सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.४३

विकिस्रोतः तः
← सूक्तं १.४२ ऋग्वेदः - मण्डल १
सूक्तं १.४३
कण्वो घौरः
सूक्तं १.४४ →
दे. रुद्रः, ३ रुद्रः, मित्रावरुणौ च, ७-९ सोमः। गायत्री, ९ अनुष्टुप्।


कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे ।
वोचेम शंतमं हृदे ॥१॥
यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे ।
यथा तोकाय रुद्रियम् ॥२॥
यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति ।
यथा विश्वे सजोषसः ॥३॥
गाथपतिं मेधपतिं रुद्रं जलाषभेषजम् ।
तच्छंयोः सुम्नमीमहे ॥४॥
यः शुक्र इव सूर्यो हिरण्यमिव रोचते ।
श्रेष्ठो देवानां वसुः ॥५॥
शं नः करत्यर्वते सुगं मेषाय मेष्ये ।
नृभ्यो नारिभ्यो गवे ॥६॥
अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् ।
महि श्रवस्तुविनृम्णम् ॥७॥
मा नः सोमपरिबाधो मारातयो जुहुरन्त ।
आ न इन्दो वाजे भज ॥८॥
यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य ।
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥९॥


सायणभाष्यम्

‘ कद्रुद्राय ' इति नवर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते-- कद्रुद्राय नव रौद्रं तृतीया मैत्रावरुणी चान्यस्तृचः सौम्योऽन्त्यानुष्टुप् ' इति । घोरपुत्रः कण्व ऋषिः । गायत्री छन्दः । ‘ यास्ते प्रजाः । इत्यन्त्यानुष्टुप् । रुद्रो देवता । ‘ यथा नो मित्रः' इत्येषा मित्रावरुणदेवताका च। “अस्मे सोम' इत्यादिरन्त्यस्तृचस्तु सौम्य एव । सर्वेषु रुद्रदेवताकेषु कर्मसु अनेन सूक्तेन दिगुपस्थानं कर्तव्यम् । तथा च सूत्रितं - कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वन इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम् (आश्व. गृ. ४. ९. २१-२२ ) इति ॥


कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से ।

वो॒चेम॒ शंत॑मं हृ॒दे ॥१

कत् । रु॒द्राय॑ । प्रऽचे॑तसे । मी॒ळ्हुःऽत॑माय । तव्य॑से ।

वो॒चेम॑ । शम्ऽत॑मम् । हृ॒दे ॥१

कत् । रुद्राय । प्रऽचेतसे । मीळ्हुःऽतमाय । तव्यसे ।

वोचेम । शम्ऽतमम् । हृदे ॥१

"कत् कदा "रुद्राय एतन्नामकाय देवाय “शंतमम् अतिशयेन सुखकरं स्तोत्रं "वोचेम पठेम । कीदृशाय । "प्रचेतसे प्रकृष्टज्ञानयुक्ताय "मीळ्हुष्टमाय सेक्तृतमाय अभीष्टकामवर्षायेत्यर्थः । “तव्यसे अतिशयेन प्रवृद्धाय "हृदे अस्मदीयहृन्निष्ठाय ॥ कत् कदा । अन्त्यलोपश्छान्दसः । रुद्राय । रोदयति सर्वमन्तकाले इति रुद्रः। ‘रोदेर्णिलुक्च' ( उ. सू. २. १७९ ) इति रक्प्रत्ययः । प्रचेतसे । ‘ चिती संज्ञाने'। प्रकृष्टं चेततीति प्रचेताः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । मीळ्हुष्टमाय । अतिशयेन मीढ्वान् मीळ्हुष्टमः । दाश्वान् साह्वान् मीढ्वांश्च ' इति क्वसुप्रत्ययान्तो निपातितः । तमपि अयस्मयादित्वेन भत्वात् ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । ‘ शासिवसिघसीनां च ' इति षत्वम् । तव्यसे । तवतिर्वृद्ध्यर्थः सौत्रो धातुः । अतिशयेन तविता तवीयान् । “तुश्छन्दसि ' इति ईयसुन्प्रत्ययः । ‘ तुरिष्ठेमेयःसु ' इति तृलोपः । ईयसुन ईकारलोपछान्दसः । नित्त्वादाद्युदात्तत्वम् । वोचेम ।' वच परिभाषणे '। लिङयाशिष्यङ्' ।' वच उम्' इति उमागमः। यासुटः स्वरेण एकार उदात्तः । हृदे। ‘पद्दन्' इत्यादिना हृदयशब्दस्य हृदादेशः । ‘ ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ॥


यथा॑ नो॒ अदि॑ति॒ः कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ ।

यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥२

यथा॑ । नः॒ । अदि॑तिः । कर॑त् । पश्वे॑ । नृऽभ्यः॑ । यथा॑ । गवे॑ ।

यथा॑ । तो॒काय॑ । रु॒द्रिय॑म् ॥२

यथा । नः । अदितिः । करत् । पश्वे । नृऽभ्यः । यथा । गवे ।

यथा । तोकाय । रुद्रियम् ॥२

“अदितिः भूमिः "नः अस्माकं "रुद्रियं रुद्रसंबन्धि भेषजं "यथा येन प्रकारेण सिध्यति “करत् तथा करोतु । किंच "यथा येन प्रकारेण "पश्वे अस्मदीयाश्वमहिषादिपशवे "नृभ्यः अस्मदीयपुरुषेभ्यो विशेषेण "गवे गोजातये हितं रुद्रियं सिध्यति तथा करोतु । किंच "तोकाय अस्मदीयापत्याय रुद्रियं "यथा सिध्यति तथा करोतु । भेषजस्य रुद्रसंबन्धित्वं मन्त्रान्तरे समाम्नातं - ‘ या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी' (तै. सं. ४. ५. १०. १ ) इति । गवादिविषयभेषजं चान्यत्र स्पष्टमाम्नातं- भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजं सुभेषजम् ' ( तै. सं. १. ८. ६. १) इति ॥ करत् । डुकृञ् करणे'। लङि व्यत्ययेन शप् । यद्वा । लेटि अडागमः । इतश्च लोपः' इति इकारलोपः । यद्वा । लुङि • कृमृदृरुहिभ्यश्छन्दसि' इति च्लेः अङादेशः । ‘ ऋदृशोऽङि गुणः' इति गुणः। अद्ययोः पक्षयोः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । तृतीये तु व्यत्ययेन । यद्वृत्तयोगादनिघातः । पश्वे। संज्ञापूर्वकस्य विधेरनित्यत्वात् “ घेर्ङिति' (पा. सू. ७. ३. १११ ) इति गुणाभावः । यणादेशः । नृभ्यः । ‘ नृ चान्यतरस्याम् (पा. सू. ६. १. १८४ ) इति विभक्त्युदात्तत्वाभावः । गवे। ‘ सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तस्य ‘ न गोश्वन्साववर्ण ' इति प्रतिषेधः । रुद्रियम् । रुद्रशब्दात् तस्येदमित्यर्थे घप्रत्ययः ।।


यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति ।

यथा॒ विश्वे॑ स॒जोष॑सः ॥३

यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । यथा॑ । रु॒द्रः । चिके॑तति ।

यथा॑ । विश्वे॑ । स॒ऽजोष॑सः ॥३

यथा । नः । मित्रः । वरुणः । यथा । रुद्रः । चिकेतति ।

यथा । विश्वे । सऽजोषसः ॥३

“मित्रो "वरुणः च "नः अस्मान् "यथा येन प्रकारेण “चिकेतति अनुग्राह्यत्वेन जानाति। "रुद्रः अपि "यथा चिकेतति । "सजोषसः समानप्रीतयः "विश्वे सर्वे देवाः "यथा चिकेतन्ति तथा भवत्विति शेषः । यद्वा । यथाशब्दोपेतमन्त्रद्वयस्य तथा कदा वोचेमेति पूर्वत्रान्वयः ॥ चिकेतति । कित ज्ञाने'। लेटि अडागमः। ‘ नाभ्यस्तस्य' (पा. सू. ७. ३.८७) इति गुणनिषेधो न भवति, ‘बहुलं छन्दसीति वक्तव्यम्' इति वचनात् । सार्वधातुकत्वाच्च ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सजोषसः । ‘ जुषी प्रीतिसेवनयोः'। समानं जुषन्तीति सजोषसः । ‘ समानस्य च्छन्दसि' इति सभावः । असुनो नित्त्वादुत्तरपदस्याद्युदात्तत्वम् । तदेव कृदुत्तरपदप्रकृतिस्वरत्वेन शिष्यते ॥


गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् ।

तच्छं॒योः सु॒म्नमी॑महे ॥४

गा॒थऽप॑तिम् । मे॒धऽप॑तिम् । रु॒द्रम् । जला॑षऽभेषजम् ।

तत् । श॒म्ऽयोः । सु॒म्नम् । ई॒म॒हे॒ ॥४

गाथऽपतिम् । मेधऽपतिम् । रुद्रम् । जलाषऽभेषजम् ।

तत् । शम्ऽयोः । सुम्नम् । ईमहे ॥४

'रुद्रम् अभिलक्ष्य वयं "शंयोः बृहस्पतिपुत्रस्य संबन्धि “तत् प्रसिद्धं सर्वप्रजाभ्यो हितं "सुम्नं सुखम् “ईमहे याचामहे । कीदृशं रुद्रम्। "गाथपतिं स्तुतिपालकं “मेधपतिं यज्ञपालकं "जलाषभेषजं सुखरूपौषधोपेतम्। यद्वा । उदकरूपौषधोपेतम् । उदकं हि रुद्रनामाभिमन्त्रितं सत् औषधं भवति ॥ गाथपतिम् । गाथा इति वाङ्नाम, ‘ गाथा गणः ' ( नि. १. ११. ३७ ) इति तन्नामसु पठितत्वात् । वायूपायाः स्तुतेः पतिर्गाथपतिः । ‘कै गै रै शब्दे'। ‘ आदेचः' इति आत्वम् । ‘ उषिकुषिगार्तिभ्यस्थन्' इति थन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ' इति पूर्वपदस्य ह्रस्वत्वम् । ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘ मरुद्वृधादीनां छन्दस्युपसंख्यानम् ' इति पूर्वपदान्तोदात्तत्वम् । मेधपतिम् । पूर्ववत् । जलाषभेषजम् । ‘जनी प्रादुर्भावे'। जायन्ते इति जाः । ‘ अन्येष्वपि दृश्यते' (पा. सू. ३. २. १०१ ) इति दृशिग्रहणात् केवलादपि डप्रत्ययः । लाषः । ‘ लष कान्तौ । कान्तिरभिलाषः। भावे घञ् । जानां लाषो यस्मिन् तज्जलाषं सुखम् । जलाषरूपं भेषजं यस्मिन् रुद्रे स जलाषभेषजः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शंयोः । ‘ कंशंभ्याम्' ( पा. सू. ५, २. १३८) इति मत्वर्थीयो युस्प्रत्ययः । ‘ सिति च' (पा. सू. १. ४. १६) इति पदसंज्ञायाम् अनुस्वारपरसवर्णौ । प्रत्ययस्वरः ॥


यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते ।

श्रेष्ठो॑ दे॒वानां॒ वसु॑ः ॥५

यः । शु॒क्रःऽइ॑व । सूर्यः॑ । हिर॑ण्यम्ऽइव । रोच॑ते ।

श्रेष्ठः॑ । दे॒वाना॑म् । वसुः॑ ॥५

यः । शुक्रःऽइव । सूर्यः । हिरण्यम्ऽइव । रोचते ।

श्रेष्ठः । देवानाम् । वसुः ॥५

“यः रुद्रः “सूर्यः इव “शुक्रः सूर्यवद्दीप्तिमान् “हिरण्यमिव “रोचते। यथा सर्वेषां प्राणिनां हिरण्यं प्रीतिकरं भवति तथा रुद्रोऽपि । स च "देवानां सर्वेषां मध्ये “श्रेष्ठः “वसुः निवासहेतुश्च ॥ रोचते । ‘ रुच दीप्तावभिप्रीत्यां च ' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । श्रेष्ठः । प्रशस्यतरः । प्रशस्यशब्दात् इष्टनि प्रशस्यस्य श्रः' (पा. सू. ५. ३. ६० ) इति श्रादेशः । नित्त्वादाद्युदात्तत्वम् । वसुः । वासयति सर्वमिति वसुः । ‘वस निवासे' । अन्तर्भावितण्यर्थात् ' शृस्वृस्निहि° ! इत्यादिना उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम् ॥ ॥ २६ ॥


अग्निमारुते ' शं नः करति' इति धाय्या । ‘ अथ यथेतम्' इति खण्डे सूत्रितं - ‘ वैश्वानराय पृथुपाजसे शं नः करत्यर्वते' (आश्व. श्रौ. ५. २०) इति ॥

शं न॑ः कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।

नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥६

शम् । नः॒ । क॒र॒ति॒ । अर्व॑ते । सु॒ऽगम् । मे॒षाय॑ । मे॒ष्ये॑ ।

नृऽभ्यः॑ । नारि॑ऽभ्यः । गवे॑ ॥६

शम् । नः । करति । अर्वते । सुऽगम् । मेषाय । मेष्ये ।

नृऽभ्यः । नारिऽभ्यः । गवे ॥६

“नः अस्माकं संबन्धिभ्यः अर्वदादिभ्यः “सुगं सुष्ठु गम्यं “शं सुखं “करति देवः करोति । “अर्वते अश्वाय । अर्वञ्शब्दोऽश्वनाम, ‘अर्वा वाजी' (नि. १. १४. ३) इति तन्नामसु पाठात् । “मेषाय मेषजातिपुरुषाय “मेष्ये तज्जातीयस्त्रियै “नृभ्यः पुरुषेभ्यः "नारिभ्यः स्त्रीभ्यः "गवे गोजातये ॥ करति । ‘डुकृञ् करणे' । व्यत्ययेन शप् । अर्वते । अर्ति गच्छतीत्यर्वा । अन्येभ्योऽपि दृश्यन्ते ' इति वनिप् । चतुर्थ्येकवचने ‘ अर्वणस्त्रसावनञः' इति नकारस्य तृआदेशः । वनिप्सुपौ पित्त्वादनुदात्तौ । धातुस्वरः । मेषाय । ‘ मिष स्पर्धायाम् ' । पचाद्यच् ' देवसेनमेषादयः पचादिषु द्रष्टव्याः । इति वचनात् । मेष्ये । ‘ जातेरस्त्रीविषयादयोपधात् ' ( पा. सू. ४. १. ६३ ) इति ङीष्प्रत्ययः । प्रत्ययस्वरः । चतुर्थ्येकवचने आगमानुशासनस्यानित्यत्वात् आडागमाभावः । उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' इति स्वरितत्वम् ।' उदात्तयणो हल्पूर्वात् ' इति तु न भवति, ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति वचनात् । नृभ्यः। ‘सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘ नृ चान्यतरस्याम्' इति प्रतिषेधः । नारिभ्यः । नृनरयोर्वृद्धिश्च (पा. सू. ४. १. ७३ ग.) इति शार्ग्३रवादिषु पाठात् ङीन्प्रत्ययः । नित्त्वादाद्युदात्तः। गवे। ‘ न गोश्वन्साववर्ण ' इति विभक्त्युदात्तस्य प्रतिषेधः ॥


अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् ।

महि॒ श्रव॑स्तुविनृ॒म्णम् ॥७

अ॒स्मे इति॑ । सो॒म॒ । श्रिय॑म् । अधि॑ । नि । धे॒हि॒ । श॒तस्य॑ । नृ॒णाम् ।

महि॑ । श्रवः॑ । तु॒वि॒ऽनृ॒म्णम् ॥७

अस्मे इति । सोम । श्रियम् । अधि । नि । धेहि । शतस्य । नृणाम् ।

महि । श्रवः । तुविऽनृम्णम् ॥७

हे “सोम देव "नृणां पुरुषाणां "शतस्य पर्याप्तां “श्रियम् “अस्मे अस्मासु “अधि “नि “धेहि आधिक्येन स्थापय । तथा “महि महत् "तुविनृम्णं प्रभूतबलयुक्तं “श्रवः अन्नम् अधि नि धेहि ॥ अस्मे । ‘ सुपां सुलुक्' इति सप्तम्याः शेआदेशः । नृणाम् ।' नृ च ' ( पा. सू. ६. ४. ६ ) इति दीर्घप्रतिषेधः । ‘ नामन्यतरस्याम्' इति नाम उदात्तत्वम्। महीत्यादयो गताः ॥


मा न॑ः सोमपरि॒बाधो॒ मारा॑तयो जुहुरन्त ।

आ न॑ इन्दो॒ वाजे॑ भज ॥८

मा । नः॒ । सो॒म॒ऽप॒रि॒बाधः॑ । मा । अरा॑तयः । जु॒हु॒र॒न्त॒ ।

आ । नः॒ । इ॒न्दो॒ इति॑ । वाजे॑ । भ॒ज॒ ॥८

मा । नः । सोमऽपरिबाधः । मा । अरातयः । जुहुरन्त ।

आ । नः । इन्दो इति । वाजे । भज ॥८

“सोमपरिबाधः सोमस्य परितो बाधका यागरहिताः “नः अस्मान् “मा "जुहुरन्त मा हिंसन्तु। तथा “अरातयः शत्रवः “मा जुहुरन्त। हे "इन्दो सोम “वाजे बलविषयेऽन्नविषये वा “नः अस्मान् "आ “भज सर्वतः सेवस्व ॥ सोमपरिबाधः । सोमं परिबाधन्ते ये ते तादृशाः । ‘ क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अरातयः । ‘रा दाने '। ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्तरि क्तिन् । यद्वा। ‘क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। जुहुरन्त । ‘ हृ प्रसह्यकरणे'। व्यत्ययेनात्मनेपदम् । लङि जुहोत्यादित्वात् श्लुः । ‘ बहुलं छन्दसि' (पा. सू. ७. १. १०३ ) इति बहुलवचनात् इकारस्यापि ? उत्वम् । द्विर्भावहलादिशेषौ ।' सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति वचनात् । अदभ्यस्तात् ' ( पा. सू. ७. १, ४) इति अदादेशाभावे सति ‘ झोऽन्तः इति अन्तादेशः । ‘ न माङयोगे ' इति अडभावः ॥


यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ ।

मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥९

याः । ते॒ । प्र॒ऽजाः । अ॒मृत॑स्य । पर॑स्मिन् । धाम॑न् । ऋ॒तस्य॑ ।

मू॒र्धा । नाभा॑ । सो॒म॒ । वे॒नः॒ । आ॒ऽभूष॑न्तीः । सो॒म॒ । वे॒दः॒ ॥९

याः । ते । प्रऽजाः । अमृतस्य । परस्मिन् । धामन् । ऋतस्य ।

मूर्धा । नाभा । सोम । वेनः । आऽभूषन्तीः । सोम । वेदः ॥९

हे “सोम “ते तव संबन्धिन्यः “याः “प्रजाः सन्ति स्तोत्रं वा कुर्वन्ति ताः प्रजाः “मूर्धा शिरःस्थानीयस्त्वं “नाभा संनहनयुक्ते यज्ञगृहे "वेनः कामयस्व । कीदृशस्य ते । “अमृतस्य मरणरहितस्य “परस्मिन्धामन्नृतस्य उत्तमे स्थान प्राप्तस्य । हे “सोम आभूषन्तीः सर्वतस्त्वामलंकुर्वन्तीः प्रजाः "वेदः जानीहि ॥ धामन् । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । नाभा । ‘ णह बन्धने । ‘ नहो भश्च' ( उ. सू. ४. ५६५ ) इति कर्मणि इञ्प्रत्ययः । ञित्त्वादाद्युदात्तत्वम् । ‘सुपां सुलुक् ' इति सप्तम्या डादेशः । वेनः । ‘ वेनतिः कान्तिकर्मा' ( नि. २.६.४)। लेटि सिपि अडागमः । ‘ तिङ्ङतिङः' इति निघातः । आभूषन्तीः । ‘भूष अलंकारे ' । भौवादिकः । शपः पित्त्वादनुदात्तत्वम्, शतुश्च लसार्वधातुकस्वरेण । धातुस्वरेण आद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । वेदः । ‘ विद ज्ञाने '। लेटि सिपि अडागमः ॥ ॥ २७ ॥ ॥ ८ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.४३&oldid=402045" इत्यस्माद् प्रतिप्राप्तम्