सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.९४

विकिस्रोतः तः
← सूक्तं १.९३ ऋग्वेदः - मण्डल १
सूक्तं १.९४
कुत्स आङ्गिरसः
सूक्तं १.९५ →
दे. अग्निः(जातवेदाः), ८ (त्रयः पादाः) देवाः, १६ उत्तरार्धस्य अग्निः, मित्रवरुणादितिसिन्धुपृथिवीद्यावो वा। जगती, १५-१६ त्रिष्टुप्।
यज्ञसारथि गानम्
सरोवरे पद्मः

इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥१॥
यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् ।
स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥२॥
शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् ।
त्वमादित्याँ आ वह तान्ह्युश्मस्यग्ने सख्ये मा रिषामा वयं तव ॥३॥
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् ।
जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥४॥
विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः ।
चित्रः प्रकेत उषसो महाँ अस्यग्ने सख्ये मा रिषामा वयं तव ॥५॥
त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः ।
विश्वा विद्वाँ आर्त्विज्या धीर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव ॥६॥
यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे ।
रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥७॥
पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः ।
तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव ॥८॥
वधैर्दुःशंसाँ अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः ।
अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ॥९॥
यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।
आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥१०॥
अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् ।
सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥११॥
अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः ।
मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव ॥१२॥
देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे ।
शर्मन्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव ॥१३॥
तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः ।
दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥१४॥
यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता ।
यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥१५॥
स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१६॥


सायणभाष्यम्

पञ्चदशेऽनुवाके द्वादश सूक्तानि । तत्र ‘ इमं स्तोमम्' इति षोडशर्चं प्रथमं सूक्तम् । आङ्गिरसस्य कुत्सस्यार्षम् । पञ्चदशीषोडश्यौ त्रिष्टुभौ शिष्टा जगत्यः । अग्निर्देवता । पूर्वो देवा भवतु सुन्वतो रथः' इति त्रयः पादा देवदेवत्याः। तन्नो मित्रो वरुणः ' इति अर्धर्चो लिङ्गोक्तमित्रावरुणादिषड्देवत्यः । अथवा तस्याप्यग्निरेव देवता मित्रावरुणादयस्तु निपातभाक्त्वेनाप्रधानाः । एतत्सर्वमनुक्रान्तम्- ‘इमं षोळश कुत्स आग्नेयं तद्द्वित्रिष्टुबन्तं पूर्वो देवास्त्रयः पादा दैवास्तन्नो मित्रोऽर्धर्चो लिङ्गोक्तदेवतो यद्देवत्यं वा सूक्तम्' इति । प्रातरनुवाकस्याग्नेये क्रतौ जागते छन्दस्येतत् सूक्तम् आश्विनशस्त्रे च । तथा च सूत्रितम्- ' इमं स्तोममर्हते सं जागृवद्भिः ' (आश्व. श्रौ. ४. १३) इति । आभिप्लविके षष्ठेहन्याग्निमारुतेऽप्येतत्सूक्तं जातवेदस्यनिविद्धानम् । सूत्रितं च-’ प्रयज्यव इमं स्तोममित्याग्निमारुतम् (आश्व. श्रौ. ७. ७) इति । तृतीयसवने ‘इमं स्तोमम्' इत्येषा अग्नीधः प्रस्थितयाज्या । सूत्रितं च - इमं स्तोममर्हते जातवेदस इति तार्तीयसवनिक्यः ' ( आश्व. श्रौ. ५. ५. ) इति ॥


इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ ।

भ॒द्रा हि न॒ः प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥१

इ॒मम् । स्तोम॑म् । अर्ह॑ते । जा॒तऽवे॑दसे । रथ॑म्ऽइव । सम् । म॒हे॒म॒ । म॒नी॒षया॑ ।

भ॒द्रा । हि । नः॒ । प्रऽम॑तिः । अ॒स्य॒ । स॒म्ऽसदि॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥१

इमम् । स्तोमम् । अर्हते । जातऽवेदसे । रथम्ऽइव । सम् । महेम । मनीषया ।

भद्रा । हि । नः । प्रऽमतिः । अस्य । सम्ऽसदि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥१

“अर्हते पूज्याय "जातवेदसे जातानामुत्पन्नानां वेदित्रे जातप्रज्ञाय जातधनाय वाग्नये “मनीषया निशितया बुद्ध्या “इमम् एतत्सूक्तरूपं “स्तोमं स्तोत्रं “रथमिव यथा तक्षा रथं संस्करोति तथा “सं "महेम सम्यक् पूजितं कुर्मः । “अस्य अग्नेः "संसदि संभजने "नः अस्माकं “प्रमतिः प्रकृष्टा बुद्धिः “भद्रा “हि कल्याणी समर्था खलु । अतस्तया बुद्ध्या स्तुम इत्यर्थः । हे “अग्ने “तव “सख्ये अस्माकं त्वया सह सखित्वे सति “वयं “मा “रिषाम हिंसिता न भवाम । अस्मान् रक्षेत्यर्थः ॥ अर्हते। ‘अर्ह पूजायाम्। ‘ अर्हः प्रशंसायाम् ' ( पा. सू. ३. २. १३३) इति लटः शत्रादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च अदुपदेशात् लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । महेम । ‘ मह पूजायाम् । रिषाम् । ‘ रिष हिंसायाम्' । व्यत्ययेन शः । तव । ‘युष्मदस्मदोर्सि। ' इत्याद्युदात्तत्वम् ।


यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्य॑म् ।

स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥२

यस्मै॑ । त्वम् । आ॒ऽयज॑से । सः । सा॒ध॒ति॒ । अ॒न॒र्वा । क्षे॒ति॒ । दध॑ते । सु॒ऽवीर्य॑म् ।

सः । तू॒ता॒व॒ । न । ए॒न॒म् । अ॒श्नो॒ति॒ । अं॒ह॒तिः । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥२

यस्मै । त्वम् । आऽयजसे । सः । साधति । अनर्वा । क्षेति । दधते । सुऽवीर्यम् ।

सः । तूताव । न । एनम् । अश्नोति । अंहतिः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥२

“यस्मै यजमानाय हे “अग्ने “त्वम् “आयजसे देवानाभिमुख्येन यजसि “सः यजमानः “साधति स्वाभिलषितं साधयति । प्राप्नोतीत्यर्थः। किंच स यजमानः "अनर्वा शत्रुभिरप्रत्यृतः सन् "क्षेति निवसति । तथा “सुवीर्यं शोभनवीर्योपेतं धनं “दधते धारयति । प्राप्नोतीत्यर्थः। धृत्वा च "सः यजमानः "तूताव वर्धते । “एनं यजमानम् “अंहतिः आर्तिर्दारिद्र्यं “न “अश्नोति न प्राप्नोति । अन्यत् पूर्ववत् ॥ साधति । ‘ षिधु संराद्धौ । णिचि • सिध्यतेरपारलौकिके ' ( पा. सू. ६. १. ४९ ) इति आत्वम् । ‘ छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् “ णेरनिटि ' इति णिलोपः । क्षेति । ' क्षि निवासगत्योः '।' बहुलं छन्दसि ' इति विकरणस्य लुक् । दधते । दध धारणे' । भौवादिकः । तूताव । तु इति वृद्ध्यर्थः सौत्रो धातुः । अस्मात् छान्दसो लिट् । तुजादित्वात् अभ्यासस्य दीर्घत्वम् । अश्नोति । व्यत्ययेन परस्मैपदम् । अंहतिः । ‘ हन्तेरहं च' ( उ. सू. ४. ५०२ ) इति अतिप्रत्ययः । ‘ चित् ' इत्यनुवृत्तेः अन्तोदात्तत्वम् ॥


श॒केम॑ त्वा स॒मिधं॑ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ।

त्वमा॑दि॒त्याँ आ व॑ह॒ तान्ह्यु१॒॑श्मस्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥३

श॒केम॑ । त्वा॒ । स॒म्ऽइध॑म् । सा॒धय॑ । धियः॑ । त्वे इति॑ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ।

त्वम् । आ॒दि॒त्यान् । आ । व॒ह॒ । तान् । हि । उ॒श्मसि॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥३

शकेम । त्वा । सम्ऽइधम् । साधय । धियः । त्वे इति । देवाः । हविः । अदन्ति । आऽहुतम् ।

त्वम् । आदित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥३

हे "अग्ने “त्वा त्वां “समिधं सम्यगिद्धं कर्तुं “शकेम शक्ता भूयास्म । त्वं च “धियः अस्मदीयानि दर्शपूर्णमासादीनि कर्माणि “साधय निष्पादय । त्वया हि सर्वे यागा निष्पाद्यन्ते । यस्मात् “त्वे त्वय्यग्नौ “आहुतम् ऋत्विग्भिः प्रक्षिप्तं चरुपुरोडाशादिकं “हविः "देवाः “अदन्ति भक्षयन्ति । तस्मात् त्वं साधयेत्यर्थः । अपि च “त्वम् “आदित्यान् अदितेः पुत्रान् सर्वान् देवान् “आ “वह अस्मद्यज्ञार्थमानय । 'तान् “हि इदानीमेव वयम् “उश्मसि कामयामहे । अन्यत् पूर्ववत् ॥ शकेम । ‘शक्लृ शक्तौ । लिङ्याशिष्यङ्' । अदुपदेशात् लसार्वधातुकानुदात्तत्वेऽङ एव स्वरः शिष्यते। समिधम् । ‘ ञिइन्धी दीप्तौ । अस्मात् संपदादिलक्षणः कर्मणि क्विप् । त्वे । ‘सुपां सुलुक्' इति सप्तम्येकवचनस्य शेआदेशः । उश्मसि । “ वश कान्तौ ' । इदन्तो मसिः । अदादित्वात् शपो लुक् । ‘ ग्रहिज्या ' इत्यादिना संप्रसारणम् ॥


भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तय॑न्त॒ः पर्व॑णापर्वणा व॒यम् ।

जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥४

भरा॑म । इ॒ध्मम् । कृ॒णवा॑म । ह॒वींषि॑ । ते॒ । चि॒तय॑न्तः । पर्व॑णाऽपर्वणा । व॒यम् ।

जी॒वात॑वे । प्र॒ऽत॒रम् । सा॒ध॒य॒ । धियः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥४

भराम । इध्मम् । कृणवाम । हवींषि । ते । चितयन्तः । पर्वणाऽपर्वणा । वयम् ।

जीवातवे । प्रऽतरम् । साधय । धियः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥४

हे “अग्ने त्वद्यागार्थम् “इध्मम् इन्धनसाधनमेकविंशतिदार्वात्मकं समित्समूहं "भराम संपादयाम। तदनन्तरं “ते तुभ्यं “हवींषि चरुपुरोडाशादिलक्षणान्यन्नानि “वयं “कृणवाम करवाम । किं कुर्वन्तः । “पर्वणापर्वणा प्रतिपक्षमावृत्ताभ्यां दर्शपूर्णमासाभ्यां “चितयन्तः त्वां प्रज्ञापयन्तः । स त्वं “जीवातवे अस्माकं जीवनौषधाय चिरकालावस्थानाय “धियः कर्माण्यग्निहोत्रादीनि “प्रतरं प्रकृष्टतरं “साधय निष्पादय । अन्यत् समानम् ॥ चितयन्तः ॥ ‘ चिती संज्ञाने' । संज्ञापूर्वकस्य विधेरनित्यत्वात् लघूपधगुणाभावः । पर्वणापर्वणा । नित्यवीप्सयोः' इति वीप्सायां द्विर्भावः। तस्य परमाम्रेडितम् इति परस्याम्रेडितसंज्ञायाम् ‘ अनुदात्तं च ' इत्यनुदात्तत्वम् । प्रतरम् । तरबन्तात् प्रशब्दात् क्रियाप्रकर्षे वर्तमानात् “ अमु च च्छन्दसि ' ( पा. सू. ५. ४. १२ ) इति अमुप्रत्ययः ॥


वि॒शां गो॒पा अ॑स्य चरन्ति ज॒न्तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभिः॑ ।

चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥५

वि॒शाम् । गो॒पाः । अ॒स्य॒ । च॒र॒न्ति॒ । ज॒न्तवः॑ । द्वि॒ऽपत् । च॒ । यत् । उ॒त । चतुः॑ऽपत् । अ॒क्तुऽभिः॑ ।

चि॒त्रः । प्र॒ऽके॒तः । उ॒षसः॑ । म॒हान् । अ॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥५

विशाम् । गोपाः । अस्य । चरन्ति । जन्तवः । द्विऽपत् । च । यत् । उत । चतुःऽपत् । अक्तुऽभिः ।

चित्रः । प्रऽकेतः । उषसः । महान् । असि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥५

“अस्य अग्नेः "जन्तवः जाता रश्मयः “विशां सर्वेषां प्राणिनां “गोपाः । गोपायितारो रक्षकाः सन्तः “चरन्ति उद्गच्छन्ति । तदनन्तरं “यत् च “द्विपत् द्विपात् मनुष्यादिकमस्ति “उत अपि च “चतुष्पत् चतुष्पात् गवादिकं यदस्ति तदुभयम् 'अक्तुभिः अञ्जकैः अस्य रश्मिभिरक्तम् आश्लिष्टमभूत् । हे “अग्ने “चित्रः विचित्रदीप्तियुक्तः “प्रकेतः रात्रावन्धकारावृतानां सर्वेषां प्रज्ञापयिता प्रदर्शयिता “उषसः उषोदेवताया अपि “महान गुणैरधिकः “असि भवसि । उषास्तु रात्रेश्चरमभागे प्रकाशयति अग्निस्तु सर्वस्यां रात्रौ प्रकाशयतीति तस्य गुणाधिक्यम् ॥ गोपाः । ‘ गुपू रक्षणे'। ‘गुपूधूपविच्छिं ' (पा. सू. ३. १. २८) इति आयप्रत्ययः । अस्मात् क्विप् । अतो लोपः । ‘ वेरपृक्तलोपाद्वलि लोपो बलीयान्' इति पूर्वं वलि लोपः। न चातो लोपस्य स्थानिवत्त्वं, ‘न पदान्त' इत्यादिना यलोपं प्रति तन्निषेधात्। द्विपत् । द्वौ पादावस्येति बहुव्रीहौ ‘ संख्यासुपूर्वस्य ' ( पा. सू. ५. ४. १४० ) इति पादशब्दस्य अन्त्यलोपः समासान्तः । अयस्मयादित्वेन भत्वे ' पादः पत्' ( पा. सू. ६. ४. १३० ) इति पद्भावः । एकदेशविकृतस्यानन्यवत्त्वात् ( परिभा. ३७ ) ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु° ' ( पा. सू. ६. २. १९७ ) इत्युत्तरपदान्तोदात्तत्वम् । चतुष्पत् । पूर्ववत् समासान्तः पद्भावश्च । ‘ इदुदुपधस्य चाप्रत्ययस्य ' इति विसर्जनीयस्य षत्वम् । ‘त्रः संख्यायाः ' (फि. सू. २८) इति चतुर्शब्द आद्युदात्तः । स एव बहुव्रीहिस्वरेण शिष्यते ॥ ॥ ३० ॥


त्वम॑ध्व॒र्युरु॒त होता॑सि पू॒र्व्यः प्र॑शा॒स्ता पोता॑ ज॒नुषा॑ पु॒रोहि॑तः ।

विश्वा॑ वि॒द्वाँ आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥६

त्वम् । अ॒ध्व॒र्युः । उ॒त । होता॑ । अ॒सि॒ । पू॒र्व्यः । प्र॒ऽशा॒स्ता । पोता॑ । ज॒नुषा॑ । पु॒रःऽहि॑तः ।

विश्वा॑ । वि॒द्वान् । आर्त्वि॑ज्या । धी॒र॒ । पु॒ष्य॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥६

त्वम् । अध्वर्युः । उत । होता । असि । पूर्व्यः । प्रऽशास्ता । पोता । जनुषा । पुरःऽहितः ।

विश्वा । विद्वान् । आर्त्विज्या । धीर । पुष्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥६

हे “अग्ने “त्वम् “अध्वर्युः अध्वरस्य यागस्य नेता देवान्प्रति प्रेरयिता यद्वा यागे आध्वर्यवस्य कर्ता भवसि । अध्वर्यौ मनुष्ये जठररूपेण वागिन्द्रियाधिष्ठातृत्वेन वावस्थाय यागनिष्पादकः असि । “उत अपि च पूर्व्यः मुख्यः "होता देवानामाह्वाता पूर्ववद्धोतर्यवस्थाय हौत्रस्य कर्मणः कर्ता वा “असि भवसि । मानुषो होता अमुख्यः । तदपेक्षयास्य मुख्यत्वम् । तथा “प्रशास्ता प्रकर्षेण शास्ता सर्वेषां शिक्षकोऽसि । यद्वा । ‘ होतर्यज पोतर्यज' इत्यादिना प्रेषेण शास्तीति मैत्रावरुणः प्रशास्ता । पूर्ववत् तस्मिन्नवस्थाय यागनिष्पादकोऽसि। “पोता यज्ञस्य पावयिता शोधयितासि । यद्वा पोतृनामकस्य ऋत्विजः पूर्ववदधिष्ठाय यागनिष्पादकोऽसि । तथा “जनुषा जन्मना स्वाभाव्येन “पुरोहितः पुरस्तादागामिनि स्वर्गादौ हितोऽनुकूलाचरणोऽसि । यद्वा । सर्वेषु कर्मसु पूर्वस्यां दिश्याहवनीये स्थापितोऽसि । अथवा पुरोहितो ब्रह्मा देवपुरोहितस्य बृहस्पतेः प्रतिनिधित्वात् । तथा च मन्त्रान्तरम्-’ बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणाम् ' (तै. ब्रा. ३. ७. ६. ३) इति । अतस्तस्मिन्ब्रह्मणि पूर्ववदवस्थाय तद्रूपः सन् “विश्वा सर्वाणि 'आर्त्विज्या ऋत्विजः कर्माण्यध्वर्यवादीनि “विद्वान् जानंस्त्वं हे “धीर प्राज्ञ “अग्ने “पुष्यसि न्यूनाधिकभावराहित्येन संपूर्णानि करोषि । अन्यत् समानम् ॥ जनुषा । जनेरुसिः । पुरोहितः । दधातेः कर्मणि निष्ठा । पूर्वाधर' इत्यादिना असिप्रत्ययान्तः पूरस्शब्दोऽन्तोदात्तः । ‘ तद्धितश्चासर्वविभक्तिः' इति अव्ययसंज्ञायां ‘ पुरोऽव्ययम्' इति मतित्वात् ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । आर्वि शज्या । ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादाद्युदात्तत्वम् ॥


यो वि॒श्वतः॑ सु॒प्रती॑कः स॒दृङ्ङसि॑ दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे ।

रात्र्या॑श्चि॒दन्धो॒ अति॑ देव पश्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥७

यः । वि॒श्वतः॑ । सु॒ऽप्रती॑कः । स॒ऽदृङ् । असि॑ । दू॒रे । चि॒त् । सन् । त॒ळित्ऽइ॑व । अति॑ । रो॒च॒से॒ ।

रात्र्याः॑ । चि॒त् । अन्धः॑ । अति॑ । दे॒व॒ । प॒श्य॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥७

यः । विश्वतः । सुऽप्रतीकः । सऽदृङ् । असि । दूरे । चित् । सन् । तळित्ऽइव । अति । रोचसे ।

रात्र्याः । चित् । अन्धः । अति । देव । पश्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥७

हे “अग्ने “यः त्वं "सुप्रतीकः शोभनाङ्गः सन् “विश्वतः सर्वस्मादपि “सदृङ्ङसि अन्यूनः सदृशो भवसि स त्वं “दूरे "चित् “सन् दूरेऽपि वर्तमानः सन् "तळिदिव । अन्तिकनामैतत् । अन्तिके वर्तमान इव "अति “रोचसे अतिशयेन दीप्यसे । तदुक्तं यास्केन- दूरेऽपि सन्नन्तिक इव संदृश्यसे ( निरु. ३. ११ ) इति। "रात्र्याश्चित् रात्रेरपि रात्रेः संबन्धिनम् “अन्धः बहुलमन्धकारमपि हे “देव द्योतमान अग्ने “अति “पश्यसि अतीत्य प्रकाशसे । अन्यत् पूर्ववत् ॥ सुप्रतीकः । शोभनं प्रतीकोऽङ्गं यस्य । क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तत्वम् । सदृङ्। ‘ समानान्ययोश्चेति वक्तव्यम् ( पा. सू. ३. २. ६०. १ ) इति समानोपपदात् दृशेः क्विन् । दृग्दृशवतुषु ' ( पा. सू. ६. ३. ८९ ) इति समानस्य सभावः । ‘ दृक्स्ववःस्वतवसां छन्दसि ' ( पा. सू. ७. १. ८३ ) इति नुम् । संयोगान्तलोपः । क्विन्प्रत्ययस्य कुः' इति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । रात्र्याः । ‘ रात्रेश्चाजसौ ' ( पा. सू. ४. १. ३१ ) इति ङीप् ॥


पूर्वो॑ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो॑ अ॒भ्य॑स्तु दू॒ढ्यः॑ ।

तदा जा॑नीतो॒त पु॑ष्यता॒ वचोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥८

पूर्वः॑ । दे॒वाः॒ । भ॒व॒तु॒ । सु॒न्व॒तः । रथः॑ । अ॒स्माक॑म् । शंसः॑ । अ॒भि । अ॒स्तु॒ । दुः॒ऽध्यः॑ ।

तत् । आ । जा॒नी॒त॒ । उ॒त । पु॒ष्य॒त॒ । वचः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥८

पूर्वः । देवाः । भवतु । सुन्वतः । रथः । अस्माकम् । शंसः । अभि । अस्तु । दुःऽध्यः ।

तत् । आ । जानीत । उत । पुष्यत । वचः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥८

हे “देवाः अग्न्यवयवभूताः सर्वे देवाः “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य “रथः “पूर्वः अन्येषामयजमानानां रथेभ्यो मुख्यः “भवतु । अपि च "अस्माकं “शंसः शंसनीयमभिशापरूपं पापं दूढ्यः दुर्धियः पापबुद्धीन् अस्मदनिष्टाचरणपराञ्छत्रून “अभ्यस्तु अभिभवतु तान् बाधताम् । “तत् इदं मद्वाक्यं हे देवाः “आ “जानीत आभिमुख्येनावगच्छत । “उत अपि च तत् "वचः अस्मदीयं वचनं तदर्थाचरणेन “पुष्यत प्रवर्धयत । हे सर्वदेवात्मक “अग्ने । सख्ये इत्यादि पूर्ववत् ॥ सुन्वतः । ‘ शतुरनुमः० ' इति विभक्तेरुदात्तत्वम् । शंसः । शंस्यते कीर्य् ते इति शंसोऽभिशापः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । दूढ्यः । दुष्टं ध्यायन्तीति दुर्धियः । ‘ ध्यै चिन्तायाम्' इत्यस्मात् ‘क्विप् च ' इति क्विप् । दृशिग्रहणानुवृत्तेस्तस्य च विध्यन्तरोपसंग्रहार्थत्वात् संप्रसारणम् । पृषोदरादिषु ' ध्यै च इति पाठात् दुरो रेफस्योत्वं उत्तरपदादेः ष्टुत्वं च ।।


व॒धैर्दु॒ःशंसाँ॒ अप॑ दू॒ढ्यो॑ जहि दू॒रे वा॒ ये अन्ति॑ वा॒ के चि॑द॒त्रिणः॑ ।

अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥९

व॒धैः । दुः॒ऽशंसा॑न् । अप॑ । दुः॒ऽध्यः॑ । ज॒हि॒ । दू॒रे । वा॒ । ये । अन्ति॑ । वा॒ । के । चि॒त् । अ॒त्रिणः॑ ।

अथ॑ । य॒ज्ञाय॑ । गृ॒ण॒ते । सु॒ऽगम् । कृ॒धि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥९

वधैः । दुःऽशंसान् । अप । दुःऽध्यः । जहि । दूरे । वा । ये । अन्ति । वा । के । चित् । अत्रिणः ।

अथ । यज्ञाय । गृणते । सुऽगम् । कृधि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥९

हे “अग्ने त्वं “वधैः हननसाधनैरायुधैः “दुःशंसान दुःखेन कीर्तनीयान् "दूढ्यः दुर्धियः पापबुद्धीन “अप "जहि वधं प्रापय । “ये “के “चित् ये केचन “दूरे विप्रकृष्टदेशे “वा अन्तिके समीपदेशे “वा वर्तमानाः "अत्रिणः अत्तारो राक्षसादयो विद्यन्ते तान् दुर्धियोऽप जहीत्यर्थः । “अथ अनन्तरं “यज्ञाय यज्ञपतये "गृणते त्वां स्तुवते यजमानाय “सुगं शोभनं मार्गं “कृधि कुरु । अन्यत् पूर्ववत् ॥ वधैः । ‘ हनश्च वधः' इति हन्तेः करणेऽप् वधादेशश्च । स च अदन्तोऽन्तोदात्तः । तस्यातो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् । दुःशंसान् । 'ईषद्दुःसुषु ' इति कर्मणि खल् । ' लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । जहि । लोटि हिः । 'हन्तेर्जः' इति जादेशः । तस्य • असिद्धवदत्रा भात्' इति असिद्धत्वात् हेर्लुगभावः । अन्ति । अन्तिकस्य ‘कादिलोपो बहुलम्' इति कलोपः । अत्रिणः । ‘ अदेस्त्रिनि च ' इति त्रिनिप्रत्ययः । इकारो नकारपरित्राणार्थः । गृणते । शतुरनुमः । इति विभक्तेरुदात्तत्वम् । सुगम् । ‘ सुदुरोरधिकरणे ' ( पा. सू. ३. २. ४८. ३ ) इति गमेर्डः । कृधि । श्रुशृणुपॄकृवृभ्यश्छन्दसि ' इति हेर्धिः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥


यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये॑व ते॒ रवः॑ ।

आदि॑न्वसि व॒निनो॑ धू॒मके॑तु॒नाग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥१०

यत् । अयु॑क्थाः । अ॒रु॒षा । रोहि॑ता । रथे॑ । वात॑ऽजूता । वृ॒ष॒भस्य॑ऽइव । ते॒ । रवः॑ ।

आत् । इ॒न्व॒सि॒ । व॒निनः॑ । धू॒मऽके॑तुना । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥१०

यत् । अयुक्थाः । अरुषा । रोहिता । रथे । वातऽजूता । वृषभस्यऽइव । ते । रवः ।

आत् । इन्वसि । वनिनः । धूमऽकेतुना । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥१०

हे “अग्ने “अरुषा आरोचमानौ “रोहिता लोहितवर्णौ। रोहित इत्यग्नेरश्वस्याख्या ‘रोहितोऽग्नेः' (नि. १. १५.२ ) इति दर्शनात् । ‘रोहितेन त्वाग्निर्देवतां गमयतु' (तै. सं. १. ७. ४. ३) इति मन्त्रवर्णाच्च । ‘ एते वै देवाश्वाः' (तै. सं. १. ७. ४. ३ ) इति हि तत्र व्याख्यातम् । “वातजूता । वातस्य वायोर्जूतं जवो वेग इव वेगो ययोस्तौ। ईदृशावश्वौ “रथे “यत् यदा “अयुक्थाः अयोजयः तदानीं वनानि दहतः “ते तव “रवः शब्दः “वृषभस्येव दृप्तस्य महोक्षस्य शब्द इव गम्भीरो भवति । “आत् अनन्तरं “वनिनः वनसंबद्धान वृक्षान् “धूमकेतुना धूमः केतुः प्रज्ञापको यस्य तादृशेन रश्मिना “इन्वसि व्याप्नोषि । अन्यत् पूर्ववत् ॥ अयुक्थाः । ‘ युजिर योगे' । लुङि ‘झलो झलि ' इति सकारलोपः । अरुषेत्यादिद्विवचनेषु ‘ सुपां सुलुक्° ' इति आकारः । रवः । ‘ रु शब्दे'।' ऋदोरप्' इति भावे अप । इन्वसि । इवि व्याप्तौ '। भौवादिकः । इदित्त्वात् नुम् ॥ ॥ ३१ ॥


अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् ।

सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥११

अध॑ । स्व॒नात् । उ॒त । बि॒भ्युः॒ । प॒त॒त्रिणः॑ । द्र॒प्साः । यत् । ते॒ । य॒व॒स॒ऽअदः॑ । वि । अस्थि॑रन् ।

सु॒ऽगम् । तत् । ते॒ । ता॒व॒केभ्यः॑ । र॒थे॒भ्यः । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥११

अध । स्वनात् । उत । बिभ्युः । पतत्रिणः । द्रप्साः । यत् । ते । यवसऽअदः । वि । अस्थिरन् ।

सुऽगम् । तत् । ते । तावकेभ्यः । रथेभ्यः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥११

हे “अग्ने “अध दग्धुं वनप्रवेशानन्तरं “स्वनात् त्वदीयात् पूर्वोक्तगम्भीरशब्दात् । उतशब्दोऽप्यर्थः । “पतत्रिणः पक्षिणोऽपि “बिभ्युः बिभ्यति भयं प्राप्नुवन्ति । उत्पतनेन देशान्तरं गन्तुं समर्थाः पक्षिणोऽपि यदा भयं प्राप्नुवन्ति किमु वक्तव्यमन्येषां तत्रत्यानां वृकादीनां भीतिर्जायते इति । अतस्त्वयि वनं प्रविशति सर्वे प्राणिनो भयं प्राप्नुवन्तीत्यर्थः । तादृशस्य “ते तव “द्रप्साः ज्वालैकदेशाः “यवसादः यवसानामरण्ये वर्तमानानां तृणानामत्तारः सन्तः “यत् यदा “व्यस्थिरन विविधमवतिष्ठन्ते “तत् तदा “ते तव सर्वमरण्यं "सुगं सुखेन गन्तुं शक्यम् । अतः “तावकेभ्यः त्वदीयेभ्यः “रथेभ्यः च तदरण्यं सुगं भवति । पूर्वं प्रवृत्तैर्ज्वालाग्रैः तृणादिषु दग्धेषु सत्सु त्वदीया रथाः प्रतिबन्धमन्तरेण पश्चाद्गच्छन्तीति भावः। अन्यत् समानम् ॥ बिभ्युः । ‘ ञिभी भये । छान्दसो लिट् । ‘ एरनेकाचः० ' इति यण् । व्यस्थिरन् । ‘ समवप्रविभ्यः' इति तिष्ठतेरात्मनेपदम् । लुङि व्यत्ययेन झस्य रन् । स्थाध्वोरिच्च' इति इस्वम् । ‘ ह्रस्वादङ्गात् ' ( पा. सू. ८. २. २७) इति सलोपः । तावकेभ्यः । ‘ तवकममकावेकवचने' ( पा. सू. ४. ३. ३ ) इति युष्मदस्तवकादेशः ॥ ।


अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः ।

मृ॒ळा सु नो॒ भूत्वे॑षां॒ मन॒ः पुन॒रग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥१२

अ॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाय॑से । अ॒व॒ऽया॒ताम् । म॒रुता॑म् । हेळः॑ । अद्भु॑तः ।

मृ॒ळ । सु । नः॒ । भूतु॑ । ए॒षा॒म् । मनः॑ । पुनः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥१२

अयम् । मित्रस्य । वरुणस्य । धायसे । अवऽयाताम् । मरुताम् । हेळः । अद्भुतः ।

मृळ । सु । नः । भूतु । एषाम् । मनः । पुनः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥१२

"अयम् अग्नेः स्तोता “मित्रस्य अहरभिमानिनो देवस्य “वरुणस्य राज्यभिमानिनश्च संबन्धिने “धायसे धारणायावस्थापनाय भवतु । मित्रावरुणाविममग्नेः स्तोतारं धारयतामित्यर्थः । “अवयाताम् अवस्ताद्गच्छतां स्वर्गलोकस्याधस्तादन्तरिक्षे वर्तमानानां “मरुताम् एतत्संज्ञानां देवानां "हेळः क्रोधः “अद्भुतः महान् भवति । अद्भुत इत्येतन्महन्नाम । तस्मात् क्रोधात् इममग्नेः स्तोतारं मित्रावरुणौ रक्षतामिति शेषः । अपि च “नः अस्मान हे अग्ने “सु “मृळ सुष्ठु मृडय सुखय । “एषां मरुतां “मनः च “पुनः “भूतु पुनरपि प्रसन्नं भवतु । अन्यत् समानम् ॥ धायसे ।' वहिहाधाञ्भ्यश्छन्दसि इति भावे असुन् । नित्' इत्यनुवृत्तेः ‘ आतो युक् चिण्कृतोः' इति युक् । अवयाताम् । ‘ या प्रापणे '। अस्मात् अवपूर्वात् लटः शतृ । ‘ शतुरनुमः०' इति विभक्तेरुदात्तत्वम् । मृळ ।“ मृड सुखने । छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि' इति णिलोपः । द्व्यचोऽतस्तिङः इति संहितायां दीर्घत्वम् । भूतु ।' बहुलं छन्दसि ' इति शपो लुक् ।।


दे॒वो दे॒वाना॑मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू॑नामसि॒ चारु॑रध्व॒रे ।

शर्म॑न्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥१३

दे॒वः । दे॒वाना॑म् । अ॒सि॒ । मि॒त्रः । अद्भु॑तः । वसुः॑ । वसू॑नाम् । अ॒सि॒ । चारुः॑ । अ॒ध्व॒रे ।

शर्म॑न् । स्या॒म॒ । तव॑ । स॒प्रथः॑ऽतमे । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥१३

देवः । देवानाम् । असि । मित्रः । अद्भुतः । वसुः । वसूनाम् । असि । चारुः । अध्वरे ।

शर्मन् । स्याम । तव । सप्रथःऽतमे । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥१३

हे “अग्ने “देवः द्योतमानस्त्वं “देवानां सर्वेषाम् “अद्भुतः महान् “मित्रः “असि प्रौढः सखा भवसि । तथा “चारुः शोभनस्त्वम् “अध्वरे यज्ञे “वसूनां सर्वेषां धनानां “वसुः “असि निवासयिता भवसि । अतोऽस्माकं वसूनि देहीत्यर्थः । किंच “सप्रथस्तमे सर्वतः पृथुतमेऽतिशयेन विस्तीर्णे “तव त्वत्संबन्धिनि शर्मणि यज्ञगृहे “स्याम वर्तमाना भवेम । अन्यत् पूर्ववत् ॥ शर्मन् । सुपां सुलुक् । इति सप्तम्या लुक् ।।


तत्ते॑ भ॒द्रं यत्समि॑द्ध॒ः स्वे दमे॒ सोमा॑हुतो॒ जर॑से मृळ॒यत्त॑मः ।

दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥१४

तत् । ते॒ । भ॒द्रम् । यत् । सम्ऽइ॑द्धः । स्वे । दमे॑ । सोम॑ऽआहुतः । जर॑से । मृ॒ळ॒यत्ऽत॑मः ।

दधा॑सि । रत्न॑म् । द्रवि॑णम् । च॒ । दा॒शुषे॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥१४

तत् । ते । भद्रम् । यत् । सम्ऽइद्धः । स्वे । दमे । सोमऽआहुतः । जरसे । मृळयत्ऽतमः ।

दधासि । रत्नम् । द्रविणम् । च । दाशुषे । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥१४

हे “अग्ने “ते त्वत्संबन्धि “उत् खलु “भद्रं भजनीयम् । प्रशस्तमित्यर्थः । किं पुनस्तत् । “स्वे “दमे स्वकीये उत्तरवेदिलक्षणे निवासस्थाने । तस्यैष स्वो लोको यदुत्तरवेदीनाभिः ' ( ऐ. ब्रा. १ २८ ) इति श्रुतेः । तस्यामुत्तरवेद्यां “समिद्धः सम्यगिद्धः प्रज्वलितः “सोमाहुतः हुतेन सोमरसेन संतर्पितः सन् “जरसे ऋत्विग्भिः स्तूयसे इति यदस्ति तद्भद्रमित्यर्थः । एवं प्रशस्तस्त्वं “मृळयत्तमः अतिशयेनास्माकं सुखयिता भूत्वा रत्नं रमणीयं कर्मफलं वा “द्रविणं धनं “च “दाशुषे हविर्दत्तवते यजमानाय “दधासि प्रयच्छसि । अन्यत् समानम् ॥ समिद्धः । ‘ ञिइन्धी दीप्तौ । कर्मणि निष्ठा । ‘ श्वीदितो निष्ठायाम् ' इति इट्प्रतिषेधः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सोमाहुतः ।। सोमेनाहुतः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । जरसे । जरतिः स्तुतिकर्मा । व्यत्ययेन कर्मणि कर्तृप्रत्ययः। यद्वृत्तयोगादनिघातः । दधासि। ‘ अनुदात्ते च ' इति अभ्यस्तस्य आद्युदात्तत्वम् ॥


यस्मै॒ त्वं सु॑द्रविणो॒ ददा॑शोऽनागा॒स्त्वम॑दिते स॒र्वता॑ता ।

यं भ॒द्रेण॒ शव॑सा चो॒दया॑सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥१५

यस्मै॑ । त्वम् । सु॒ऽद्र॒वि॒णः॒ । ददा॑शः । अ॒ना॒गाः॒ऽत्वम् । अ॒दि॒ते॒ । स॒र्वऽता॑ता ।

यम् । भ॒द्रेण॑ । शव॑सा । चो॒दया॑सि । प्र॒जाऽव॑ता । राध॑सा । ते । स्या॒म॒ ॥१५

यस्मै । त्वम् । सुऽद्रविणः । ददाशः । अनागाःऽत्वम् । अदिते । सर्वऽताता ।

यम् । भद्रेण । शवसा । चोदयासि । प्रजाऽवता । राधसा । ते । स्याम ॥१५

हे "सुद्रविणः शोभनधन "अदिते अखण्डनीयाग्ने "सर्वताता सर्वासु कर्मततिषु यद्वा सर्वेषु यज्ञेषु वर्तमानाय यस्मै यजमानाय “अनागास्त्वम् अपापत्वं पापराहित्येन कर्मार्हतां “त्वं “ददाशः प्रयच्छसि स यजमानः समृद्धो भवति । "यं च यजमानं “भद्रेण भजनीयेन कल्याणेन “शवसा बलेन “चोदयासि संयोजयसि सोऽपि समृद्धो भवति । वयं च स्तोतारः प्रजावता प्रजाभिः पुत्रपौत्रैर्युक्तेन “ते "राधसा त्वया दत्तेन धनेन युक्ताः स्याम भवेम ॥ सुद्रविणः । शोभनानि द्रविणानि धनानि यस्य । ‘ द्रु गतौ । द्रुदक्षिभ्यामिनन् ' ( उ. सू. २. २०८)। द्रविणशब्दस्यान्ते सकारोपजनश्छान्दसः । ददाशः । ‘ दाशृ दाने ' । लेट अडागमः। ‘बहुलं छन्दसि' इति शपः श्लुः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सर्वताता। सर्वदेवात्तातिल' इति स्वार्थे तातिल्प्रत्ययः। यास्कपक्षे तु सर्वाः स्तुतयो येषु यागेष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्या आत्वम् । उभयत्रापि सुपां सुलुक्' इति सप्तम्या डादेशः । चोदयासि । ‘ चुद प्रेरणे' । लेटि आडागमः ॥


स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायु॒ः प्र ति॑रे॒ह दे॑व ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥१६

सः । त्वम् । अ॒ग्ने॒ । सौ॒भ॒ग॒ऽत्वस्य॑ । वि॒द्वान् । अ॒स्माक॑म् । आयुः॑ । प्र । ति॒र॒ । इ॒ह । दे॒व॒ ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥१६

सः । त्वम् । अग्ने । सौभगऽत्वस्य । विद्वान् । अस्माकम् । आयुः । प्र । तिर । इह । देव ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥१६

हे "देव दानादिगुणयुक्त "अग्ने सः पूर्वोक्तगुणविशिष्टः त्वं "सौभगत्वस्य सुभगत्वं सौभाग्यं “विद्वान् जानन् "इह अस्मिन् कर्मणि "अस्माकमायुः “प्र “तिर प्रवर्धय । प्रपूर्वस्तिरतिर्वर्धनार्थः । त्वया वर्धितं नः अस्माकं “तत् आयुः मित्रादयः षड्दैवताः “ममहन्तां पूजयन्तां रक्षन्त्वित्यर्थः । “मित्रः प्रमीतेस्त्राता “वरुणः अनिष्टानां निवारयिता अदितिः अदीना अखण्डनीया वा देवमाता “सिन्धुः स्यन्दनशीलोदकात्मा देवता "पृथिवी प्रथिता भूदेवता। “उत इति समुच्चये। "द्यौः प्रकाशमाना द्युलोकात्मा देवता । एताश्च सर्वा अग्निना प्रवर्धितमायुर्ममहन्तामिति पूर्वत्रान्वयः ॥ सौभगत्वस्य । सुभगस्य भावः सौभगम् ।' सुभगान्मन्त्रे ' इति उद्गात्रादिषु पाठात् भावे अञ् । पुनरपि भावप्रत्ययोत्पत्तिश्छान्दसी । ममहन्ताम् । ‘ मह पूजायाम् ' । भौवादिकः। लोटि • बहुलं छन्दसि ' इति शपः श्लुः । तुजादित्वात् अभ्यासस्य दीर्घत्वम् ॥ ॥ ३२ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥


इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके षष्ठोऽध्यायः समाप्तः ।।


टिप्पणी

यज्ञसारथिगानम्

भारुण्डसाम

कुत्सोपरि टिप्पणी

स्तोमोपरि टिप्पणी

जातवेदसः स्वरूपं किं अस्ति, अस्मिन् संदर्भे -- यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे । रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥७॥

इमं स्तोमं अर्हते जातवेदसे --

काशकृत्स्नधातुकोशे(१.३२३) उल्लेखमस्ति -- अर्ह मह पूजायाम्। अत्र अर्ह-मह शब्दयोः भेदं न प्रतीयते। किन्तु ऋग्वेदे जातवेदाशब्दस्य संदर्भे अयं भेदः व्यक्तः भवति। अर्ह एकान्तिकसाधनायाः एवं मह सार्वत्रिकसाधनायाः प्रतीकौ स्तः। इन्द्रस्य संदर्भे, यदा इन्द्रः वज्रेण वृत्रवधं करोति, तत् एकान्तिकः। यदा सः मरुतैः सह मैत्री करोति, मरुत्सखा भवति, तत् सार्वत्रिकः। जातवेदस्य संदर्भे अयं प्रतीयते यत् यावत् अग्निः छन्देभ्यः बद्धा अस्ति, तावत् एकान्तिकः, अर्हतः अस्ति। यदा छन्दसां अतिक्रमणं कृत्वा स्तोमैः बद्धा भवति, तत् सार्वत्रिकरूपः (संमहेम) अस्ति। इन्द्रस्य सखा मरुतः सन्ति, जातवेदस्य वयं(अग्ने सख्ये मा रिषामा वयं तव)। यावत् अग्निः छन्देभ्यः बद्धा अस्ति, तावत् देवानां स्वरूपं विश्वेदेवाः, समष्टिः अस्ति। यदा स्तोमेभिः, तदा देवताविशेषः, व्यष्टिः।

शुक्लयजुर्वेदे (५.४, १२.६१) एवं शतपथब्राह्मणे (३.४.१.२२) जातवेदसद्वयोः उल्लेखमस्ति। एतयोः सर्जनं अरणिमन्थनतः भवति। अधरारणिः उर्वश्याः रूपमासीत्, उत्तरारणिः पुरूरवारूपः। जातवेदसः यः रूपं एकवचने अस्ति, तत् अमृतं अस्ति - प्रप्र वयममृतं जातवेदसं( ऋ. ६.४८.१)।

जातवेदा उपरि संक्षिप्त टिप्पणी एवं वैदिकसंदर्भाः

षष्ठमहः - वैश्वदेवशस्त्रम्, आग्निमारुतशस्त्रम्-- इमम् स्तोमम् अर्हते जात वेदस इति जातवेदसीयम् । तस्य तद् एव अन्त रूपम् यत् सोदर्कम् । मा रिषाम मा रिषाम इति । तद् अन्ततो अरिष्ट्यै रूपम् । - कौ.ब्रा. २३.८

इमं स्तोममर्हते जातवेदस इत्याग्नीध्रो यजति रथमिव सम्महेमा मनीषयेति बहूनि वाह तदृभूणां रूपम् – ऐ.ब्रा. ६.१२.१२

षष्ठे अहनि प्रथममाज्यस्तोत्रम् - इमं स्तोममर्हते जातवेदस" इत्याग्नेयमाज्यं भवति सोदर्कमिन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन् – तांब्रा. १३.८.१

इमं स्तोमम् अर्हते जातवेदसे इत्य् आग्नीध्रो यजति रथम् इव सं महेमा मनीषया इति बहूनि वाह तद् ऋभूणां रूपम् – गो.ब्रा. २.२.२२

अग्न्यन्वाधानप्रकरणम् -- प्राग्नये वाचमिमं स्तोममिति चोपस्थानं सूक्ताभ्याम् – शांश्रौसू. ४.२.१०

ज्योतिष्टोमे तृतीयसवने प्रस्थितयाज्याप्रकरणम् -- इमं स्तोममित्याग्नीध्रः शांश्रौसू. ८.२.११

दशरात्रे षष्ठमहः -- इमं स्तोममित्याग्निमारुते शां.श्रौ.सू. १०.८.१५

उपनयनम् -- इमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्यैधोस्येधिषीमहीति समिधमादधाति – मानवगृह्यसूत्रम् १.१.१६

दर्भाणां पवित्रे मन्त्रवदुत्पाद्येमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्बर्हिःस्तृणाति मानव गृह्यसूत्रम् १.१०.२

इमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्बर्हिस्तृणाति मानवगृह्यसूत्रम् २.२.५


पौण्डरीकयागे यज्ञसारथिगानाय यस्य साम्नः भवान् गानं करिष्यसि, तस्मिन् संदर्भे पौण्डरीकयागस्य स्वरूपं ध्यातव्यं अस्ति। कथनमस्ति यत् पौण्डरीकयागे गजस्य आलभनं भवति, यथा अश्वमेधे अश्वस्य। नायं आलभनं भौतिकरूपेण भवति। गजस्य प्रकृतिः शुण्डद्वारा जलस्य आकर्षणस्य भवति, यथा सूर्यः स्वकिरणेभ्यः जलस्य आकर्षणं करोति। एवमेव, अस्मिन् जगति, यः सर्वश्रेष्ठमस्ति, तस्य आकर्षणम्। अभिधानराजेन्द्रकोशे(भागः ५, पृ. ८४३) कथनमस्ति यत् एकः पंकपूर्णः सरोवरः अस्ति यस्मात् साधकेन पद्मस्य आहरणं करणीयं अस्ति। यः एवंकरणे सक्षमः भवति, तत् पुण्डरीकं अस्ति, शेषः कण्डरीकं।


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९४&oldid=401699" इत्यस्माद् प्रतिप्राप्तम्