त्रिष्टुप्।
जावाप्रान्ते धर्मप्रचारकः अगस्त्यऋषिः

कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः ।
कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ॥१॥
कस्य ब्रह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त ।
श्येनाँ इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥२॥
कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था ।
सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्ते अस्मे ॥३॥
ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः ।
आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ॥४॥
अतो वयमन्तमेभिर्युजानाः स्वक्षत्रेभिस्तन्वः शुम्भमानाः ।
महोभिरेताँ उप युज्महे न्विन्द्र स्वधामनु हि नो बभूथ ॥५॥
क्व स्या वो मरुतः स्वधासीद्यन्मामेकं समधत्ताहिहत्ये ।
अहं ह्युग्रस्तविषस्तुविष्मान्विश्वस्य शत्रोरनमं वधस्नैः ॥६॥
भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः ।
भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम ॥७॥
वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् ।
अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥८॥
अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ अस्ति देवता विदानः ।
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥९॥
एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा ।
अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ॥१०॥
अमन्दन्मा मरुत स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र ।
इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः ॥११॥
एवेदेते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः ।
संचक्ष्या मरुतश्चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥१२॥
को न्वत्र मरुतो मामहे वः प्र यातन सखीँरच्छा सखायः ।
मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ॥१३॥
आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा ।
ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥१४॥
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥१५॥


सायणभाष्यम्

त्रयोविंशेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘कया शुभा ' इति पञ्चदशर्चं प्रथमं सूक्तं त्रैष्टुभम् । अत्रानुक्रमणिका- कया पञ्चोना संवादस्तृतीयाद्ययुजो मरुतां वाक्यमन्त्यस्तृचोऽगस्त्यस्य शिष्टा इन्द्रस्यैकादशी च मरुत्वांस्त्विन्द्रो देवता ' इति । अत्र इन्द्रागस्त्यमरुतां संवादः प्रतिपाद्यते । तत्र तृतीयापञ्चमीसप्तमीनवमीनां मरुद्वाक्यरूपत्वात् ते एव ऋषयः। 'यस्य वाक्यं स ऋषिः' (अनु. २.४) इति न्यायात् । अन्त्यतृचस्यागस्त्यवाक्यत्वात् स एव ऋषिः । शिष्टा युज आद्या च एकादशी च इन्द्रस्य वाक्यम् । अतः स एव ऋषिः । अत्र ‘या तेनोच्यते सा देवता' (अनु. २.५) इति सामान्यापवादेन कृत्स्नस्य मरुत्वद्गुणक इन्द्रो देवता । संसवचातुर्विंशकयोर्मरुत्वतीयशस्त्रे निविद्वानीयापूर्वमेतत्सूक्तम्। 'यदि पर्यायान्', ‘मरुत्वतीये' इति खण्डयोः सूत्रितं-‘कया शुभेति च मरुत्वतीये पुरस्तात्सूक्तस्य शंसेत् ' ( आश्व. श्रौ. ६. ६; ७. ३ ) इति । आभिप्लविके पञ्चमेऽहनि मरुत्वतीये एतदेव सूक्तम् । ‘पञ्चमस्य कया शुभा यस्तिग्मशृङ्ग इति मध्यदिनः' (आश्व. श्रौ.. ७.७ ) इति सूत्रितत्वात् । महाव्रते मरुत्वतीयशस्त्र एतत्सूक्तम् । पञ्चमारण्यके- कया शुभा सवयसः सनीळा मरुत्वाँ इन्द्र वृषभो रणाय ' ( ऐ. आ. ५.१.१ ) इत्युक्तत्वात् । विषुवति मरुत्वतीये एतदेव निविद्धानीयम् । ‘त्यं सु मे कया शुभेति च मरुत्वतीयम् ' ( आश्व. श्रौ.. ८.६ ) इति सूत्रितत्वात् । अस्य विनियोगं शौनक आह----’ज्ञातिपुत्रसुहृन्मित्रैर्यश्च राज्यं चिकीर्षति । नित्यं स नियतो भूत्वा सूक्तं तु मनसा जपेत् । कया शुभेति पैशुन्यं कृत्वाचार्यनृपद्विजैः । श्रुत्वा पररहस्यं तु गुरोरप्याह शौनकः ' ( ऋग्वि. १. १४५-१४६ ) इति ॥

कया॑ शु॒भा सव॑यस॒ः सनी॑ळाः समा॒न्या म॒रुत॒ः सं मि॑मिक्षुः ।

कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ॥१

कया॑ । शु॒भा । सऽव॑यसः । सऽनी॑ळाः । स॒मा॒न्या । म॒रुतः॑ । सम् । मि॒मि॒क्षुः॒ ।

कया॑ । म॒ती । कुतः॑ । आऽइ॑तासः । ए॒ते । अर्च॑न्ति । शुष्म॑म् । वृष॑णः । व॒सु॒ऽया ॥१

कया। शुभा । सऽवयसः । सऽनीळाः । समान्या । मरुतः । सम् । मिमिक्षुः ।

कया। मती। कुतः । आऽइतासः । एते । अर्चन्ति । शुष्मम् । वृषणः । वसुऽया ॥ १ ॥

इन्द्रवाक्यम् । "सवयसः समानवयस्काः "सनीळाः समानस्थानाः एते "मरुतः "कया “शुभा कैरपि दुर्ज्ञेयया शोभया “समान्या सर्वेषामेकरूपया महत्या युक्ताः । यद्वा । शुबित्युदकनाम । उक्तरूपया शुभा उदकेन । “सं "मिमिक्षुः लोकं सम्यक् सिञ्चन्ति। मिहिसमानार्थः मिमिक्षतिधातुः ॥ यद्वा । मां युद्धादिषु प्रवर्तमानं सं मिमिक्षुः । तदर्थम् एते मरुतः “कया अनिश्चेयया "मती मत्या “कुतः देशात् "एतासः आगताः । आगत्य च "एते "वृषणः वर्षितारः "वसूया वसूयया ॥ ‘सुपां सुलक्° ' इति पूर्वसवर्णदीर्घः ।। धनेच्छया। यद्वा । वसवो वासयितारो वा ॥ तेनैव जसो याजादेशः ।। “शुष्मं बलं वृष्टिप्रदानजनितं लोके “अर्चन्ति पूजयन्ति जगति कुर्वन्ति। यद्वा । मम बलं वर्धयन्तीत्यर्थः। ‘मरुतो हैनं नाजहुः ' ( ऐ. ब्रा. ३.२० ) इति श्रुतेः । अत्र इन्द्रमरुत्संवादरूपे सर्वत्र प्राणजीवात्मपरतयापि योजनीयम् । अत्रापि इन्द्रो ब्रूते ।।


कस्य॒ ब्रह्मा॑णि जुजुषु॒र्युवा॑न॒ः को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त ।

श्ये॒नाँ इ॑व॒ ध्रज॑तो अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ॥२

कस्य॑ । ब्रह्मा॑णि । जु॒जु॒षुः॒ । युवा॑नः । कः । अ॒ध्व॒रे । म॒रुतः॑ । आ । व॒व॒र्त॒ ।

श्ये॒नान्ऽइ॑व । ध्रज॑तः । अ॒न्तरि॑क्षे । केन॑ । म॒हा । मन॑सा । री॒र॒मा॒म॒ ॥२

कस्य । ब्रह्माणि । जुजुषुः । युवानः । कः । अध्वरे । मरुतः । आ । ववर्त।

श्येनान्ऽइव । ध्रजतः । अन्तरिक्षे । केन । महा। मनसा । रीरमाम ॥ २ ॥

"युवानः नित्यतरुणाः महानुभावाः मरुतः कस्य महाभागस्य “ब्रह्माणि परिवृढानि हवींषि “जुजुषुः सेवन्ते । "कः च महान् "अध्वरे स्वकीये यागे “मरुतः एतान् “आ “ववर्त यागान्तरेभ्यो निवर्तयति । दुर्निग्रहत्वे दृष्टान्तमाह। "अन्तरिक्षे “ध्जतः गच्छतः “श्येनान् शंसनीयगमनान एतन्नामकान् पक्षिणः “इव। “केन तत्प्रीतिसाधनेन "महा महता "मनसा मननवता स्तोत्रेण “रीरमाम रमेमहि ॥


अथ मरुत इन्द्रेणोक्तास्तृतीययानया प्रतिब्रुवते ॥

कुत॒स्त्वमि॑न्द्र॒ माहि॑न॒ः सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था ।

सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ॥३

कुतः॑ । त्वम् । इ॒न्द्र॒ । माहि॑नः । सन् । एकः॑ । या॒सि॒ । स॒त्ऽप॒ते॒ । किम् । ते॒ । इ॒त्था ।

सम् । पृ॒च्छ॒से॒ । स॒म्ऽअ॒रा॒णः । शु॒भा॒नैः । वो॒चेः । तत् । नः॒ । ह॒रि॒ऽवः॒ । यत् । ते॒ । अ॒स्मे इति॑ ॥३

कुतः । त्वम् । इन्द्र । माहिनः । सन् । एकः । यासि । सत्पते । किम् । ते । इत्था ।

सम् । पृच्छसे । सम्ऽअराणः। शुभानैः। वोचेः । तत् । नः । हरिऽवः । यत् । ते । अस्मे इति ॥३॥

हे "इन्द्र "सत्पते सतां पालक “त्वं "माहिनः महनीयः पूजनीयः अनुचरैरनुगन्तव्य इत्यर्थः । तथाभूतः "सन् अपि “एकः असहायः सन् “कुतः "यासि कुतः कारणाद्यासि । यद्वा । कुत्र यासि । “ते तव “इत्था इत्थं "किम् । किं त्वमेवमेव किं न कोऽप्यनुचरोऽस्ति । किंच त्वं "समराणः अस्माभिः संगच्छमानः "सं “पृच्छसे समीचीनं पृच्छसि । हे "हरिवः हरिभ्यां तद्वन्निन्द्र “ते तव "अस्मे अस्मासु "यत् वक्तुमिष्टतममस्ति "तत् "नः अस्मभ्यं “शुभानैः शोभमानैर्वचनैः "वोचेः ब्रूहि ॥


ब्रह्मा॑णि मे म॒तय॒ः शं सु॒तास॒ः शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रि॑ः ।

आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ॥४

ब्रह्मा॑णि । मे॒ । म॒तयः॑ । शम् । सु॒तासः॑ । शुष्मः॑ । इ॒य॒र्ति॒ । प्रऽभृ॑तः । मे॒ । अद्रिः॑ ।

आ । शा॒स॒ते॒ । प्रति॑ । ह॒र्य॒न्ति॒ । उ॒क्था । इ॒मा । हरी॒ इति॑ । व॒ह॒तः॒ । ता । नः॒ । अच्छ॑ ॥४

ब्रह्माणि । मे। मतयः । शम् । सुतासः । शुष्मः । इयर्ति । प्रऽभृतः । मे। अद्रिः ।

आ। शासते । प्रति। हर्यन्ति । उक्था । इमा । हरी इति। वहतः। ता । नः। अच्छ॥४॥

अथैवं तैः पृष्टोऽनया चतुर्थ्या इन्द्रः प्रत्याह । हे मरुतः "ब्रह्माणि सर्वाणि कर्माणि हवींषि वा “मे मम स्वभूतानि । तथा “मतयः चे मननयुक्ताः स्तुतयश्च मे मम “शं सुखकार्याः। यद्वा । मे मतयो बुद्धयः तेष्वेव वर्तन्ते इति शेषः । तथा “सुतासः अभिषुताः सोमाः मे मदीया मदर्था एव । अतो यज्ञं प्रति गन्तव्यमित्यर्थः। किंच मध्ये राक्षसादिबाधपरिहाराय “शुष्मः । बलनामैतत् । बलवान् "मे मदीयः अद्रिः शत्रूणां भक्षको वज्रः “प्रभृतः सन् “इयर्ति गच्छत्येव लक्ष्यं प्रति न च निवर्तते। न केवलं हविरादीनां मदीयत्वमेव अपि तु यजमानाः “आ “शासते मामेव प्रार्थयन्ते । किंच “उक्था उक्थानि शस्त्राणि मां "प्रति "हर्यन्ति कामयन्ते मामेव शंसन्तीत्यर्थः । किंच "नः अस्मदीयौ “इमा “हरी इमौ अश्वौ “ता तानि गन्तव्यानि हविरादीनि अच्छ अभिप्राप्तुं मां “वहतः अभिमतदेशं प्रापयतः । अत एव शीघ्रं गच्छामि । युष्माभिरपि तत्प्राप्तुं गन्तव्यमित्यर्थः । अतोऽसहाय इति मन्तव्यमिति भावः ।।


अतो॑ व॒यम॑न्त॒मेभि॑र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॒॑ः शुम्भ॑मानाः ।

महो॑भि॒रेताँ॒ उप॑ युज्महे॒ न्विन्द्र॑ स्व॒धामनु॒ हि नो॑ ब॒भूथ॑ ॥५

अतः॑ । व॒यम् । अ॒न्त॒मेभिः॑ । यु॒जा॒नाः । स्वऽक्ष॑त्रेभिः । त॒न्वः॑ । शुम्भ॑मानाः ।

महः॑ऽभिः । एता॑न् । उप॑ । यु॒ज्म॒हे॒ । नु । इन्द्र॑ । स्व॒धाम् । अनु॑ । हि । नः॒ । ब॒भूथ॑ ॥५

अतः । वयम् । अन्तमेभिः । युजानाः । स्वऽक्षत्रेभिः । तन्वः । शुम्भमानाः ।

मह:ऽभिः । एतान् । उप । युज्महे । नु । इन्द्र । स्वधाम् । अनु। हि। नः । बभूथ ॥ ५ ॥

एवमुक्ता मरुतः तमेवं ब्रुवते । हे इन्द्र त्वं यस्मात् एवं करोषि “अतः कारणात् “वयम् अपि “अन्तमेभिः अन्तिकतमैः अश्वैः "युजानाः युक्ताः सन्तः । कीदृशैः । स्वक्षत्रेभिः स्वायत्तबलैः। किंच “महोभिः तेजोभिः "तन्वः आत्मशरीराणि “शुम्भमानाः दीपयन्तः हर्षं प्राप्नुवाना इत्यर्थः । यद्वा । महोभिः स्वमहत्त्वेन युक्ता वयम् “एतान् गन्तून् नु क्षिप्रम् "उप "युज्महे तव साकं हविरादि स्वीकुर्महे इत्यर्थः। हे “इन्द्र त्वमपि “नः अस्मत्संबन्धि “स्वधाम् उदकं बलं वा “अनु "बभूथ “हि अस्मत्सृष्टोदकजन्यं हविः अनुभवसि खलु । हिशब्दः परस्परोपकार्योपकारिभावप्रसिद्धिद्योतनार्थः ॥ ॥ २४ ।।


क्व१॒॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑ ।

अ॒हं ह्यु१॒॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ॥६

क्व॑ । स्या । वः॒ । म॒रु॒तः॒ । स्व॒धा । आ॒सी॒त् । यत् । माम् । एक॑म् । स॒म्ऽअध॑त्त । अ॒हि॒ऽहत्ये॑ ।

अ॒हम् । हि । उ॒ग्रः । त॒वि॒षः । तुवि॑ष्मान् । विश्व॑स्य । शत्रोः॑ । अन॑मम् । व॒ध॒ऽस्नैः ॥६

क्व। स्या। वः। मरुतः । स्वधा । आसीत्। यत्। माम् । एकम् । सम्ऽअधत्त । अहिऽहत्ये।

अहम् । हि । उग्रः । तविषः । तुविष्मान् । विश्वस्य । शत्रोः । अनमम् । वधऽस्नैः ॥ ६ ॥

"स्या सा "स्वधा तदुदकं बलं वा “वः युष्माकं संबन्धि "क्व आसीत् नैवासीदित्यर्थः । अस्माकमुदकं त्वमनुभवसीति ब्रूथ। "यत् या स्वधा “एकम् असहायं माम् "अहिहत्ये वृष्टयर्थं मेघहननकर्मणि वृत्रवधे वा “समधत्त सहितमभूत् । समासीदिति संबन्धः । असहायस्य कथमिति मतं सेत्स्यतीति अतः आह । "अहं “हि अहं खलु “उग्रः उद्गूर्णबलः “तविषः बलवान् “तुविष्मान् महत्त्वोपेतोऽस्मि । यस्मात् अतिबलोऽहं तस्मात् "विश्वस्य कृत्स्नस्य “शत्रोः मेघस्य । शत्रुरेवायम् ॥ कर्मणि षष्ठी ॥ सर्वं शत्रुसंघं वधस्नैः वधरूपैः शोधनैः वधकौशलैरित्यर्थः । यद्वा । वध इति वज्रनाम । वधस्नैर्वज्रस्यासनैः क्षेपणप्रकारैः । अनमम् अनमयम् । अन्तर्भावितण्यर्थोयम् ॥ वशीकरोमीत्यर्थः ॥


भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः ।

भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेन्द्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म ॥७

भूरि॑ । च॒क॒र्थ॒ । युज्ये॑भिः । अ॒स्मे इति॑ । स॒मा॒नेभिः॑ । वृ॒ष॒भ॒ । पौंस्ये॑भिः ।

भूरी॑णि । हि । कृ॒णवा॑म । श॒वि॒ष्ठ॒ । इन्द्र॑ । क्रत्वा॑ । म॒रु॒तः॒ । यत् । वशा॑म ॥७

भूरि । चकर्थ । युज्येभिः । अस्मे इति । समानेभिः । वृषभ । पौंस्येभिः ।

भूरीणि । हि । कृणवाम । शविष्ठ । इन्द्र । क्रत्वा । मरुतः । यत् । वशाम ॥ ७ ॥

अथैवमुक्ताः इन्द्रं पुनराहुः । हे इन्द्र "वृषभ वर्षितः त्वं भूरि “चकर्थ प्रभूतं कृतवानसि सत्यमेव । तथापि "अस्मे अस्माकं "समानेभिः समानैः "युज्येभिः अस्माभिर्युक्तैः "पौंस्येभिः पुंसः कर्मभिः सामर्थ्यैरेव चकर्थ । न तु एक एवेत्यर्थः । हे "शविष्ठ । शव इति बलनाम। हे इन्द्र बलवत्तम वयं "भूरीणि "हि त्वत्कृतादपि प्रभूतानि कर्माणि कृणवाम कृतवन्तः स्म । हे “इन्द्र “क्रत्वा क्रतुना कर्मणा "यत् यद्वृष्ट्यादिकं “वशाम कामयामहे । तानि त्वत्तोऽप्यधिकानीत्यर्थः । यतो वयं "मरुतः ॥ छान्दसमनुदात्तत्वम् ॥ एतेन स्वमहत्त्वं स्थापितं भवति । स्वरो व्यस्तः । अथवा इन्द्रस्येदं वाक्यम् । हे मरुतः यत् यस्यैव तत् तस्यैव भवतु । तर्हि अहं च यूयं च सहैव क्रत्वा कर्मणा यद्वशाम यत् वृष्टिकर्मं कामयामहे तस्मादुदकं समानमेवेत्यर्थः । एवं मरुत इति निघातस्वरस्य व्याख्यानम् ॥


वधीं॑ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् ।

अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥८

वधी॑म् । वृ॒त्रम् । म॒रु॒तः॒ । इ॒न्द्रि॒येण॑ । स्वेन॑ । भामे॑न । त॒वि॒षः । ब॒भू॒वान् ।

अ॒हम् । ए॒ताः । मन॑वे । वि॒श्वऽच॑न्द्राः । सु॒ऽगाः । अ॒पः । च॒क॒र॒ । वज्र॑ऽबाहुः ॥८

वधीम् । वृत्रम् । मरुतः । इन्द्रियेण । स्वेन । भामेन । तविषः । बभूवान् ।

अहम् । एताः । मनवे । विश्वऽचन्द्राः । सुऽगाः । अपः । चकर । वज्रऽबाहुः ॥ ८ ॥

इदानीम् इन्द्रः आह । हे "मरुतः "अहम् इन्द्रः "इन्द्रियेण "स्वेन “भामेन कोपेन “तविषः बलवान् "बभूवान् भूतः संपन्नः । कस्मै कमिति तदुच्यते । "मनवे मनोरर्थाय “एताः "विश्वश्चन्द्राः सर्वाह्लादकाः "सुगाः सुगमनाः सर्वत्र नद्यादिषु गमनशीलाः "अपः वृष्ट्युदकानि “चकर चकार कृतवानस्मि । यतोऽहं "वज्रबाहुः । अनेन सहायनैरपेक्ष्यमुक्तं भवति ॥


अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः ।

न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥९

अनु॑त्तम् । आ । ते॒ । म॒घ॒ऽव॒न् । नकिः॑ । नु । न । त्वाऽवा॑न् । अ॒स्ति॒ । दे॒वता॑ । विदा॑नः ।

न । जाय॑मानः । नश॑ते । न । जा॒तः । यानि॑ । क॒रि॒ष्या । कृ॒णु॒हि । प्र॒ऽवृ॒द्ध॒ ॥९

अनुत्तम् । आ । ते । मघऽवन् । नकिः । नु । न । त्वाऽवान् । अस्ति । देवता । विदानः ।

न। जायमानः । नशते । न । जातः । यानि । करिष्या । कृणुहि । प्रऽवृद्ध ॥ ९ ॥

इदानीं ते मरुतो हर्षेण प्रत्याहुः । ॥ "आ इति स्मरणे । स्मृतवन्तो वयम् इदानीं हे "मघवन् "ते त्वया “अनुत्तम् अप्रेरितं "नकिर्नु नैवास्ति । नु निश्चये । त्वया यदुक्तं तत्सत्यमित्यर्थः । हे देव “त्वावान् त्वत्सदृशः “विदानः विद्वान् ॥ व्यत्ययेन शानच् ॥ जयोपायवेदिता “देवता देवः “न "अस्ति । किंच हे "प्रवृद्ध अतिबल "जायमानः "जातः वा कश्चिद्देवो मर्त्यो वा त्वं "यानि वृत्रवधादीनि "करिष्या कर्तव्यानि “कृणुहि कुरुषे तानि "न "नशते न व्याप्नोति । नशतिर्व्याप्तिकर्मा । नान्यः त्वच्चेष्टितानुकार्येवेत्यर्थः ।।


एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा ।

अ॒हं ह्यु१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी॑श एषाम् ॥१०

एक॑स्य । चि॒त् । मे॒ । वि॒ऽभु । अ॒स्तु॒ । ओजः॑ । या । नु । द॒धृ॒ष्वान् । कृ॒णवै॑ । म॒नी॒षा ।

अ॒हम् । हि । उ॒ग्रः । म॒रु॒तः॒ । विदा॑नः । यानि॑ । च्यव॑म् । इन्द्रः॑ । इत् । ई॒शे॒ । ए॒षा॒म् ॥१०

एकस्य । चित् । मे। विऽभु । अस्तु । ओजः । या । नु । दधृष्वान् । कृणवै । मनीषा ।

अहम् । हि। उग्रः । मरुतः। विदानः । यानि । च्यवम्। इन्द्रः । इत्। ईशे। एषाम् ॥१०॥

इदानीम् इन्द्र आह। “मे मम “एकस्य चित् एकस्यैव "विभु सर्वत्रगमनशीलम् “ओजः बलम् “अस्तु । यद्वा । बलम् एकस्यैवास्तु किमर्थमिति चेत् उच्यते । "या यानि कर्माणि "मनीषा मनीषया मनसः ईषया "दधृष्वान् धर्षितवानहं नु क्षिप्रं "कृणवै कर्तुं शक्नुवानि । हे "मरुतः अहं “हि अहं खलु “उग्रः उद्गूर्णबलः "विदानः वेदनावान् । "यानि यानि वसूनि "च्यवं अवगच्छामि “एषाम् अहमेव “इन्द्र “इत् ईश्वर एव सन् "ईशे ईश्वरो भवामि । अथवा विदानोऽहं यानि च्यवं यान्युद्दिश्य गच्छेयं एषामीशे । यतोऽहमिन्द्रः अतः शक्त इत्यर्थः ॥ ॥ २५ ॥


अम॑न्दन्मा मरुत॒ः स्तोमो॒ अत्र॒ यन्मे॑ नर॒ः श्रुत्यं॒ ब्रह्म॑ च॒क्र ।

इन्द्रा॑य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा॑यस्त॒न्वे॑ त॒नूभि॑ः ॥११

अम॑न्दत् । मा॒ । म॒रु॒तः॒ । स्तोमः॑ । अत्र॑ । यत् । मे॒ । न॒रः॒ । श्रुत्य॑म् । ब्रह्म॑ । च॒क्र ।

इन्द्रा॑य । वृष्णे॑ । सुऽम॑खाय । मह्य॑म् । सख्ये॑ । सखा॑यः । त॒न्वे॑ । त॒नूभिः॑ ॥११

अमन्दत् । मा । मरुतः । स्तोमः । अत्र । यत् । मे । नरः । श्रुत्यम् । ब्रह्म । चक्र ।

इन्द्राय । वृष्णे । सुऽर्मखाय । मह्यम् । सख्ये । सखायः । तन्वे । तनूभिः ॥ ११ ॥

इदमपि इन्द्रवाक्यम् । हे "मरुतः "मा माम् "अत्र अस्मिन् उदकोत्पादनविषये "स्तोमः स्तोत्रम् "अमन्दत् मादयति मोदयते वा । हे "नरः "सखायः यूयं "मे मम "यत् “श्रुत्यं सर्वैः श्रोतव्यं "ब्रह्म परिवृढमेघधारणादिरूपं "चक्र कृतवन्तः। ‘स्वप्रभूतं स्तोत्रं वानुत्तमा ते' इत्यादिकम् । “इन्द्राय परमैश्वर्यगुणकाय “वृष्णे अभिसतवर्षित्रे "सुमखाय शोभनयागाय “सख्ये युष्माभिः समानख्यानाय “तनूभिः अनेकशरीरैरुपेताय "मह्यं मम “तन्वे मदीयशरीरपोषाय भवतु । यद्वा । तनूभिरस्मच्छरीरभूतैर्युष्माभिः कृतं मह्यमेवास्त्वित्यर्थः ॥


ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने॑द्य॒ः श्रव॒ एषो॒ दधा॑नाः ।

सं॒चक्ष्या॑ मरुतश्च॒न्द्रव॑र्णा॒ अच्छा॑न्त मे छ॒दया॑था च नू॒नम् ॥१२

ए॒व । इत् । ए॒ते । प्रति॑ । मा॒ । रोच॑मानाः । अने॑द्यः । श्रवः॑ । आ । इषः॑ । दधा॑नाः ।

स॒म्ऽचक्ष्य॑ । म॒रु॒तः॒ । च॒न्द्रऽव॑र्णाः । अच्छा॑न्त । मे॒ । छ॒दया॑थ । च॒ । नू॒नम् ॥१२

एव । इत् । एते । प्रतिं । मा । रोचमानाः । अनेद्यः । श्रवः । आ । इषः । दधानाः ।

सम्ऽचक्ष्य । मरुतः । चन्द्रऽवर्णाः । अच्छान्त । मे। छदयाथ । च । नूनम् ॥ १२ ॥

हे मरुतः “एवेत् एवमेव “एते यूयं "मा मां "प्रति "रोचमानाः मद्विषये संप्रीयमाणा मां ख्यापयन्तो वा “अनेद्यः अनन्तिकस्थं “श्रवः कीर्तिम् "इषः च दधानाः । "आ इति चार्थे । यद्वा । अनेद्य इति प्रशस्यनाम । प्रशस्यं यशोऽस्मत्तो दधाना अस्माभिर्वा धारयमाणाः । "चन्द्रवर्णाः ।। चन्द्रमिति हिरण्यनाम । सुवर्णवर्णा यूयं "मे मां "संचक्ष्य सम्यक्प्रकाश्य "नूनं निश्चयम् "अच्छान्त यशोभिराच्छादितवन्तः “छदयाथ आच्छादयथ “च । मां प्रति सर्वदा रोचमाना मय्येव कीर्तिमन्नं च दधाना मत्कृतैः कर्मभिर्मामेव स्तुतेत्यर्थः ॥


को न्वत्र॑ मरुतो मामहे व॒ः प्र या॑तन॒ सखीँ॒रच्छा॑ सखायः ।

मन्मा॑नि चित्रा अपिवा॒तय॑न्त ए॒षां भू॑त॒ नवे॑दा म ऋ॒ताना॑म् ॥१३

कः । नु । अत्र॑ । म॒रु॒तः॒ । म॒म॒हे॒ । वः॒ । प्र । या॒त॒न॒ । सखी॑न् । अच्छ॑ । स॒खा॒यः॒ ।

मन्मा॑नि । चि॒त्राः॒ । अ॒पि॒ऽवा॒तय॑न्तः । ए॒षाम् । भू॒त॒ । नवे॑दाः । मे॒ । ऋ॒ताना॑म् ॥१३

कः । नु । अत्र । मरुतः । ममहे । वः । प्र। यातन । सखीन् । अच्छ । सखायः ।

मन्मानि । चित्राः । अपिऽवातयन्तः । एषाम् । भूत । नवेदाः । मे । ऋतानाम् ॥ १३ ॥

हे मरुतः युष्मान् अत्र लोके “को "नु खलु मर्त्यः "ममहे पूजयति । हे "सखायः सर्वस्य सखिवत्प्रियकारिणः सन्तः "सखीन् हविष्प्रदानेन सखिभूतान् यजमानान् "अच्छ आभिमुख्येन प्राप्तुं “प्र “यातन गच्छत । हे "चित्राः चायनीयाः यूयं "मन्मानि मननीयानि धनानि "अपिवातयन्तः संपूर्णं प्रापयन्तः "भूत भवत । किंच "मे मदीयानाम् "एषाम् “ऋतानाम् अवितथानां “नवेदाः भूत ज्ञातारो भवत ।।


आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा ।

ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत् ॥१४

आ । यत् । दु॒व॒स्यात् । दु॒वसे॑ । न । का॒रुः । अ॒स्मान् । च॒क्रे । मा॒न्यस्य॑ । मे॒धा ।

ओ इति॑ । सु । व॒र्त्त॒ । म॒रु॒तः॒ । विप्र॑म् । अच्छ॑ । इ॒मा । ब्रह्मा॑णि । ज॒रि॒ता । वः॒ । अ॒र्च॒त् ॥१४

आ। यत् । दुवस्यात् । दुवसे । न । कारुः । अस्मान् । चक्रे । मान्यस्य । मेधा ।

ओ इति । सु। वर्त्त। मरुतः। विप्रम्। अच्छ। इमा। ब्रह्माणि । जरिता । वः । अर्चत् ॥१४॥

हे मरुतः "दुवस्यात् युष्मत्परिचरणार्हात् स्तोत्रात् तेन स्तोत्रेण "दुवसे परिचरणाय पर्याप्ता "कारुः कर्त्री स्तुतिकुशला "मान्यस्य माननीयस्य विदुषः “मेधा बुद्धिः “अस्मान् । “न इति संप्रत्यर्थे । इदानींतनान् “आ “चक्रे आभिमुख्येन करोति प्राप्नोतीत्यर्थः । यद्वा । षष्ठीबहुवचने' इदं रूपम् । दुवस्यानां परिचरणार्हाणां दुवसे परिचरणायेत्यर्थः । अतो हे "मरुतः यूयं विप्रं मेधाविनं यजमानं माम् अगस्त्यम् "अच्छ आभिमुख्येन प्राप्तुं "सु सुष्टु “ओ “वर्त्त । ओ इति निपातद्वयसमुदायरूपः एको निपातः । आङित्याभिमुख्येन। उकारोऽवधारणे । आवर्तध्वमेव । किमर्थमेवमिति उच्यते । “इमा “ब्रह्माणि इमानि परिवृढानि कर्माण्युद्दिश्य "जरिता स्तोता “वः युष्मान् "अर्चत् अर्चति । यस्मादेवं तस्मादावर्तध्वमित्यर्थः । ।


ए॒ष व॒ः स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।

एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥१५

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।

आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥१५

एषः। वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।।

आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् !! १५ ॥

हे "मरुतः “एषः "स्तोमः इदानींक्रियमाणप्रकारं स्तोत्रं वः युष्मदर्थं युष्मत्प्रीणनाय भवत्वित्यर्थः । तथा “इयं "गीः स्तुतिरूपा वागपि वो युष्मदर्थाय । यस्मात् एवं तस्मात् "मान्दार्यस्य स्तुतिविशेषैर्मन्दयितुः स्तुतिभिर्मदस्य प्रेरयितुर्वा "मान्यस्य वरप्रदानादिना माननीयस्य "कारोः स्तोतुः “इषा इच्छया “आ “यासीष्ट आगच्छत । किमर्थम् । “तन्वे शरीराय तत्पोषायेत्यर्थः। “वयां वयमपि “इषम् अन्नं "वृजनं बलं "जीरदानुं जयशीलदानम् एतत्सर्वं विद्याम । युष्मास्वागतेषु यज्ञसंपूर्त्येष्ट्यादिद्वारा लभेमहि ॥ ॥ २६ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके तृतीयोऽध्यायः समाप्तः ।।


टिप्पणी

अगस्त्योपरि पौराणिकाः संदर्भाः

अगस्त्योपरि टिप्पणी

१.१६५.१५ विद्यामेषं वृजनं जीरदानुम्

इष उपरि टिप्पणी


kaya çubha savayasaḥ sanidaḥ (CC. sanilaḥ) RV.१.१६५.१; MS.४.११.३: १६८.६; KS.९.१८";

कया शुभा सवयसः सनीळा इति सूक्तं न जायमानो नशते न जात इति जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु कयाशुभीयमेतद्वै संज्ञानं संतनि सूक्तं यत्कयाशुभीयमेतेन ह वा इन्द्रोऽगस्त्यो मरुतस्ते समजानत तद्यत्कयाशुभीयं शंसति संज्ञात्या एव तद्वायुष्यं तद्योऽस्य प्रियः स्यात्कुर्यादेवास्य कयाशुभीयं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधार - ऐब्रा.५.१६.१३;

चतुर्विंशशस्त्राणि - कया शुभा सवयसः सनीडा इति मरुत्वतीयम् । तस्य अनुत्तमा ते मघवन् नकिर्न्व् इति नवमी । तया परिदधात्य् उत्तराः पूर्वाः शस्त्वा । मारुत्यो हि ता भवन्ति । अथ एषा निष्केवल्या । तस्माद् एतया परिदधाति । तस्मिन् वा अस्ति समान्या मरुतः सम् मिमिक्षुर् इति । संवत् तत् संवत्सरम् अभिवदति । तद् एतस्य अह्नो रूपम् ।-कौब्रा.१९.९;

कया शुभा सवयसः सनीडा इति द्वितीयस्य कया इति कद्वत् । को वै प्रजापतिः । प्रजापतिः स्वर सामानः । कौब्रा २४.५;

विषुवत्कालः - कया शुभा सवयसः सनीडा इति मरुत्वतीयम् । शुभा भा इत्य् एतेन रूपेण । - कौब्रा २५.३,

कया शुभा सवयसः सनीडा इति मरुत्वतीयम् । कद्वत् कया शुभीयम् । को वै प्रजापतिर् विश्वजित् । - कौब्रा २५.११;

प्रथमछन्दोमः-कया शुभा सवयसः सनीडा इति मरुत्वतीयम् । तद् एतत् संज्ञा श्रीः सूक्तम् । एतेन ह वा इन्द्रश् च मरुतश् च समजानत । अभिसंजानते ह वा अस्मै स्वा श्रैष्ठ्याय य एवम् वेद । कया मती कुत एतास एत इत्य् आवद् राथन्तरम् - कौब्रा.२६.९;

AA.१.२.२.९; ५.१.१.८;

वाजपेयप्रकरणम् - कया शुभा सवयसः सनीला इति मरुत्वतीयं कद्वत्कयाशुभीयम् ९ को वै प्रजापतिर्वाजपेयः १०- शां.श्रौ.सू. १५.२.९.

Ps: kaya çubha savayasaḥ MC.११.२; kaya çubha AÇ.६. ६.१४; ७-३-३; ७-५,६; ८.६.६; ९.८.९,२२; ९.६; १०.३; १०.५.२२;

दशरात्रे सप्तममहः - एवं स्वरसाम्नाम् ११ कया शुभा त्यं सु मेषमिति मरुत्वतीयम् १२ - शां.श्रौ.१०.९.१२;

दशरात्रे नवममहः - स यो वृषेति पञ्चदशोर्ध्वं कयाशुभीयात् १२ - शांश्रौ १०.११.१२;

चतुर्विंशस्तोमप्रकरणम् - कयाशुभीयं मरुत्वतीयम् ४ - शांश्रौ. ११.२.४;

स्वरसामप्रकरणम् - क्व स्य वीर इति प्रथमस्य स्वरसाम्नो मरुत्वतीयं कयाशुभीयं द्वितीयस्य गायत्सामेति तृतीयस्य ९ - शांश्रौ. ११.११.९;

विषुवत्प्रकरणम् - कया शुभा त्यं सुमेषं जनिष्ठा उग्र इति मरुत्वतीयम् - शांश्रौसू. ११.१३.२०;

संसवप्रकरणम् - कयाशुभीयं मरुत्वतीयम् १५ सजनीयं निष्केवल्यम् १६ विहव्यो वैश्वदेवम् १७ - शांश्रौसू. १३-५-१५;

एकाहप्रकरणम् -कयाशुभीयतदिदासीये वा निविद्धाने ९ - शांश्रौ १४. ३९.९;

एकाहप्रकरणम् - कयाशुभीयतदिदासीये वा निविद्धाने ५ - शां.श्रौ १४.८४.५;

वाजपेयप्रकरणम् - कया शुभा सवयसः सनीला इति मरुत्वतीयं कद्वत्कयाशुभीयम् ९ को वै प्रजापतिर्वाजपेयः १० १५.२.९;

एकाहप्रकरणम् - कयाशुभीयं चातुर्थाह्निके चैकाहिकात्पूर्वाणीति मरुत्वतीयम् १ - शांश्रौ १५.७.१;

१६.२१.३१; २३.१८; Rvidh.१. २६.४. Designated as kaya-çubhiya (sc. sukta)

मात्सर्यप्रवृत्तगवामयनद्वय विशेषाभिधानम् - छन्दाꣳसि वै संवेश उपवेशः । छन्दोभिर् एवैषां2 छन्दाꣳसि वृङ्क्ते सजनीयꣳ शस्यम् । विहव्यꣳ शस्यम् अगस्त्यस्य कयाशुभीयꣳ शस्यम् एतावद् वा अस्ति यावद् एतत् ।तैसं. .७.५.५.२;

MS.२.१.८: १०.८; KS.१०.११; ३४-४;

PB. ९.४.१७;

सप्तदशं स्तोमा नातियन्ति प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोति। अगस्त्यो वै मरुद्भ्य उक्ष्णः प्रौक्षत् तानिन्द्रायाबध्नात् ते वज्रमादायाभ्यपतन् स एतत् कयाशुभीयमपश्यत् तेनाशमयत्। यत् कयाशुभीयं शस्यते शान्त्या एव पंविं २१.१४.५.६;

पञ्चशारदीये पशुविधिः - अगस्त्यो मरुद्भ्य उक्ष्णः प्रौक्षत् । तानिन्द्र आदत्त । त एनं वज्रमुद्यत्याभ्यायन्त । तानगस्त्यश्चैवेन्द्र श्च कयाशुभीयेनाशमयताम् । ताण्शान्तानुपाह्वयत । यत्कयाशुभीयं भवति शान्त्यै - तैब्रा.२.७.११.१;

AÇ.७.७.६; ९.८.२२; १०. ५.२२;

दशरात्रे नवममहः - निष्केवल्यमरुत्वतीययोश्च जागतान्युत्सृजति ११ स यो वृषेति पञ्चदशोर्ध्वं कयाशुभीयात् १२ - शां.श्रौ..१०.११.१२, etc.;

I.C.४.१०.८; KC.२५.१४.१८;

गवामयने सोमप्रायश्चित्तम् - अभिजित्कार्योऽभिजित्यै । विश्वजित्कार्यो विश्वजित्यै । सर्वपृष्ठः सर्वस्तोमोऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्यावरुद्ध्या इति विज्ञायते ९ सजनीयं शस्यं विहव्यं शस्यमगस्त्यस्य कयाशुभीयं निष्केवल्यम् । तानि शंसेत् १० सजनीयं प्रातःसवनिके वैश्वदेवे ऽनुप्रोहेत् । विहव्यं माध्यंदिनीये मरुत्वतीये । अगस्त्यस्य कयाशुभीयं निष्केवल्यं तार्तीयसवनिके वैश्वदेवेऽनुप्रोहेत्- आप.श्रौ.सू. १४.१९.१० (bis).

मारुतैन्द्रस्तु संवादः कयेति परमः स्मृतः । मरुतामयुजस्त्वैन्द्रयो युग्माः सर्वाः सहान्त्यया ।। ४४। । एकादशी प्रथमा च मारुतस्तृच उत्तरः । तृचस्यैव तु तत्रोक्तं कर्तृत्वमितरस्य तु ।। ४५।। इतिहासः पुरावृत्त ऋषिभिः परिकीर्त्यते । समागच्छन्मरुद्भिस्तु चरन्व्योम्नि शतक्रतुः ।। ४६।। दृष्टवा तुष्टाव तानिन्द्रस् ते चेन्द्रमृषयोऽब्रुवन् । तेषामगस्त्यः संवादं तपसा वेद तत्त्वतः ।। ४७।।बृहद्देवता ४-४४


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६५&oldid=401917" इत्यस्माद् प्रतिप्राप्तम्